शिवतत्त्ववर्णनम्
उपमन्युरुवाच
नशिवस्याणवो बंधः कार्यो मायेय एव वा ।
प्राकृतो वाथ बोद्धा वा ह्यहंकारात्मकस्तथा
॥१॥नैवास्य मानसो बंधो न चैत्तो नेंद्रियात्मकः ।
न च तन्मात्रबंधो ऽपि भूतबंधो न कश्चन
॥२॥न च कालः कला चैव न विद्या नियतिस्तथा ।
न रागो न च विद्वेषः शंभोरमिततेजसः
॥३॥न चास्त्यभिनिवेशो ऽस्य कुशला ऽकुशलान्यपि ।
कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले
॥४॥आशयैर्नापि संबन्धः संस्कारैः कर्मणामपि ।
भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः
॥५॥न तस्य कारणं कर्ता नादिरंतस्तथांतरम् ।
न कर्म करणं वापि नाकार्यं कार्यमेव च
॥६॥नास्य बंधुरबंधुर्वा नियंता प्रेरको ऽपि वा ।
न पतिर्न गुरुस्त्राता नाधिको न समस्तथा
॥७॥न जन्ममरणे तस्य न कांक्षितमकांक्षितम् ।
न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम्
॥८॥नास्ति यद्यदकल्याणं तत्तदस्य कदाचन ।
कल्याणं सकलं चास्ति परमात्मा शिवो यतः
॥९॥स शिवस्सर्वमेवेदमधिष्ठाय स्वशक्तिभिः ।
अप्रच्युतस्स्वतो भावः स्थितः स्थाणुरतः स्मृतः
॥१०॥शिवेनाधिष्ठितं यस्माज्जगत्स्थावरजंगमम् ।
सर्वरूपः स्मृतश्शर्वस्तथा ज्ञात्वा न मुह्यति
॥११॥शर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् ।
हिरण्यबाहुर्भगवान्हिरण्यपतिरीश्वरः
॥१२॥अंबिकापतिरीशानः पिनाकी वृषवाहनः ।
एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिंगलः
॥१३॥बालाग्रमात्रो हृन्मध्ये विचिंत्यो दहरांतरे ।
हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च
॥१४॥यो ऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः ।
सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतो ऽव्ययः
॥१५॥स पुंविशेषः परमो भगवानन्तकांतकः ।
चेतनचेतनोन्मुक्तः प्रपञ्चाच्च परात्परः
॥१६॥शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते ।
लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः
॥१७॥प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् ।
उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम्
॥१८॥कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः ।
सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः
॥१९॥शुद्धा स्वाभाविकी तस्य शक्तिस्सर्वातिशायिनी ।
ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मितम्
॥२०॥ऐश्वर्यमप्रतिद्वंद्वं सुखमात्यन्तिकं बलम् ।
तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च
॥२१॥परिपूर्णस्य सर्गाद्यैर्नात्मनो ऽस्ति प्रयोजनम् ।
परानुग्रह एवास्य फलं सर्वस्य कर्मणः
॥२२॥प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ।
शिवरुद्रादिशब्दानां प्रणवो हि परस्स्मृतः
॥२३॥शंभो प्रणववाच्यस्य भवनात्तज्जपादपि ।
या सिद्धिस्सा परा प्राप्या भवत्येव न संशयः
॥२४॥तस्मादेकाक्षरं देवमाहुरागमपारगाः ।
वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः
॥२५॥अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्धनि ।
अकारश्चाप्युकारश्च मकारो नाद इत्यपि
॥२६॥अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते ।
मकारः सामनादोस्य श्रुतिराथर्वणी स्मृताः
॥२७॥अकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः ।
उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः
॥२८॥मकारः पुरुषो बीजं तमः संहारको हरः ।
नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः
॥२९॥सर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा ।
अभिधाय शिवात्मानं बोधयत्यर्धमात्रया
॥३०॥यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायो ऽस्ति किंचित् ।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्
॥३१॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः