आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः
उपमन्युरुवाच
आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः ।
अनवस्थितचित्तत्वमश्रद्धा भ्रांतिदर्शनम्
॥१॥दुःखानि दौर्मनस्यं च विषयेषु च लोलता ।
दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः
॥२॥आलस्यमलसत्त्वं तु योगिनां देहचेतनोः ।
धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः
॥३॥प्रमादो नाम योगस्य साधना नाम भावना ।
इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः
॥४॥अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते ।
अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि
॥५॥विपर्यस्ता मतिर्या सा भ्रांतिरित्यभिधीयते ।
दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः
॥६॥आधिभौतिकमंगोत्थं यच्च दुःखं पुरा कृतैः ।
आधिदैविकमाख्यातमशन्यस्त्रविषादिकम्
॥७॥इच्छाविघातजं मोक्षं दौर्मनस्यं प्रचक्षते ।
विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता
॥८॥शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः ।
उपसर्गाः प्रवर्तंते दिव्यास्ते सिद्धिसूचकाः
॥९॥प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः ।
उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः
॥१०॥सूक्ष्मे व्यवहिते ऽतीते विप्रकृष्टे त्वनागते ।
प्रतिभा कथ्यते यो ऽर्थे प्रतिभासो यथातथम्
॥११॥श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः ।
वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम्
॥१२॥दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः ।
तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते
॥१३॥स्पर्शनाधिगमस्तद्वद्वेदना नाम विश्रुता ।
गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः
॥१४॥संतिष्ठन्ते च रत्नानि प्रयच्छंति बहूनि च ।
स्वच्छन्दमधुरा वाणी विविधास्यात्प्रवर्तते
॥१५॥रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा ।
सिध्यंति प्रणिपत्यैनं दिशंति सुरयोषितः
॥१६॥योगसिद्ध्यैकदेशे ऽपि दृष्टे मोक्षे भवेन्मतिः ।
दृष्टमेतन्मया यद्वत्तद्वन्मोक्षो भवेदिति
॥१७॥कृशता स्थूलता बाल्यं वार्धक्यं चैव यौवनम् ।
नानाचातिस्वरूपं च चतुर्णां देहधारणम्
॥१८॥पार्थिवांशं विना नित्यं सुरभिर्गन्धसंग्रहः ।
एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम्
॥१९॥जले निवसनं चैव भूम्यामेवं विनिर्गमः ।
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः
॥२०॥यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् ।
विना कुम्भादिकं पाणौ जलसञ्चयधारणम्
॥२१॥यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात् ।
रसादिकं भवेच्चान्यत्त्रयाणां देहधारणम्
॥२२॥निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम् ।
तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम्
॥२३॥शरीरादग्निनिर्माणं तत्तापभयवर्जनम् ।
शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः
॥२४॥स्थापनं वानलस्या ऽप्सु पाणौ पावकधारणम् ।
दग्धे सर्गे यथापूर्वं मुखे चान्नादिपाचनम् ।
द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम्
॥२५॥एतच्चतुर्विंशतिधा तैजसं परिचक्षते ।
मनोजवत्वं भूतानां क्षणादन्तःप्रवेशनम्
॥२६॥पर्वतादिमहाभारधारणञ्चाप्रयत्नतः ।
गुरुत्वञ्च लघुत्वञ्च पाणावनिलधारणम्
॥२७॥अंगुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम् ।
एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तैजसैः
॥२८॥द्वात्रिंशद्गुणमैश्वर्यं मारुतं कवयो विदुः ।
छायाहीनविनिष्पत्तिरिन्द्रियाणामदर्शनम्
॥२९॥खेचरत्वं यथाकाममिन्द्रियार्थसमन्वयः ।
आकाशलंघनं चैव स्वदेहे तन्निवेशनम्
॥३०॥आकाशपिण्डीकरणमशरीरत्वमेव च ।
अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत्
॥३१॥ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते ।
यथाकामोपलब्धिश्च यथाकामविनिर्गमः
॥३२॥सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम् ।
कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम्
॥३३॥संसारदर्शनं चैव भोगैरैन्द्रैस्समन्वितम् ।
एतच्चांद्रमसैश्वर्यं मानसं गुणतो ऽधिकम्
॥३४॥छेदनं ताडनं चैव बंधनं मोचनं तथा ।
ग्रहणं सर्वभूतानां संसारवशवर्तिनाम्
॥३५॥प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा ।
आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते
॥३६॥एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् ।
सर्गः संकल्पमात्रेण त्राणं संहरणं तथा
॥३७॥स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् ।
असादृश्यं च सर्वस्य निर्माणं जगतः पृथक्
॥३८॥शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् ।
चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते
