भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया
श्रीकृष्ण उवाच
भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ।
स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा
॥१॥इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ।
काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम्
॥२॥उपमन्युरुवाच
अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ।
ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः
॥३॥किंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम्
॥४॥जपध्यानमयं किंचित्किंचित्सर्वमयं तथा ।
क्रियामयं तथा भिन्नं होमदानार्चनक्रमात्
॥५॥सर्वशक्तिमतामेव नान्येषां सफलं भवेत् ।
शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः
॥६॥तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः ।
अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम्
॥७॥शैवैर्माहेश्वरैश्चैव कार्यमंतर्बहिः क्रमात् ।
शिवो महेश्वरश्चेति नात्यंतमिह भिद्यते
॥८॥यथा तथा न भिद्यंते शैवा माहेश्वरा अपि ।
शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः
॥९॥माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि ।
तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः
॥१०॥न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः ।
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः
॥११॥मनोभिलषिते तत्र वितानविततांबरे ।
सुप्रलिप्ते महीपृष्ठे दर्पणोदरसंनिभे
॥१२॥प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना ।
एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत्
॥१३॥आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् ।
रत्नहेमादिभिश्चूर्णैर्यथासंभवसंभृतैः
॥१४॥पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् ।
दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः
॥१५॥रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् ।
कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः
॥१६॥स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ।
कर्णिकोपरि चाग्नेयं मंडलं सौरमैन्दवम्
॥१७॥शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् ।
सर्वासनोपरि सुखं विचित्रकुसुमान्वितम्
॥१८॥पञ्चावरणसंयुक्तं पूजयेदंबया सह ।
शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्
॥१९॥विद्युद्वलयसंकाशजटामुकुटभूषितम् ।
शार्दूलचर्मवसनं किञ्चित्स्मितमुखांबुजम्
॥२०॥रक्तपद्मदलप्रख्यपादपाणितलाधरम् ।
सर्वलक्षणसंपन्नं सर्वाभरणभूषितम्
॥२१॥दिव्यायुधवरैर्युक्तं दिव्यगंधानुलेपनम् ।
पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम्
॥२२॥अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ।
त्रिलोचनारविंदाढ्यं कृतबालेंदुशेखरम्
॥२३॥दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ।
भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम्
॥२४॥दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम् ।
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम्
॥२५॥सविलासं त्रिनयनं चन्द्राभरणशेखरम् ।
पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम्
॥२६॥चन्द्ररेखाधरं सौम्यं मंदस्मितमनोहरम् ।
पञ्चमं स्फटिकप्रख्यमिंदुरेखासमुज्ज्वलम्
॥२७॥अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ।
दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम्
॥२८॥सव्ये च नागनाराचघण्टापाशांकुशोज्ज्वलम् ।
निवृत्त्याजानुसंबद्धमानाभेश्च प्रतिष्ठया
॥२९॥आकंठं विद्यया तद्वदाललाटं तु शांतया ।
तदूर्ध्वं शांत्यतीताख्यकलया परया तथा
॥३०॥पञ्चाध्वव्यापिनं साक्षात्कलापञ्चकविग्रहम् ।
ईशानमुकुटं देवं पुरुषाख्यं पुरातनम्
॥३१॥अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ।
सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम्
॥३२॥मातृकामयमीशानं पञ्चब्रह्ममयं तथा ।
ओंकाराख्यमयं चैव हंसशक्त्या समन्वितम्
॥३३॥तथेच्छात्मिकया शक्त्या समारूढांकमंडलम् ।
ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया
॥३४॥तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् ।
मूर्तिमूलेन संकल्प्य सकलीकृत्य च क्रमात्
॥३५॥संपूज्य च यथान्यायमर्घान्तं मूलविद्यया ।
मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह
॥३६॥तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् ।
पञ्चोपकरणं कृत्वा पूजयेत्परमेश्वरम्
॥३७॥ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह ।
प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात्
॥३८॥शांतेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः ।
पूजयेत्परमं देवं केवलेन शिवेन वा
॥३९॥पाद्यादिमुखवासांतं कृत्वा प्रस्थापनं विना ।
पञ्चावरणपूजां तु ह्यारभेत यथाक्रमम्
॥४०॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः