मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय ३३

3
वायवीयसंहिता · उत्तरभागः · 33

आमुष्मिककर्मविधिवर्णनम्

उपमन्युरुवाच

अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् ।

नैतेन सदृशं किंचित्कर्मास्ति भुवनत्रये

॥१॥

पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ।

ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः

॥२॥

इंद्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः ।

विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः

॥३॥

श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः ।

नंदीश्वरमहाकालभृंगीशाद्यैर्गणेश्वरैः

॥४॥

पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः ।

सिद्धैर्यक्षैश्च गंधर्वै रक्षोभूतपिशाचकैः

॥५॥

स्वंस्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः ।

अनेन विधिना सर्वे देवा देवत्वमागताः

॥६॥

ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ।

रुद्रो रुद्रत्वमापन्न इंद्रश्चेन्द्रत्वमागतः

॥७॥

गणेशश्च गणेशत्वमनेन विधिना गतः ।

सितचंदनतोयेन लिंगं स्नाप्य शिवं शिवाम् ।

श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च

॥८॥

तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् ।

विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः

॥९॥

मध्ये केसरजालास्य स्थाप्य लिंगं कनीयसम् ।

अंगुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम्

॥१०॥

दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् ।

अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम्

॥११॥

उत्तरे चंदनं दद्याद्धरितालं तु पूर्वतः ।

सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत्

॥१२॥

धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् ।

वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत्

॥१३॥

पायसं घृतसंमिश्रं घृतदीपांश्च दापयेत् ।

सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम्

॥१४॥

प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् ।

सर्वोपहारसंमिश्रं ततो लिंगं निवेदयेत्

॥१५॥

शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ।

एवं यो ऽर्चयते नित्यं पञ्चगन्धमयं शुभम्

॥१६॥

सर्वपापविनिर्मुक्तः शिवलोके महीयते ।

एतद्व्रतोत्तमं गुह्यं शिवलिंगमहाव्रतम्

॥१७॥

भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ।

देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा

॥१८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः