शास्त्रोक्तशिवपूजनवर्णनम्
उपमन्युरुवाच
प्रोक्षयेन्मूलमंत्रेण पूजास्थानं विशुद्धये ।
गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत्
॥१॥अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा ।
अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम्
॥२॥तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः ।
संशोध्य सर्वपात्राणि द्रव्यशुद्धिं समाचरेत्
॥३॥प्रोक्षणीमर्ध्यपात्रं च पाद्यपात्रमतः परम् ।
तथैवाचमनीयस्य पात्रं चेति चतुष्टयम्
॥४॥प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम् ।
पुण्यद्रव्याणि सर्वाणि यथालाभं विनिक्षिपेत्
॥५॥रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः ।
फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा
॥६॥स्नानोदके सुगन्धादि पानीये च विशेषतः ।
शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत्
॥७॥उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ।
जातिकंकोलकर्पूरबहुमूलतमालकान्
॥८॥क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः ।
एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा
॥९॥कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ।
आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके
॥१०॥कुशपुष्पयवव्रीहिबहुमूलतमालकान् ।
प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम्
॥११॥सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः ।
पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत्
॥१२॥पूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा ।
सम्प्रोक्ष्य मूलमंत्रेण शोधयेद्विधिवत्ततः
॥१३॥पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु ।
साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः
॥१४॥ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् ।
पूजयित्वा विधानेन द्वारपार्श्वे ऽथ दक्षिणे
॥१५॥अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ।
चामीकराचलप्रख्यं सर्वाभरणभूषितम्
॥१६॥बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ।
दीप्तशूलमृगीटंकतिग्मवेत्रधरं प्रभुम्
॥१७॥चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ।
उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम्
॥१८॥सुयशां सुव्रतामम्बां पादमण्डनतत्पराम् ।
पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः
॥१९॥संपूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् ।
प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये
॥२०॥पुष्पहस्तो जपेच्छक्त्या मन्त्रं मन्त्रविशुद्धये ।
ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत्
॥२१॥कल्पयेदासनं पश्चादाधारादि यथाक्रमम् ।
आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि
॥२२॥तस्याः पुरस्तादुत्कंठमनंतं कुण्डलाकृतिम् ।
धवलं पञ्चफणिनं लेलिहानमिवाम्बरम्
॥२३॥तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् ।
धर्मो ज्ञानं च वैराग्यमैश्वर्यञ्च पदानि वै
॥२४॥आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः ।
अधर्मादीनि पूर्वादीन्युत्तरांतान्यनुक्रमात्
॥२५॥राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् ।
अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम्
॥२६॥अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् ।
केसराणि च वामाद्या रुद्रावामादिशक्तिभिः
॥२७॥बीजान्यपि च ता एव शक्तयोंतर्मनोन्मनीः ।
कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम्
॥२८॥कन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले ।
त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम्
॥२९॥सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् ।
आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम्
॥३०॥आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ।
नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक्
॥३१॥पाद्यमाचमनं चार्घ्यं गंधं पुष्पं ततः परम् ।
धूपं दीपं च तांबूलं दत्त्वाथ स्वापयेच्छिवौ
॥३२॥अथवा परिकल्प्यैवमासनं मूर्तिमेव च ।
सकलीकृत्य मूलेन ब्रह्माभिश्चापरैस्तथा
॥३३॥आवाहयेत्ततो देव्या शिवं परमकारणम् ।
शुद्धस्फटिकसंकाशं देवं निश्चलमक्षरम्
॥३४॥कारणं सर्वलोकानां सर्वलोकमयं परम् ।
अंतर्बहिःस्थितं व्याप्य ह्यणोरणु महत्तरम् २
॥३५॥भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ।
ब्रह्मेंद्रविष्णुरुद्राद्यैरपि देवैरगोचरम्
॥३६॥देवसारं च विद्वद्भिरगोचरमिति श्रुतम् ।
