शिवभक्तिवर्णनम्
कृष्ण उवाच
भगवन्सर्वयोगींद्र गणेश्वर मुनीश्वर ।
षडाननसमप्रख्य सर्वज्ञाननिधे गुरो
॥१॥प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् ।
महर्षिवपुरास्थाय स्थितो ऽसि परमेश्वर
॥२॥अन्यथा हि जगत्यस्मिन् देवो वा दानवो ऽपि वा ।
त्वत्तोन्यः परमं भावं को जानीयाच्छिवात्मकम्
॥३॥तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः ।
शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः
॥४॥साक्षात्सर्वजगत्कर्तुर्भर्तुरंकं समाश्रिता ।
भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी
॥५॥उपमन्युरुवाच
स्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम् ।
भवभक्तस्य युक्तस्य तव कल्याणचेतसः
॥६॥महीधरवरे दिव्ये मंदरे चारुकंदरे ।
देव्या सह महादेवो दिव्यो ध्यानगतो ऽभवत्
॥७॥तदा देव्याः प्रियसखी सुस्मितास्या शुभावती ।
फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत्
॥८॥ततः स्वमंकमारोप्य देवीं देववरोरहः ।
अलंकृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम्
॥९॥अथांतःपुरचारिण्यो देव्यो दिव्यविभूषणाः ।
अंतरंगा गणेन्द्राश्च सर्वलोकमहेश्वरीम्
॥१०॥भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम् ।
चामरासक्तहस्ताश्च देवीं देवं सिषेविरे
॥११॥ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः ।
त्राणाय च नृणां लोके ये शिवं शरणं गताः
॥१२॥तदावसरमालोक्य सर्वलोकमहेश्वरी ।
भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम्
॥१३॥देव्युवाच केन वश्यो महादेवो मर्त्यानां मंदचेतसाम् ।
आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम्
॥१४॥ईश्वर उवाच
न कर्मणा न तपसा न जपैर्नासनादिभिः ।
न ज्ञानेन न चान्येन वश्यो ऽहं श्रद्धया विना
॥१५॥श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना ।
वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्संभाष्य एव च
॥१६॥साध्या तस्मान्मयि शद्धा मां वशीकर्तुमिच्छता ।
श्रद्धा हेतुस्स्वधर्मस्य रक्षणं वर्णिनामिह
॥१७॥स्ववर्णाश्रमधर्मेण वर्तते यस्तु मानवः ।
तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित्
॥१८॥आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ।
ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरस्सरम्
॥१९॥स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः ।
नात्यन्त फलभूयिष्ठः क्लेशाया ससमन्वितः ।
तेन धर्मेण महतां श्रद्धां प्राप्य सुदुर्ल्लभाम्
॥२०॥वर्णिनो ये प्रपद्यंते मामनन्यसमाश्रयाः ।
तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः
॥२१॥वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः ।
तस्मिन्भक्तिमतामेव मदीयानां तु वर्णिनाम्
॥२२॥अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम
॥२३॥तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ।
मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः
॥२४॥परं मदीयमासाद्य पुनरावृत्तिदुर्लभम् ।
परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः
॥२४॥तस्माल्लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् ।
आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत्
॥२५॥अलब्धलाभ एवैष कोटिकोटिगुणाधिकः ।
तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत्
॥२६॥ममावतारा हि शुभे योगाचार्यच्छलेन तु ।
सर्वांतरेषु सन्त्यार्ये संततिश्च सहस्रशः
॥२७॥अयुक्तानामबुद्धीनामभक्तानां सुरेश्वरि ।
दुर्लभं संततिज्ञानं ततो यत्नात्समाश्रयेत्
॥२८॥सा हानिस्तन्महच्छिद्रं स मोहस्सांधमूकता ।
यदन्यत्र श्रमं कुर्यान्मोक्षमार्गबहिष्कृतः
॥२९॥ज्ञानं क्रिया च चर्या च योगश्चेति सुरेश्वरि ।
चतुष्पादः समाख्यातो मम धर्मस्सनातनः
॥३०॥पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ।
षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते
॥३१॥वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च ।
ममार्चनादिधर्मस्य चर्या चर्येति कथ्यते
॥३२॥मदुक्तेनैव मार्गेण मय्यवस्थितचेतसः ।
वृत्त्यंतरनिरोधो यो योग इत्यभिधीयते
॥३३॥अश्वमेधगणाच्छ्रेष्ठं देवि चित्तप्रसाधनम् ।
मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम्
॥३४॥विजितेंद्रियवर्गस्य यमेन नियमेन च ।
पूर्वपापहरो योगो विरक्तस्यैव कथ्यते
॥३५॥वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते
