योगगतिवर्णनम्
श्रीकृष्ण उवाच
ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात् ।
उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया
॥१॥इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ।
साधिकारं च सांगं च सविधिं सप्रयोजनम्
॥२॥यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ।
सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः
॥३॥तच्च तत्कारणं चैव तत्कालकरणानि च ।
तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः
॥४॥उपमन्युरुवाच
स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ।
ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः
॥५॥निरुद्धवृत्त्यंतरस्यं शिवे चित्तस्य निश्चला ।
या वृत्तिः स समासेन योगः स खलु पञ्चधा
॥६॥मंत्रयोगःस्पर्शयोगो भावयोगस्तथापरः ।
अभावयोगस्सर्वेभ्यो महायोगः परो मतः
॥७॥मंत्राभ्यासवशेनैव मंत्रवाच्यार्थगोचरः ।
अव्याक्षेपा मनोवृत्तिर्मंत्रयोग उदाहृतः
॥८॥प्राणायाममुखा सैव स्पर्शे योगोभिधीयते ।
स मंत्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः
॥९॥विलीनावयवं विश्वं रूपं संभाव्यते यतः ।
अभावयोगः संप्रोक्तो ऽनाभासाद्वस्तुनः सतः
॥१०॥शिवस्वभाव एवैकश्चिंत्यते निरुपाधिकः ।
यथा शैवमनोवृत्तिर्महायोग इहोच्यते
॥११॥दृष्टे तथानुश्रविके विरक्तं विषये मनः ।
यस्य तस्याधिकारोस्ति योगे नान्यस्य कस्यचित्
॥१२॥विषयद्वयदोषाणां गुणानामीश्वरस्य च ।
दर्शनादेव सततं विरक्तं जायते मनः
॥१३॥अष्टांगो वा षडंगो वा सर्वयोगः समासतः ।
यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम्
॥१४॥प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ।
समाधिरिति योगांगान्यष्टावुक्तानि सूरिभिः
॥१५॥आसनं प्राणसंरोधः प्रत्याहारोथ धारणा ।
ध्यानं समाधिर्योगस्य षडंगानि समासतः
॥१६॥पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ।
शिवागमेषु चान्येषु विशेषात्कामिकादिषु
॥१७॥योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ।
यम इत्युच्यते सद्भिः पञ्चावयवयोगतः
॥१८॥शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ।
इति पञ्चप्रभेदस्स्यान्नियमः स्वांशभेदतः
॥१९॥स्वस्तिकं पद्ममध्येंदुं वीरं योगं प्रसाधितम् ।
पर्यंकं च यथेष्टं च प्रोक्तमासनमष्टधा
॥२०॥प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ।
तद्रोचकं पूरकं च कुंभकं च त्रिधोच्यते
॥२१॥नासिकापुटमंगुल्या पीड्यैकमपरेण तु ।
औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः
॥२२॥बाह्येन मरुता देहं दृतिवत्परिपूरयेत् ।
नासापुटेनापरेण पूरणात्पूरकं मतम्
॥२३॥न मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम् ।
संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक
॥२४॥रेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम् ।
तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः
॥२५॥रेचकादिषु योभ्यासो नाडीशोधनपूर्वकः ।
स्वेच्छोत्क्रमणपर्यंतः प्रोक्तो योगानुशासने
॥२६॥कन्यकादिक्रमवशात्प्राणायामनिरोधनम् ।
तच्चतुर्धोपदिष्टं स्यान्मात्रागुणविभागतः
॥२७॥कन्यकस्तु चतुर्धा स्यात्स च द्वादशमात्रकः ।
मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः
॥२८॥उत्तमस्तु त्रिरुद्धातः षड्विंशन्मात्रकः परः ।
स्वेदकंपादिजनकः प्राणायामस्तदुत्तरः
॥२९॥आनंदोद्भवरोमांचनेत्राश्रूणां विमोचनम् ।
जल्पभ्रमणमूर्छाद्यं जायते योगिनः परम्
॥३०॥जानुं प्रदक्षिणीकृत्य न द्रुतं न विलंबितम् ।
अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता
॥३१॥मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः ।
नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत्
॥३२॥अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः ।
जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात्
॥३३॥अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः ।
तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम्
॥३४॥प्राणस्य विजयादेव जीयंते देह १ आयवः ।
७.२,३७.३५ प्राणो ऽपानः समानश्च ह्युदानो व्यान एव च
॥३५॥नागः कूर्मश्च कृकलो देवदत्तो धनंजयः ।
प्रयाणं कुरुते यस्मात्तस्मात्प्राणो ऽभिधीयते
॥३६॥अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते ।
व्यानो व्यानशयत्यंगान्यशेषाणि विवर्धयन्
॥३७॥उद्वेजयति मर्माणीत्युदानो वायुरीरितः ।
समं नयति सर्वांगं समानस्तेन गीयते
॥३८॥उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः ।
कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृंभणे
॥३९॥न जहाति मृतं चापि सर्वव्यापी धनंजयः ।
क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान्
॥४०॥निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ।
प्राणे तु विजिते सम्यक्तच्चिह्नान्युपलक्षयेत्
॥४१॥विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ।
बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा
॥४२॥लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ।
सर्वरोगक्षयश्चैव बलं तेजः सुरूपता
॥४३॥धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ।
तपांसि पापक्षयता यज्ञदानव्रतादयः
॥४४॥प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ।
इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह
॥४५॥आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ।
नमःपूर्वाणींद्रियाणि स्वर्गं नरकमेव च
॥४६॥निगृहीतनिसृष्टानि स्वर्गाय नरकाय च ।
तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः
॥४७॥इंद्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ।
धारणा नाम चित्तस्य स्थानबन्धस्समासतः
॥४८॥स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ।
कालं कंचावधीकृत्य स्थाने ऽवस्थापितं मनः
॥४९॥न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ।
मनसः प्रथमं स्थैर्यं धारणातः प्रजायते
॥५०॥तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ।
ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः
॥५१॥अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ।
ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः
॥५२॥प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते ।
सर्वमन्यत्परित्यज्य शिव एव शिवंकरः
॥५३॥परो ध्येयो ऽधिदेवेशः समाप्ताथर्वणी श्रुतिः ।
तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ
॥५४॥तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ ।
सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः
॥५५॥विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् ।
इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम्
॥५६॥ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ।
एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित्
॥५७॥ज्ञानवैराग्यसंपन्नः श्रद्दधानः क्षमान्वितः ।
निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः
॥५८॥जपाच्छ्रांतः पुनर्ध्यायेद्ध्यानाच्छ्रांतः पुनर्जपेत् ।
जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति
॥५९॥धारणा द्वादशायामा ध्यानं द्वादशधारणम् ।
ध्यानद्वादशकं यावत्समाधिरभिधीयते
॥६०॥समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम् ।
समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते
॥६१॥यदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् ।
स्वरूपशून्यवद्भानं समाधिरभिधीयते
॥६२॥ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ।
निर्वाणानलवद्योगी समाधिस्थः प्रगीयते
॥६३॥न शृणोति न चाघ्राति न जल्पति न पश्यति ।
न च स्पर्शं विजानाति न संकल्पयते मनः
॥६४॥नवाभिमन्यते किंचिद्बध्यते न च काष्टवत् ।
एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते
॥६५॥यथा दीपो निवातस्थः स्पन्दते न कदाचन ।
तथा समाधिनिष्ठो ऽपि तस्मान्न विचलेत्सुधीः
॥६६॥एवमभ्यसतश्चारं योगिनो योगमुत्तमम् ।
तदन्तराया नश्यंति विघ्नाः सर्वे शनैःशनैः
॥६७॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशोऽध्यायः