मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय ७

3
वायवीयसंहिता · उत्तरभागः · 7

शिवतत्त्वकथनम्

उपमन्युरुवाच

शक्तिस्स्वाभविकी तस्य विद्या विश्वविलक्षणा ।

एकानेकस्य रूपेण भाति भानोरिव प्रभा

॥१॥

अनंताः शक्तयो यस्या इच्छाज्ञानक्रियादयः ।

मायाद्याश्चाभवन्वह्नोर्विस्फुलिंगा यथा तथा

॥२॥

सदाशिवेश्वराद्या हि विद्या ऽविद्येश्वरादयः ।

अभवन्पुरुषाश्चास्याः प्रकृतिश्च परात्परा

॥३॥

महदादिविशेषांतास्त्वजाद्याश्चापि मूर्तयः ।

यच्चान्यदस्ति तत्सर्वं तस्याः कार्यं न संशयः

॥४॥

सा शक्तिस्सर्वगा सूक्ष्मा प्रबोधानंदरूपिणी ।

शक्तिमानुच्यते देवश्शिवश्शीतांशुभूषणः

॥५॥

वेद्यश्शिवश्शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः ।

धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः

॥६॥

आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे ।

शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः

॥७॥

माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा ।

असच्च सच्च यत्किंचित्तया सर्वमिदं ततम्

॥८॥

सा देवी मायया सर्वं ब्रह्मांडं सचराचरम् ।

मोहयत्यप्रयत्नेन मोचयत्यपि लीलया

॥९॥

अनया सह सर्वेशः सप्तविंशप्रकारया ।

विश्वं व्याप्य स्थितस्तस्मान्मुक्तिरत्र प्रवर्तते

॥१०॥

मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः ।

संशयाविष्टमनसो विस्मृशंति यथातथम्

॥११॥

किं कारणं कुतो जाता जीवामः केन वा वयम् ।

कुत्रास्माकं संप्रतिष्ठा केन वाधिष्ठिता वयम्

॥१२॥

केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम् ।

अविलंघ्या च विश्वस्य व्यवस्था केन वा कृता

॥१३॥

कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते ।

भूतानि योनिः पुरुषो योगी चैषां परो ऽथ वा

॥१४॥

अचेतनत्वात्कालादेश्चेतनत्वेपि चात्मनः ।

सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते

॥१५॥

तद्ध्यानयोगानुगतां प्रपश्यञ्छक्तिमैश्वरीम् ।

पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम्

॥१६॥

तया विच्छिन्नपाशास्ते सर्वकारणकारणम् ।

शक्तिमंतं महादेवमपश्यन्दिव्यचक्षुषा

॥१७॥

यः कारणान्यशेषाणि कालात्मसहितानि च ।

अप्रमेयो ऽनया शक्त्या सकलं यो ऽधितिष्ठति

॥१८॥

ततः प्रसादयोगेन योगेन परमेण च ।

दृष्टेन भक्तियोगेन दिव्यः गतिमवाप्नुयुः

॥१९॥

तस्मात्सह तथा शक्त्या हृदि पश्यंति ये शिवम् ।

तेषां शाश्वतिकी शांतिर्नैतरेषामिति श्रुतिः

॥२०॥

न हि शक्तिमतश्शक्त्या विप्रयोगो ऽस्ति जातुचित् ।

तस्माच्छक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः

॥२१॥

क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः ।

प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता

॥२२॥

देवो वा दानवो वापि पशुर्वा विहगो ऽपि वा ।

कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः

॥२३॥

गर्भस्थो जायमानो वा बालो वा तरुणो.पि वा ।

वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी

॥२४॥

पतितो वापि धर्मात्मा पंडितो मूढ एव वा ।

प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः

॥२५॥

अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः ।

प्रसीदति न संदेहो विगृह्य विविधान्मलान्

॥२६॥

प्रसदादेव सा भक्तिः प्रसादो भक्तिसंभवः ।

अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति

॥२७॥

प्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी ।

नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना

॥२८॥

अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ।

विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः

॥२९॥

प्रसन्ने सति देवेश पशौ तस्मिन्प्रवर्तते ।

अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरस्सरा

॥३०॥

तपसा विविधैश्शैवैर्धर्मैस्संयुज्यते नरः ।

तत्र योगे तदभ्यासस्ततो भक्तिः परा भवेत्

॥३१॥

परया च तया भक्त्या प्रसादो लभ्यते परः ।

प्रसादात्सर्वपाशेभ्यो मुक्तिर्मुक्तस्य निर्वृतिः

॥३२॥

अल्पभावो ऽपि यो मर्त्यस्सो ऽपि जन्मत्रयात्परम् ।

नयोनियंत्रपीडायै भवेन्नैवात्र संशयः

॥३३॥

सांगा ऽनंगा च या सेवा सा भक्तिरिति कथ्यते ।

सा पुनर्भिद्यते त्रेधा मनोवाक्कायसाधनैः

॥३४॥

शिवरूपादिचिंता या सा सेवा मानसी स्मृता ।

जपादिर्वाचिकी सेवा कर्मपूजादि कायिकी

॥३५॥

सेयं त्रिसाधना सेवा शिवधर्मश्च कथ्यते ।

स तु पञ्चविधः प्रोक्तः शिवेन परमात्मना

॥३६॥

तपः कर्म जपो ध्यानं ज्ञानं चेति समासतः ।

कर्मलिङ्गार्चनाद्यं च तपश्चान्द्रायणादिकम्

॥३७॥

जपस्त्रिधा शिवाभ्यासश्चिन्ता ध्यानं शिवस्य तु ।

शिवागमोक्तं यज्ज्ञानं तदत्र ज्ञानमुच्यते

॥३८॥

श्रीकंठेन शिवेनोक्तं शिवायै च शिवागमः ।

शिवाश्रितानां कारुण्याच्छ्रेयसामेकसाधनम्

॥३९॥

तस्माद्विवर्धयेद्भक्तिं शिवे परमकारणे ।

त्यजेच्च विषयासंगं श्रेयो ऽर्थी मतिमान्नरः

॥४०॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वकथनं नाम सप्तमो ऽध्यायः