॥३६॥योगज्ञः पतितो वापि मुच्यते नात्र संशयः ।
दया कार्याथ सततमहिंसा ज्ञानसंग्रहः
॥३७॥सत्यमस्तेयमास्तिक्यं श्रद्धा चेंद्रियनिग्रहः
॥३८॥अध्यापनं चाध्ययनं यजनं याजनं तथा ।
ध्यानमीश्वरभावश्च सततं ज्ञानशीलता ।
य एवं वर्तते विप्रो ज्ञानयोगस्य सिद्धये
॥३९॥अचिरादेव विज्ञानं लब्ध्वा योगं च विंदति ।
दग्ध्वा देहमिमं ज्ञानी क्षणाज्ज्ञानाग्निना प्रिये
॥४०॥प्रसादान्मम योगज्ञः कर्मबंधं प्रहास्यति ।
पुण्यःपुण्यात्मकं कर्ममुक्तेस्तत्प्रतिबंधकम् ।
तस्मान्नियोगतो योगी पुण्यापुण्यं विवर्जयेत्
॥४१॥फलकामनया कर्मकरणात्प्रतिबध्यते ।
न कर्ममात्रकरणात्तस्मात्कर्मफलं त्यजेत्
॥४२॥प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये ।
ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत्
॥४३॥विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः ।
न यजंति हि मां युक्ताः समलोष्टाश्मकांचनाः
॥४४॥नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः ।
ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात्
॥४५॥अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ।
ज्ञानचर्याक्रियास्वेव ते ऽधिकुर्युस्तदर्हकाः
॥४६॥द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यंतरं तथा ।
वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः
॥४७॥तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः ।
पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः
॥४८॥अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् ।
तदेव तु स्वसंवेद्यमाभ्यंतरमुदाहृतम्
॥४९॥मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते ।
मन्नामनिरता वाणी वाङ्मता खलु नेतरा
॥५०॥लिंगैर्मच्छासनादिष्टैस्त्रिपुंड्रादिभिरंकितः ।
ममोपचारनिरतः कायः कायो न चेतरः
॥५१॥मदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते ।
मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम्
॥५२॥जपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च ।
रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम्
॥५३॥ध्यानम्मद्रूपचिंताद्यं नात्माद्यर्थसमाधयः ।
ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम्
॥५४॥बाह्ये वाभ्यंतरे वाथ यत्र स्यान्मनसो रतिः ।
प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत्
॥५५॥बाह्यादाभ्यंतरं श्रेष्ठं भवेच्छतगुणाधिकम् ।
असंकरत्वाद्दोषाणां दृष्टानामप्यसम्भवात्
॥५६॥शौचमाभ्यंतरं विद्यान्न बाह्यं शौचमुच्यते ।
अंतः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः
॥५७॥बाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् ।
न भावरहितं देवि विप्रलंभैककारणम्
॥५८॥कृतकृत्यस्य पूतस्य मम किं क्रियते नरैः ।
बहिर्वाभ्यंतरं वाथ मया भावो हि गृह्यते
॥५९॥भावैकात्मा क्रिया देवि मम धर्मस्सनातनः ।
मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित्
॥६०॥फलोद्देशेन देवेशि लघुर्मम समाश्रयः ।
फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः
॥६१॥फलार्थिनो ऽपि यस्यैव मयि चित्तं प्रतिष्ठितम् ।
भावानुरूपफलदस्तस्याप्यहमनिन्दिते
॥६२॥फलानपेक्षया येषां मनो मत्प्रवणं भवेत् ।
प्रार्थयेयुः फलं पश्चाद्भक्तास्ते ऽपि मम प्रियाः
॥६३॥प्राक्संस्कारवशादेव ये विचिंत्य फलाफले ।
विवशा मां प्रपद्यंते मम प्रियतमा मताः
॥६४॥मल्लाभान्न परो लाभस्तेषामस्ति यथातथम् ।
ममापि लाभस्तल्लाभान्नापरः परमेश्वरि
॥६५॥मदनुग्रहतस्तेषां भावो मयि समर्पितः ।
फलं परमनिर्वाणं प्रयच्छति बलादिव
॥६६॥महात्मनामनन्यानां मयि संन्यस्तचेतसाम् ।
अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम्
॥६७॥मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ।
स्वयमभ्यर्चनं चैव मदर्थे चांगचेष्टितम्
॥६८॥मत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रियाः ।
ममानुस्मरणं नित्यं यश्च मामुपजीवति
॥६९॥एवमष्टविधं चिह्नं यस्मिन्म्लेच्छे ऽपि वर्तते ।
स विप्रेन्द्रो मुनिः श्रीमान्स यतिस्स च पंडितः
॥७०॥न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचो ऽपि यः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम्
॥७१॥पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति
॥७२॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवभक्तिवर्णनं नाम दशमो ऽध्यायः