मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय ३९

3
वायवीयसंहिता · उत्तरभागः · 39

श्रीकंठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः

उपमन्युरुवाच

श्रीकंठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः ।

प्रसिध्यंतीति मत्वैके तं वै ध्यायंति योगिनः

॥१॥

स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते ।

स्थूलं तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम्

॥२॥

शिवे तु चिंतिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः ।

मूर्त्यंतरेषु ध्यातेषु शिवरूपं विचिंतयेत्

॥३॥

लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः ।

ध्यानमादौ सविषयं ततो निर्विषयं जगुः

॥४॥

तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् ।

बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते

॥५॥

तेन निर्विषया बुद्धिः केवलेह प्रवर्तते ।

तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम्

॥६॥

सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः ।

यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम्

॥७॥

निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् ।

निर्बीजं च सबीजं च तदेव ध्यानमुच्यते

॥८॥

निराकारश्रयत्वेन साकाराश्रयतस्तथा ।

तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम्

॥९॥

अंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये ।

प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात्

॥१०॥

शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम् ।

शमः सर्वापदां चैव शांतिरित्यभिधीयते

॥११॥

तमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते ।

बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते

॥१२॥

स्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः ।

कारणानि च सर्वाणि सबाह्याभ्यंतराणि च

॥१३॥

बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ।

ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् ।

एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत्

॥१४॥

ज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः ।

श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः

॥१५॥

ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः

॥१६॥

योगाभ्यासस्तथाल्पे ऽपि यथा पापं विनाशयेत् ।

ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम्

॥१७॥

अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते

॥१८॥

बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलंबनम् ।

ध्येयमित्युच्यते सद्भिस्तच्च सांबः स्वयं शिवः

॥१९॥

विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम् ।

शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम्

॥२०॥

यस्मात्सौख्यं च मोक्षं च ध्यानादभयमाप्नुयात् ।

तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः

॥२१॥

नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः ।

ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः

॥२२॥

ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम् ।

योगाभ्यासेन युक्तस्य योगिनस्त्वेव सिध्यति

॥२३॥

प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः ।

पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा

॥२४॥

यथावह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत् ।

तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात्

॥२५॥

अत्यल्पो ऽपि यथा दीपः सुमहन्नाशयेत्तमः ।

योगाभ्यासस्तथाल्पो ऽपि महापापं विनाशयेत्

॥२६॥

ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ।

यद्भवेत्सुमहच्छ्रेयस्तस्यांतो नैव विद्यते

॥२७॥

नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः ।

नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत्

॥२८॥

तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् ।

योगिनो न प्रपद्यंते स्वात्मप्रत्ययकारणात्

॥२९॥

योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ।

यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम्

॥३०॥

यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ।

तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः

॥३१॥

बहिस्करा यथा लोके नातीव फलभोगिनः ।

दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः

॥३२॥

यद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः ।

योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति

॥३३॥

अनुभूय सुखं तत्र स जातो योगिनां कुले ।

ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते

॥३४॥

जिज्ञासुरपि योगस्य यां गतिं लभते नरः ।

न तां गतिमवाप्नोति सर्वैरपि महामखैः

॥३५॥

द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम् ।

भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने

॥३६॥

यज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम् ।

योगिनामन्नदानेन तत्समस्तं फलं लभेत्

॥३७॥

ये चापवादं कुर्वंति विमूढाश्शिवयोगिनाम् ।

श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात्

॥३८॥

सति श्रोतरि वक्तास्यादपवादस्य योगिनाम् ।

तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः ।

ये पुनः सततं भक्त्या भजंति शवयोगिनः

॥३९॥

ते विदंति महाभोगानंते योगं च शांकरम् ।

भोगार्थिभिर्नरैस्तस्मात्संपूज्याः शिवयोगिनः

॥४०॥

प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः ।

योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः

॥४१॥

वज्रतंदुलवज्ज्ञेयं तथा पापेन योगिनः ।

न लिप्यंते च तापौघैः पद्मपत्रं यथांभसा

॥४२॥

यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः ।

सो ऽपि देशो भवेत्पूतः सपूत इति किं पुनः

॥४३॥

तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः ।

सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत्

॥४४॥

सिद्धयोगफलो योगी लोकानां हितकाम्यया ।

भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम्

॥४५॥

अथवा क्षुद्रमित्येव मत्वा वैषयिकं सुखम् ।

त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम्

॥४६॥

यस्त्वासन्नां मृतिं मर्त्यो दृष्टारिष्टं च भूयसा ।

स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत्

॥४७॥

स तत्र निवसन्नेव यदि धीरमना नरः ।

प्राणान्विनापि रोगाद्यैः स्वयमेव परित्यजेत्

॥४८॥

कृत्वाप्यनशनं चैव हुत्वा चांगं शिवानले ।

क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात्

॥४९॥

शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत्

॥५०॥

सद्य एव विमुच्येत नात्र कार्या विचारणा २ ।

७.२,३९.५० रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः ।

म्रियते यदि सोप्येवं मुच्यते नात्र संशयः

॥५१॥

यथा हि मरणं श्रेष्ठमुशंत्यनशनादिभिः ।

शास्त्रविश्रंभधीरेण मनसा क्रियते यतः

॥५२॥

शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा ।

यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते

॥५३॥

शिवनिन्दारतं हंतुमशक्तो यः स्वयं मृतः ।

सद्य एव प्रमुच्येत त्रिः सप्तकुलसंयुतः

॥५४॥

शिवार्थे यस्त्यजेत्प्राणाञ्छिवभक्तार्थमेव वा ।

न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः

॥५५॥

तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमंडलात् ।

एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा

॥५६॥

षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि ।

पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम्

॥५७॥

नैवाशौचं प्रपद्येत तत्पुत्रादिविशेषतः ।

शिवचारार्थमथवा शिवविद्यार्थमेव वा ।

खनेद्वा भुवि तद्देहं दहेद्वा शुचिनाग्निना

॥५८॥

क्षिपेद्वाप्सु शिवास्वेव त्यजेद्वा काष्ठलोष्टवत् ।

अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम्

॥५९॥

कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत् ।

धनं तस्य भजेच्छैवः शैवी चेतस्य सन्ततिः

॥६०॥

नास्ति चेत्तच्छिवे दद्यान्नदद्यात्पशुसन्ततिः ।

७.२,३९. ६०

॥६१॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवयोगवर्णनं नामैकोनचत्वारिंशोऽध्यायः