॥३९॥बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः ।
वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ।
ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते
॥४०॥तत्पौरुषं च गौणं च गणेशं पदमैश्वरम् ।
विष्णुना तत्पदं किंचिज्ज्ञातुमन्यैर्न शक्यते
॥४१॥विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः ।
निरोद्धव्या प्रयत्नेन वैराग्येण परेण तु
॥४२॥प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः ।
न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम्
॥४३॥तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम् ।
तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत्
॥४४॥अथवानुग्रहेच्छायां जगतो विचरेन्मुनिः ।
यथाकामंगुणान्भोगान्भुक्त्वा मुक्तिं प्रयास्यति
॥४५॥अथ प्रयोगं योगस्य वक्ष्ये शृणु समाहितः ।
शुभे काले शुभे देशे शिवक्षेत्रादिके पुनः ।
विजने जंतुरहिते निःशब्दे बाधवर्जिते
॥४६॥सुप्रलिप्ते स्थले सौम्ये गन्धधूपादिवासिते ।
मुक्तपुष्पसमाकीर्णे वितानादि विचित्रिते
॥४७॥कुशपुष्पसमित्तोयफलमूलसमन्विते ।
नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचये ऽपि वा
॥४८॥न दंशमशकाकीर्णे सर्पश्वापदसंकुले ।
न च दुष्टमृगाकीर्णे न भये दुर्जनावृते
॥४९॥श्मशाने चैत्यवल्मीके जीर्णागारे चतुष्पथे ।
नदीनदसमुद्राणां तीरे रथ्यांतरे ऽपि वा
॥५०॥न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निंदिते ।
नाजीर्णाम्लरसोद्गारे न च विण्मूत्रदूषिते
॥५१॥नच्छर्द्यामातिसारे वा नातिभुक्तौ श्रमान्विते ।
न चातिचिंताकुलितो न चातिक्षुत्पिपासितः
॥५२॥नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत् ।
युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु
॥५३॥युक्तनिद्राप्रबोधश्च सर्वायासविवर्जितः ।
आसनं मृदुलं रम्यं विपुलं सुसमं शुचि
॥५४॥पद्मकस्वस्तिकादीनामभ्यसेदासनेषु च ।
अभिवंद्य स्वगुर्वंतानभिवाद्याननुक्रमात्
॥५५॥ऋजुग्रीवशिरोवक्षा नातिष्ठेच्छिष्टलोचनः ।
किंचिदुन्नामितशिरा दंतैर्दंतान्न संस्पृशेत्
॥५६॥दंताग्रसंस्थिता जिह्वामचलां सन्निवेश्य च ।
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः
॥५७॥ऊर्वोरुपरि संस्थाप्य बाहू तिर्यगयत्नतः ।
दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि
॥५८॥उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः ।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्
॥५९॥संभृतप्राणसंचारः पाषाण इव निश्चलः ।
स्वदेहायतनस्यांतर्विचिंत्य शिवमंबया
॥६०॥हृत्पद्मपीठिकामध्ये ध्यानयज्ञेन पूजयेत् ।
मूले नासाग्रतो नाभौ कंठे वा तालुरंध्रयोः
॥६१॥भ्रूमध्ये द्वारदेशे वा ललाटे मूर्ध्नि वा स्मरेत्
॥६२॥परिकल्प्य यथान्यायं शिवयोः परमासनम् ।
६२ तत्र सावरणं वापि निरावरणमेव वा ।
द्विदले षोडशारे वा द्वादशारे यथाविधि
॥६३॥दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत् ।
भ्रुवोरंतरतः पद्मं द्विदलं तडिदुज्ज्वलम्
॥६४॥भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे ।
विद्युत्समानवर्णे च पर्णे वर्णावसानके
॥६५॥षोडशारस्य पत्राणि स्वराः षोडश तानि वै ।
पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः
॥६६॥ककारादिटकारांता वर्णाः पर्णान्यनुक्रमात् ।
भानुवर्णस्य पद्मस्य ध्येयं तद्१ हृदयान्तरे
॥६७॥गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम् ।
अधो दलस्याम्बुजस्य एतस्य २ च दलानि षट्
॥६८॥विधूमांगारवर्णस्य वर्णा वाद्याश्च लान्तिमाः ।
मूलाधारारविंदस्य हेमाभस्य यथाक्रमम् ।
वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः
॥६९॥एतेष्वथारविंदेषु यत्रैवाभिरतं मनः ।
तत्रैव देवं देवीं च चिंतयेद्धीरया धिया
॥७०॥अंगुष्ठमात्रममलं दीप्यमानं समंततः ।
शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम्
॥७१॥इन्दुरेखासमाकारं तारारूपमथापि वा ।
नीवारशूकस्सदृशं बिससुत्राभमेव वा
॥७२॥कदम्बगोलकाकारं तुषारकणिकोपमम् ।
क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति
॥७३॥तत्तत्तत्त्वाधिपामेव मूर्तिं स्थूलां विचिंतयेत् ।
सदाशिवांता ब्रह्माद्यभवाद्याश्चाष्टमूर्तयः
॥७४॥शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः ।
घोरा मिश्रा प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः
॥७५॥फलाभिलाषरहितैश्चिन्त्याश्चिन्ताविशारदैः ।
घोराश्चेच्चिंतिताः कुर्युः पापरोगपरिक्षयम्
॥७६॥चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि ।
सौम्ये मुक्तिर्विशेषेण शांतिः प्रज्ञा प्रसिध्यति
॥७७॥सिध्यंति सिद्धयश्चात्र क्रमशो नात्र संशयः
॥७८॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे योगगतौ विघ्नोत्पत्तिवर्णनं नामाष्टत्रिंशोऽध्यायः