मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय २७

3
वायवीयसंहिता · उत्तरभागः · 27

अग्निकार्यवर्णनम्

उपमन्युरुवाच

अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थंडिले ऽपि वा ।

वेद्यां वा ह्यायसे पात्रे मृन्मये वा नवे शुभे

॥१॥

आधायाग्निं विधानेन संस्कृत्य च ततः परम् ।

तत्राराध्य महादेवं होमकर्म समाचरेत्

॥२॥

कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा ।

वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम्

॥३॥

कुण्डं विस्तारवन्निम्नं तन्मध्ये ऽष्टदलाम्बुजम् ।

चतुरंगुलमुत्सेधं तस्य द्व्यंगुलमेव वा

॥४॥

वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते ।

मध्यं च मध्यमांगुल्या मध्यमोत्तमपर्वणोः

॥५॥

अंगुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः ।

मेखलानां त्रयं वापि द्वयमेकमथापि वा

॥६॥

यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् ।

अश्वत्थपत्रवद्योनिं गजाधारवदेव वा

॥७॥

मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणे ऽपि वा ।

शोभनामग्नितः किंचिन्निम्नामुन्मीलिकां शनैः

॥८॥

अग्रेण कुण्डाभिमुखीं किंचिदुत्सृज्य मेखलाम् ।

नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती

॥९॥

मंडलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् ।

कुण्डं च मृन्मयं वेदिमालिपेद्गोमयांबुना

॥१०॥

प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदंभसा ।

स्वसूत्रोक्तप्रकारेण कुण्डादौ विल्लिखेत्ततः

॥११॥

संप्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् ।

अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत्

॥१२॥

प्रक्षाल्यक्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् ।

मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम्

॥१३॥

अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् ।

त्रिः प्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात्

॥१४॥

वह्निबीजं समुच्चार्य त्वादधीताग्निमासने ।

योनिमार्गेण वा तद्वदात्मनः संमुखेन वा

॥१५॥

नियोगः प्रदेश सर्वं कुंडं कुर्याद्विचक्षणः ।

स्वनाभ्यंतःस्थितं वह्निं तद्रंध्राद्विस्फुलिंगवद्

॥१६॥

निर्गम्य पावके बाह्ये लीनं बिंबाकृति स्मरेत् ।

आज्यसंस्कारपर्यंतमन्वाधानपुरस्सरम्

॥१७॥

स्वसूत्रोक्तक्रमात्कुर्यान्मूलमन्त्रेण मन्त्रवित् ।

शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः

॥१८॥

न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिताम् ।

स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ

॥१९॥

यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ ।

पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते

॥२०॥

संसृज्य दर्भैस्तौ वह्नौ संताप्य प्रोक्षयेत्पुनः ।

पारार्षर्च्यस्वसूत्रोक्तक्रमेण शिवपूर्वकैः

॥२१॥

जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये ।

भ्रुंस्तुंब्रुश्रुं क्रमेणैव पुंड्रंद्रमित्यतः परम्

॥२२॥

बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः ।

त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया

॥२३॥

रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता ।

अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा

॥२४॥

स्वबीजानन्तरं वाच्या स्वाहांतञ्च यथाक्रमम् ।

जिह्वामंत्रैस्तु तैर्हुत्वाज्यं जिह्वास्त्वेकैकश क्रमात्

॥२५॥

रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् ।

सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत्

॥२६॥

एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम् ।

तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम् ।

दीपान्तं परिषिच्याथ समिद्धोमं समाचरेत्

॥२७॥

ताः पालाश्यः परा वापि याज्ञिया द्वादशांगुलाः ।

अवक्रा न स्वयं शुष्कास्सत्वचो निर्व्रणाः समाः

॥२८॥

दशांगुला वा विहिताः कनिष्ठांगुलिसंमिताः ।

प्रादेशमात्रा वालाभे होतव्याः सकला अपि

॥२९॥

दूर्वापत्रसमाकारां चतुरंगुलमायताम् ।

दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः

॥३०॥

लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा ।

सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे

॥३१॥

दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा ।

होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम्

॥३२॥

श्रुवेणाज्यं समित्याद्यास्रुचाशेषात्करेण वा ।

तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा

॥३३॥

द्रव्येणैकेन वा ऽलाभे जुहुयाच्छ्रद्धया पुनः ।

प्रायश्चित्ताय जुहुयान्मंत्रयित्वाहुतित्रयम्

॥३४॥

ततो होमविशिष्टेन घृतेनापूर्य वै स्रुचम् ।

निधाय पुष्पं तस्याग्रे श्रुवेणाधोमुखेन ताम्

॥३५॥

सदर्भेन समाच्छाद्य मूलेनांजलिनोत्थितः ।

वौषडंतेन जुहुयाद्धारां तु यवसंमिताम्

॥३६॥

इत्थं पूर्णाहुतिं कृत्वा परिषिंचेच्च पूर्ववत् ।

तत उद्वास्य देवेशं गोपयेत्तु हुताशनम्

॥३७॥

तमप्युद्वास्य वा नाभौ यजेत्संधाय नित्यशः ।

अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना

॥३८॥

वागीशीगर्भसंभूतं संस्कृत्य विधिवद्यजेत् ।

अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च

॥३९॥

पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः ।

संशोध्य प्रोक्षणीपात्रं प्रोक्ष्यतानि तदंभसा

॥४०॥

प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः ।

आज्यसंस्कारपर्यंतं कृत्वा संशोध्य स्रक्स्रुवौ

॥४१॥

गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ।

कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत्

॥४२॥

त्रिपादं सप्तहस्तं च चतुःशृंगं द्विशीर्षकम् ।

मधुपिंगं त्रिनयनं सकपर्देन्दुशेखरम्

॥४३॥

रक्तं रक्ताम्बरालेपं माल्यभूषणभूषितम् ।

सर्वलक्षणसंपन्नं सोपवीतं त्रिमेखलम्

॥४४॥

शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे ।

तोमरं तालवृंतं च घृतपात्रं तथेतरैः

॥४५॥

जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ।

नालापनयनं कृत्वा ततः संशोध्य सूतकम्

॥४६॥

शिवाग्निरुचिनामास्य कृत्वाहुतिपुरस्सरम् ।

पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम्

॥४७॥

अप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु ।

आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः

॥४८॥

रमित्यनेन बीजेन परिषिंचेत्ततः परम् ।

ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च

॥४९॥

तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम् ।

धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित्

॥५०॥

साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च ।

कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा

॥५१॥

संपूज्य देवं देवीं च ततः पूर्णांतमाचरेत् ।

अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम्

॥५२॥

बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः ।

शिवाग्नेर्भस्मसंग्राह्यमग्निहोत्रोद्भवं तु वा

॥५३॥

वैवाहोग्निभवं वापि पक्वं शुचि सुगंधि च ।

कपिलायाः शकृच्छस्तं गृहीतं गगने पतत्

॥५४॥

न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् ।

उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि

॥५५॥

पिंडीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमंत्रतः ।

अपक्वमतिपाक्वं च संत्यज्य भसितं सितम्

॥५६॥

आदाय वा समालोड्य भस्माधारे विनिक्षिपेत् ।

तैजसं दारवं वापि मृन्मयं शैलमेव च

॥५७॥

अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ।

समे देशे शुभे शुद्धे धनवद्भस्म निक्षिपेत्

॥५८॥

न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत् ।

न संस्पृशेच्च नीचांगैर्नोपेक्षेत न लंघयेत्

॥५९॥

तस्माद्भसितमादाय विनियुंजीत मन्त्रतः ।

कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत्

॥६०॥

भस्मसंग्रहणं कुर्याद्देवे ऽनुद्वासिते सति ।

उद्वासने कृते यस्माच्चण्डभस्म प्रजापते

॥६१॥

अग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः ।

स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत्

॥६२॥

अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्डले ।

विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात्

॥६३॥

विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् ।

तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत्

॥६४॥

ततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान् ।

ततस्स्वयं च भुंजीत शुद्धमन्नं यथासुखम्

॥६५॥

निवेदितं च वा देवे तच्छेषं चात्मशुद्धये ।

श्रद्दधानो न लोभेन न चण्डाय समर्पितम्

॥६६॥

गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः ।

न तु तत्र शिवोस्मीति बुद्धिं कुर्याद्विचक्षणः

॥६७॥

भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत् ।

कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः

॥६८॥

रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम् ।

शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम्

॥६९॥

भक्ष्यभोज्यांबरालेपपुष्पमालादिकं तथा ।

मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम्

॥७०॥

ततो देवस्य देव्याश्च पादमूले शुचिस्स्वपेत् ।

गृहस्थो भार्यया सार्धं तदन्ये ऽपि तु केवलाः

॥७१॥

प्रत्यूषसमयं बुद्ध्वा मात्रामाद्यामुदीरयेत् ।

प्रणम्य मनसां देवं सांबं सगणमव्ययम्

॥७२॥

देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः ।

शंखादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत्

॥७३॥

ततस्तत्समयोन्निद्रैः पुष्पैरतिसुगंधिभिः ।

निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम्

॥७४॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं नाम सप्तविंशोऽध्यायः