मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय २८

3
वायवीयसंहिता · उत्तरभागः · 28

अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम्

उपमन्युरुवाच

अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् ।

शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम्

॥१॥

सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि ।

अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात्

॥२॥

अयने विषुवे चैव ग्रहणेषु विशेषतः ।

कर्तव्या महती पूजा ह्यधिका वापि शक्तितः

॥३॥

मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु ।

स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः

॥४॥

ब्रह्महत्यादिदोषाणामतीव महतामपि ।

निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते

॥५॥

पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ।

माघे मघाख्ये नक्षत्रे प्रदद्याद्घृतकंबलम्

॥६॥

फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ।

चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि

॥७॥

वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ।

ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत्

॥८॥

आषाढे चोत्तराषाढे पवित्रारोपणं तथा ।

श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत्

॥९॥

श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ।

प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने

॥१०॥

आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम् ।

अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने

॥११॥

कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् ।

मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेच्छिवम्

॥१२॥

अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा ।

आस्थानं वा महापूजामधिकं वा समर्चनम्

॥१३॥

आवृत्ते ऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु ।

दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने

॥१४॥

उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबले ऽथ वा ।

स्नानपूजाजपध्यानहोमदानादिकाः क्रियः

॥१५॥

निर्मितानुगुणाः कार्याः पुरश्चरणपूर्विकाः ।

शिवानले च विहते पुनस्सन्धानमाचरेत्

॥१६॥

य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः ।

तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः

॥१७॥

एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः ।

दिव्यं श्रीकंठनाथस्य स्थानमाद्यं स गच्छति

॥१८॥

तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः ।

कालांतरेच्युतस्तस्मादौमं कौमारमेव च

॥१९॥

संप्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः ।

तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान्

॥२०॥

पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् ।

श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत्

॥२१॥

अर्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु ।

पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात्

॥२२॥

अर्धार्धचरितो यस्तु देही देहक्षयात्परम् ।

अंडांतं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम्

॥२३॥

संप्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः ।

अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा

॥२४॥

पुण्यक्षये क्षितिं प्राप्य कुले महति जायते ।

तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः

॥२५॥

पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ।

तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत्

॥२६॥

भोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ।

तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात्

॥२७॥

अण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ।

ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च

॥२८॥

शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ।

यश्चातीव शिवे भक्तो विषयासक्तचित्तवत्

॥२९॥

शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ।

एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः

॥३०॥

न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ।

तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना

॥३१॥

शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ।

नात्र निर्बंधयिष्यामो वयं केचन केनचित्

॥३२॥

निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ।

रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात्

॥३३॥

संसारकारणं येषां न प्ररोढुमलं भवेत् ।

प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः

॥३४॥

शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः

॥३५॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशो ऽध्यायः