मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय १६

3
वायवीयसंहिता · उत्तरभागः · 16

शिष्यसंस्कारवर्णनम्

उपमन्युरुवाच

पुण्ये ऽहनि शुचौ देशे बहुदोषविवर्जिते ।

देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम्

॥१॥

परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ।

शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत्

॥२॥

कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् ।

अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात्

॥३॥

प्रधानकुंडं कुर्वीत यद्वा पश्चिमभागतः ।

प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत्

॥४॥

वितानध्वजमालाभिर्विविधाभिरनेकशः ।

वेदिमध्ये ततः कुर्यान्मंडलं शुभलक्षणम्

॥५॥

रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् ।

सिंदूरशालिनीवारचूर्णैरेवाथ निर्धनः

॥६॥

एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा ।

एकहस्तस्य पद्मस्य कर्णिकाष्टांगुला मता

॥७॥

केसराणि तदर्धानि शेषं चाष्टदलादिकम् ।

द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम्

॥८॥

कृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत् ।

एकहस्तं तदर्धं वा पुनर्वेद्यः तु मंडलम्

॥९॥

व्रीहितंदुलसिद्धार्थतिलपुष्पकुशास्तृते ।

तत्र लक्षणसंयुक्तं शिवकुंभं प्रसाधयेत्

॥१०॥

सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा ।

गन्धपुष्पाक्षताकीर्णं कुशदूर्वांकुराचितम्

॥११॥

सितसूत्रावृतं कंठे नववस्त्रयुगावृतम् ।

शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम्

॥१२॥

भृङ्गारं वर्धनीं चापि शंखं च चक्रमेव वा ।

विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा

॥१३॥

तस्यासनारविंदस्य कल्पयेदुत्तरे दले ।

अग्रतश्चंदनांभोभिरस्त्रराजस्य वर्धनीम्

॥१४॥

मण्डलस्य ततः प्राच्यां मंत्रकुंभे च पूर्ववत् ।

कृत्वा विधिवदीशस्य महापूजां समाचरेत्

॥१५॥

अथार्णवस्य तीरे वा नद्यां गोष्ठे ऽपि वा गिरौ ।

देवागरे गृहे वापि देशे ऽन्यस्मिन्मनोहरे

॥१६॥

कृत्वा पूर्वोदितं सर्वं विना वा मंडपादिकम् ।

मंडलं पूर्ववत्कृत्वा स्थंडिलं च विभावसोः

॥१७॥

प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः ।

सर्वमंगलसंयुक्तः समाचरितनैत्यकः

॥१८॥

महापूजां महेशस्य कृत्वा मण्डलमध्यतः ।

शिवकुंभे तथा भूयः शिवमावाह्य पूजयेत्

॥१९॥

पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् ।

अर्चयेदस्त्रवर्धन्यामस्त्रमीशस्य दक्षिणे

॥२०॥

मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः ।

कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत्

॥२१॥

ततश्शिवानले होमं कुर्याद्देशिकसत्तमः ।

प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः

॥२२॥

आचार्यात्पादमर्धं वा होमस्तेषां विधीयते ।

प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः

॥२३॥

स्वाध्यायमपरे कुर्युः स्तोत्रं मंगलवाचनम् ।

जपं च विधिवच्चान्ये शिवभक्तिपरायणाः

॥२४॥

नृत्यं गीतं च वाद्यं च मंगलान्यपराणि च ।

पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः

॥२५॥

पुण्याहं कारयित्वाथ पुनः संपूज्य शंकरम् ।

प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया

॥२६॥

प्रसीद देवदेवेश देहमाविश्य मामकम् ।

विमोचयैनं विश्वेश घृणया च घृणानिधे

॥२७॥

अथ चैवं करोमीति लब्धानुज्ञस्तु देशिकः ।

आनीयोपोषितं शिष्यं हविष्याशिनमेव वा

॥२८॥

एकाशनं वा विरतं स्नातं प्रातःकृतक्रियम् ।

जपंतं प्रणवं देवं ध्यायंतं कृतमंगलम्

॥२९॥

द्वारस्य पश्चिमस्याग्रमण्डले दक्षिणस्य वा ।

दर्भासने समासीनं विधायोदङ्मुखं शिशुम्

॥३०॥

स्वयं प्राग्वदनस्तिष्ठन्नूर्ध्वकायं कृतांजलिम् ।

संप्रोक्ष्य प्रोक्षणौतोयैर्मूर्धन्यस्त्रेण मुद्रया

॥३१॥

पुष्पक्षेपेण संताड्य बध्नीयाल्लोचनं गुरुः ।

दुकूलार्धेन वस्त्रेण मंत्रितेन नवेन च

॥३२॥

ततः प्रवेशयेच्छिष्यं गुरुर्द्वारेण मंडलम् ।

सो ऽपि तेनेरितः शंभोराचरेत्त्रिः प्रदक्षिणम्

॥३३॥

ततस्सुवर्णसंमिश्रं दत्त्वा पुष्पांजलिं प्रभोः ।

प्राङ्मुखश्चोदङ्मुखो वा प्रणमेद्दंडवत्क्षितो

॥३४॥

ततस्संप्रोक्ष्य मूलेन शिरस्यस्त्रेण पूर्ववत् ।

संताड्य देशिकस्तस्य मोचयेन्नेत्रबंधनम्

॥३५॥

स दृष्ट्वा मंडलं भूयः प्रणमेत्साञ्जलिः प्रभुम् ।

अथासीनं शिवाचार्यो मंडलस्य तु दक्षिणे

॥३६॥

उपवेश्यात्मनस्सव्ये शिष्यं दर्भासने गुरुः ।

आराध्य च महादेवं शिवहस्तं प्रविन्यसेत्

॥३७॥

शिवतेजोमयं पाणिं शिवमंत्रमुदीरयेत् ।

शिवाभिमानसंपन्नो न्यसेच्छिष्यस्य मस्तके

॥३८॥

सर्वांगालंबनं चैव कुर्यात्तेनैव देशिकः ।

शिष्यो ऽपि प्रणमेद्भूमौ देशिकाकृतमीश्वरम्

॥३९॥

ततश्शिवानले देवं समभ्यर्च्य यथाविधि ।

हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा

॥४०॥

दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत् ।

नमस्कृत्य महादेवं नाडीसंधानमाचरेत्

॥४१॥

शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम् ।

शिष्यदेहप्रवेशं च स्मृत्वा मंत्रांस्तु तर्पयेत्

॥४२॥

संतर्पणाय मूलस्य तेनैवाहुतयो दश ।

देयास्तिस्रस्तथांगानामंगैरेव यथाक्रमम्

॥४३॥

ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः ।

पुनर्दशाहुतीन्कुर्यान्मूलमंत्रेण मंत्रवित्

॥४४॥

पुनः संपूज्य देवेशं सम्यगाचम्य देशिकः ।

हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत्

॥४५॥

तस्यैवं जनयेत्क्षात्रमुद्धारं च ततः पुनः ।

कृत्वा तथैव विप्रत्वं जनयेदस्य देशिकः

॥४६॥

राजन्यं चैवमुद्धृत्य कृत्वा विप्रं पुनस्तयोः ।

रुद्रत्वं जनयेद्विप्रे रुद्रनामैव साधयेत्

॥४७॥

प्रोक्षणं ताडनं कृत्वा शिशोस्स्वात्मानमात्मनि ।

शिवात्मकमनुस्मृत्य स्फुरंतं विस्फुलिंगवत्

॥४८॥

नाड्या यथोक्तया वायुं रेचयेन्मंत्रतो गुरुः ।

निर्गम्य प्रविशेन्नाड्या शिष्यस्य हृदयं तथा

॥४९॥

प्रविश्य तस्य चैतन्यं नीलबिन्दुनिभं स्मरन् ।

स्वतेजसापास्तमलं ज्वलंतमनुचिंतयेत्

॥५०॥

तमादाय तया नाड्या मंत्री संहारमुद्रया ।

न पूरकेण निवेश्यैनमेकीभावार्थमात्मनः

॥५१॥

कुंभकेन तथा नाड्या रेचकेन यथा पुरा ।

तस्मादादाय शिष्यस्य हृदये तन्निवेशयेत्