आदिमध्यान्तरहितं भेषजं भवरोगिणाम्
॥३७॥शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् ।
पञ्चोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम्
॥३८॥लिंगमूर्तिर्महेशस्य शिवस्य परमात्मनः ।
स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम्
॥३९॥पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः ।
मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः
॥४०॥बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसंभवैः ।
संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः
॥४१॥घर्षयेद्विल्वपत्राद्यैर्लेपगंधापनुत्तये ।
पुनः संस्नाप्य सलिलैश्चक्रवर्त्युपचारतः
॥४२॥सुगंधामलकं दद्याद्धरिद्रां च यथाक्रमम् ।
ततः संशोध्य सलिलैर्लिंगं बेरमथापि वा
॥४३॥स्नापयेद्गंधतोयेन कुशपुष्पोदकेन च ।
हिरण्यरत्नतोयैश्च मंत्रसिद्धैर्यथाक्रमम्
॥४४॥असंभवे तु द्रव्याणां यथासंभवसंभृतैः ।
केवलैर्मंत्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम्
॥४५॥कलशेनाथ शंखेन वर्धन्या पाणिना तथा ।
सकुशेन सपुष्पेण स्नापयेन्मंत्रपूर्वकम्
॥४६॥पवमानेन रुद्रेण नीलेन त्वरितेन च ।
लिंगसूक्तादिसूक्तैश्च शिरसाथर्वणेन च
॥४७॥ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पञ्चभिः ।
स्नापयेद्देवदेवेशं शिवेन प्रणवेन च
॥४८॥यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा ।
न तु कश्चिद्विशेषो ऽस्ति तत्र तौ सदृशौ यतः
॥४९॥प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः ।
देव्यैः प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात्
॥५०॥अर्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते ।
तत्र तत्रोपचाराणां लिंगे वान्यत्र वा क्वचित्
॥५१॥कृत्वा ऽभिषेकं लिंगस्य शुचिना च सुगंधिना ।
संमृज्य वाससा दद्यादंबरं चोपवीतकम्
॥५२॥पाद्यमाचमनं चार्घ्यं गंधं पुष्पं च भूषणम् ।
धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम्
॥५३॥पुनश्चाचमनीयं च मुखवासं ततः परम् ।
मुकुटं च शुभं भद्रं सर्वरत्नैरलंकृतम्
॥५४॥भूषणानि पवित्राणि माल्यानि विविधानि च ।
व्यजने चामरे छत्रं तालवृंतं च दर्पणम्
॥५५॥दत्त्वा नीराजनं कुर्यात्सर्वमंगलनिस्वनैः ।
गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः
॥५६॥हैमे च राजते ताम्रे पात्रे वा मृन्मये शुभे ।
पद्मकैश्शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः
॥५७॥त्रिशूलशंखयुग्माब्जनन्द्यावर्तैः करीषजैः ।
श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः
॥५८॥अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे ।
तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः
॥५९॥कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः ।
धेनुमुद्रां च संदर्श्य पाणिभ्यां पात्रमुद्धरेत्
॥६०॥अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् ।
विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा
॥६१॥ततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात् ।
त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया
॥६२॥दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम् ।
कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत्
॥६३॥पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः ।
पञ्चसौगंधिकोपेतं ताम्बूलं च निवेदयेत्
॥६४॥प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् ।
लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम्
॥६५॥प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम् ।
विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम्
॥६६॥अर्घ्यं पुष्पांजलिं दत्त्वा बद्ध्वा मुद्रां यथाविधि ।
पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिंतयेत्
॥६७॥पाद्यादिमुखवासांतमर्घ्याद्यं चातिसंकटे ।
पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरस्सरम्
॥६८॥तावतैव परो धर्मो भावने सुकृतो भवेत् ।
असंपूज्य न भुञ्जीत शिवमाप्राणसंचरात्
॥६९॥यदि पापस्तु भुंजीत स्वैरं तय्स न निष्कृतिः ।
प्रमादेन तु भुंक्ते चेत्तदुद्गीर्य प्रयत्नतः
॥७०॥स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च ।
शिवस्यायुतमभ्यस्येद्ब्रह्मचर्यपुरस्सरम्
॥७१॥परेद्युश्शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च ।
शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत्
॥७२॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शास्त्रोक्तशिवपूजनवर्णनं नाम चतुर्विंशोऽध्यायः