पशुपतित्वज्ञानयोगः
उपमन्युरुवाच
विग्रहं देवदेवस्य विश्वमेतच्चराचरम् ।
तदेवं न विजानंति पशवः पाशगौरवात्
॥१॥तमेकमेव बहुधा वदंति यदुनंदन ।
अजानन्तः परं भावमविकल्पं महर्षयः
॥२॥अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा ।
केचिदाहुर्महादेवमनादिनिधनं परम्
॥३॥भूतेंद्रियांतःकरणप्रधानविषयात्मकम् ।
अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम्
॥४॥बृहत्त्वाद्बृहणत्वाद्वा ब्रह्म चेत्यभिधीयते ।
उभे ते ब्रह्मणो रूपे ब्रह्मणो ऽधिपतेः प्रभोः ।
विद्या ऽविद्यास्वरूपीति कैश्चिदीशो निगद्यते
॥५॥विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ।
विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः
॥६॥रूपमेव न संदेहो विश्वं तस्य वशे यतः ।
भ्रांतिर्विद्या परा चेति शार्वं रूपं परं विदुः
॥७॥अयथाबुद्धिरर्थेषु बहुधा भ्रांतिरुच्यते ।
यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते
॥८॥विकल्परहितं तत्त्वं परमित्यभिधीयते ।
वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः
॥९॥तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ।
क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे
॥१०॥क्षरस्सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ।
उभे ते परमेशस्य रूपे तस्य वशे यतः
॥११॥तयोः परः शिवः शांतः क्षराक्षरापरस्स्मृतः ।
समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम्
॥१२॥वदंति मुनयः केचिच्छिवं परमकारणम् ।
समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च
॥१३॥ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् ।
तयोः कारणभावेन शिवं परमकारणम्
॥१४॥कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् ।
जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः
॥१५॥या पिंडेप्यनुवर्तेत सा जातिरिति कथ्यते ।
व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातेः समाश्रयम्
॥१६॥जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः ।
यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः
॥१७॥प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः ।
प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा
॥१८॥त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः ।
कालः कार्यप्रपञ्चस्य परिणामैककारणम्
॥१९॥एषामीशो ऽधिपो धाता प्रवर्तकनिवर्तकः ।
आविर्भावतिरोभावहेतुरेकः स्वराडजः
॥२०॥तस्मात्प्रधानपुरुषव्यक्तकालस्वरूपवान् ।
हेतुर्नेताधिपस्तेषां धाता चोक्ता महेश्वरः
॥२१॥विराड्ढिरण्यगर्भात्मा कैश्चिदीशो निगद्यते ।
हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट्
॥२२॥अंतर्यामी परश्चेति कथ्यते कविभिश्शिवः ।
प्राज्ञस्तैजसविश्वात्मेत्यपरे संप्रचक्षते
॥२३॥तुरीयमपरे प्राहुः सौम्यमेव परे विदुः ।
माता मानं च मेयं च मतिं चाहुरथापरे
॥२४॥कर्ता क्रिया च कार्यं च करणं कारणं परे ।
जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे संप्रचक्षते
॥२५॥तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे ।
तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः
॥२६॥केचित्संसारिणं प्राहुस्तमसंसारिणं परे ।
स्वतंत्रमपरे प्राहुरस्वतंत्रं परे विदुः
॥२७॥घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः ।
रागवंतं परे प्राहुर्वीतरागं तथा परे
॥२८॥निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः ।
निरिंद्रियं परे प्राहुः सेंद्रियं च तथापरे
॥२९॥ध्रुवमित्यपरे प्राहुस्तमध्रुवामितीरते ।
अरूपं केचिदाहुर्वै रूपवंतं परे विदुः
॥३०॥अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः ।
वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे ।
शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे
॥३१॥केचिच्चिन्तामयं प्राहुश्चिन्तया रहितं परे ।
ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे
॥३२॥केचिच्ज्ञेयमिति प्राहुरज्ञेयमिति केचन ।
परमेके तमेवाहुरपरं च तथा परे
॥३३॥एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः ।
नाध्यवस्यंति मुनयो नानाप्रत्ययकारणात्
॥३४॥ये पुनस्सर्वभावेन प्रपन्नाः परमेश्वरम् ।
ते हि जानंत्ययत्नेन शिवं परमकारणम्
॥३५॥यावत्पशुर्नैव पश्यत्यनीशं १ पुराणं भुवनस्येशितारम् ।
तावद्दुःखे वर्तते बद्धपाशः संसारे ऽस्मिञ्चक्रनेमिक्रमेण
॥३६॥यदा २ पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदाविद्वान्पुण्यपापे विधूय निरंजनः परममुपैति साम्यम्
॥३७॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो नाम पञ्चमो ऽध्यायः