॥५२॥

तमालभ्य शिवाल्लब्धं तस्मै दत्त्वोपवीतकम् ।

हुत्वा"हुतित्रयं पश्चाद्दद्यात्पूर्णाहुतिं ततः

॥५३॥

देवस्य दक्षिणे शिष्यमुपवेश्यवरासने ।

कुशपुष्पपरिस्तीर्णे बद्धांजलिरुदङ्मुखम्

॥५४॥

स्वस्तिकासनमारूढं विधाय प्राङ्मुखः स्वयम् ।

वरासनस्थितो मंत्रैर्महामंगलनिःस्वनैः

॥५५॥

समादाय घटं पूर्णं पूर्णमेव प्रसादितम् ।

ध्यायमानः शिवं शिष्यमाभिषिंचेत देशिकः

॥५६॥

अथापनुद्य स्नानांबु परिधाय सितांबरम् ।

आचान्तोलंकृतश्शिष्यः प्रांजलिर्मंडपं व्रजेत्

॥५७॥

उपवेश्य यथापूर्वं तं गुरुर्दर्भविष्टरे ।

संपूज्य मंडलं देवं करन्यासं समाचरेत्

॥५८॥

ततस्तु भस्मना देवं ध्यायन्मनसि देशिकः ।

समालभेत पाणिभ्यां शिशुं शिवमुदीरयेत्

॥५९॥

अथ तस्य शिवाचार्यो दहनप्लावनादिकम् ।

सकलीकरणं कृत्वा मातृकान्यासवर्त्मना

॥६०॥

ततः शिवासनं ध्यात्वा शिष्यमूर्ध्नि देशिकः ।

तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम्

॥६१॥

प्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थितो भव ।

इति विज्ञाप्य तं शंभोस्तेजसा भासुरं स्मरेत्

॥६२॥

संपूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् ।

कर्णे शिष्यस्य शनकैश्शिवमन्त्रमुदीरयेत्

॥६३॥

स तु बद्धांजलिः श्रुत्वा मन्त्रं तद्गतमानसः ।

शनैस्तं व्याहरेच्छिष्यशिवाचार्यस्य शासनात्

॥६४॥

ततः शाक्तं च संदिश्य मन्त्रं मन्त्रविचक्षणः ।

उच्चारयित्वा च सुखं तस्मै मंगलमादिशेत्

॥६५॥

ततस्समासान्मन्त्रार्थं वाच्यवाचकयोगतः ।

समदिश्येश्वरं रूपं योगमासनमादिशेत्

॥६६॥

अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ ।

भक्त्यैवमभिसंधाय दीक्षावाक्यमुदीरयेत्

॥६७॥

वरं प्राणपरित्यागश्छेदनं शिरसो ऽपि वा ।

न त्वनभ्यर्च्य भुंजीय भगवन्तं त्रिलोचनम्

॥६८॥

स एव दद्यान्नियतो यावन्मोहविपर्ययः ।

तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः

॥६९॥

ततः स समयो नाम भविष्यति शिवाश्रमे ।

लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत्

॥७०॥

अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः ।

दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमंत्रितम्

॥७१॥

प्रतिमा वापि देवस्य गूढदेहमथापि वा ।

पूजाहोमजपध्यानसाधनानि च संभवे

॥७२॥

सोपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः ।

आददीताज्ञया तस्य देशिकस्य न चान्यथा

॥७३॥

आचार्यादाप्तमखिलं शिरस्याधाय भक्तितः ।

रक्षयेत्पूजयेच्छंभुं मठे वा गृह एववा

॥७४॥

अतः परं शिवाचारमादिशेदस्य देशिकः ।

भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः

॥७५॥

यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम् ।

शिवाचार्येण समये तत्सर्वं शिरसा वहेत्

॥७६॥

शिवागमस्य ग्रहणं वाचनं श्रवणं तथा ।

देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः

॥७७॥

इति संक्षेपतः प्रोक्तः संस्कारः समयाह्वयः ।

साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम्

॥७८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिष्यसंस्कारवर्णनं नाम षोडशोऽध्यायः