योगावतारवर्णनम्
कृष्ण उवाच
युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु ।
अवतारान्हि शर्वस्य शिष्यांश्च भगवन्वद
॥१॥उपमन्युरुवाच
श्वेतः सुतारो मदनः सुहोत्रः कङ्क एव च ।
लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च
॥२॥दधिवाहश्च ऋषभो मुनिरुग्रो ऽत्रिरेव च ।
सुपालको गौतमश्च तथा वेदशिरा मुनिः
॥३॥गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः ।
जटामाली चाट्टहासो दारुको लांगुली तथा
॥४॥महाकालश्च शूली च डंडी मुण्डीश एव च ।
सविष्णुस्सोमशर्मा च लकुलीश्वर एव च
॥५॥एते वाराह कल्पे ऽस्मिन्सप्तमस्यांतरो मनोः ।
अष्टाविंशतिसंख्याता योगाचार्या युगक्रमात्
॥६॥शिष्याः प्रत्येकमेतेषां चत्वारश्शांतचेतसः ।
श्वेतादयश्च रुष्यांतांस्तान्ब्रवीमि यथाक्रमम्
॥७॥श्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ।
दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा
॥८॥विकोशश्च विकेशश्च विपाशः पाशनाशनः ।
सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः
॥९॥सनत्कुमारस्सनकः सनंदश्च सनातनः ।
सुधामा विरजाश्चैव शंखश्चांडज एव च
॥१०॥सारस्वतश्च मेघश्च मेघवाहस्सुवाहकः ।
कपिलश्चासुरिः पञ्चशिखो बाष्कल एव च
॥११॥पराशराश्च गर्गश्च भार्गवश्चांगिरास्तथा ।
बलबन्धुर्निरामित्राः केतुशृंगस्तपोधनः
॥१२॥लंबोदरश्च लंबश्च लम्बात्मा लंबकेशकः ।
सर्वज्ञस्समबुद्धिश्च साध्यसिद्धिस्तथैव च
॥१३॥सुधामा कश्यपश्चैव वसिष्ठो विरजास्तथा ।
अत्रिरुग्रो गुरुश्रेष्ठः श्रवनोथ श्रविष्टकः
॥१४॥कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ।
काश्यपो ह्युशनाश्चैव च्यवनश्च बृहस्पतिः
॥१५॥उतथ्यो वामदेवश्च महाकालो महा ऽनिलः ।
वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः
॥१६॥हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ।
सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः
॥१७॥प्लक्षो दार्भायणिश्चैव केतुमान्गौतमस्तथा ।
भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च
॥१८॥उशिजो बृहदश्वश्च देवलः कविरेव च ।
शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः
॥१९॥अक्षपादः कणादश्च उलूको वत्स एव च ।
कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च
॥२०॥एते शिष्या महेशस्य योगाचार्यस्वरूपिणः ।
संख्या च शतमेतेषां सह द्वादशसंख्यया
॥२१॥सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ।
सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदांगपारगाः
॥२२॥शिवाश्रमरतास्सर्वे शिवज्ञानपरायणाः ।
सर्वे संगविनिर्मुक्ताः शिवैकासक्तचेतसः
॥२३॥सर्वद्वंद्वसहा धीराः सर्वभूतहिते रताः ।
ऋजवो मृदवः स्वस्था जितक्रोधा जितेंद्रियाः
॥२४॥रुद्राक्षमालाभरणास्त्रिपुंड्रांकितमस्तकाः ।
शिखाजटास्सर्वजटा अजटा मुंडशीर्षकाः
॥२५॥फलमूलाशनप्रायाः प्राणायामपरायणाः ।
शिवाभिमानसंपन्नाः शिवध्यानैकतत्पराः
॥२६॥समुन्मथितसंसारविषवृक्षांकुरोद्गमाः ।
प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति
॥२७॥सदेशिकानिमान्मत्वा नित्यं यश्शिवमर्चयेत् ।
स याति शिवसायुज्यं नात्र कार्या विचारणा
॥२८॥इति श्रीशिवमहापु सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवस्य योगावतारवर्णनं नाम नवमो ऽध्यायः