मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय ४०

3
वायवीयसंहिता · उत्तरभागः · 40

नैमिषर्षियात्रावर्णनम्

श्रीसूत उवाच

इति स विजितमन्योर्यादवेनोपमन्योरधिगतमभिधाय ज्ञानयोगं मुनिभ्यः ।

प्रणतिमुपगतेभ्यस्तेभ्य उद्भावितात्मा सपदि वियति वायुः सायमन्तर्हितो ऽभूत्

॥१॥

ततः प्रभातसमये नैमिषीयास्तपोधनाः ।

सत्रान्ते ऽवभृथं कर्तुं सर्व एव समुद्ययुः

॥२॥

तदा ब्रह्मसमादेशाद्देवी साक्षात्सरस्वती ।

प्रसन्ना स्वादुसलिला प्रावर्तत नदीशुभा

॥३॥

सरस्वतीं नदीं दृष्ट्वा मुनयो हृष्टमानसाः ।

समाप्य सत्रं प्रारब्धं चक्रुस्तत्रावगाहनम्

॥४॥

अथ संतर्प्य देवादींस्तदीयैः सलिलैः शिवैः ।

स्मरन्तः पूर्ववृत्तान्तं ययुर्वाराणसीं प्रति

॥५॥

तदा ते हिमवत्पादात्पंततीं दक्षिणामुखीम् ।

दृष्ट्वा भागीरथी तत्र स्नात्वा तत्तीरतो ययुः

॥६॥

ततो वाराणसीं प्राप्य मुदितास्सर्व एव ते ।

तदोत्तरप्रवाहायां गंगायामवगाह्य च

॥७॥

अविमुक्तेश्वरं लिंगं दृष्ट्वाभ्यर्च्य विधानतः ।

प्रयातुमुद्यतास्तत्र ददृशुर्दिवि भास्वरम्

॥८॥

सूर्यकोटिप्रतीकाशं तेजोदिव्यं महाद्भुतम् ।

आत्मप्रभावितानेन व्याप्तसर्वदिगन्तरम्

॥९॥

अथ पाशुपताः सिद्धाः भस्मसञ्छन्नविग्रहाः ।

मुनयो ऽभ्येत्य शतशो लीनाः स्युस्तत्र तेजसि

॥१०॥

तथा विलीयमानेषु तपस्विषु महात्मसु ।

सद्यस्तिरोदधे तेजस्तदद्भुतमिवाभवत्

॥११॥

तद्दृष्ट्वा महदाश्चर्यं नैमिषीया महर्षयः ।

किमेतदित्यजानन्तो ययुर्ब्रह्मवनं प्रति

॥१२॥

प्रागेवैषां तु गमनात्पवनो लोकपावनः ।

दर्शनं नैमिषीयाणां संवादस्तैर्महात्मनः

॥१३॥

शद्धां बुद्धिं ततस्तेषां सांबे सानुचरे शिवे ।

समाप्तिं चापि सत्रस्य दीर्घपूर्वस्य सत्रिणाम्

॥१४॥

विज्ञाप्य जगतां धात्रे ब्रह्मणे ब्रह्मयोनये ।

स्वकार्ये तदनुज्ञातो जगाम स्वपुरं प्रति

॥१५॥

अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च ।

परस्पर स्पर्धितयोर्गाने विवदमानयोः

॥१६॥

तदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् ।

गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः

॥१७॥

तदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः ।

मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन्

॥१८॥

अथ तुम्बुरुणा गाने समतां प्राप्य नारदः ।

साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना

॥१९॥

त्यक्त्वा परस्परस्पर्धां मैत्रीं च परमां गतः ।

सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः

॥२०॥

उपवीणयितुं देवं नकुलीश्वरमीश्वरम् ।

भवनान्निर्ययौ धातुर्जलदादंशुमानिव

॥२१॥

तं दृष्ट्वा षट्कुलीयास्ते नारदं मुनिगोवृषम् ।

प्रणम्यावसरं शंभोः पप्रच्छुः परमादरात्

॥२२॥

स चावसर एवायमितोंतर्गम्यतामिति ।

वदन्ययावन्यपरस्त्वरया परया युतः

॥२३॥

ततो द्वारि स्थिता ये वै ब्रह्मणे तान्न्यवेदयन् ।

तेन ते विविशुर्वेश्म पिंडीभूयांडजन्मनः

॥२४॥

प्रविश्य दूरतो देवं प्रणम्य भुवि दंडवत् ।

समीपे तदनुज्ञाताः परिवृत्योपतस्थिरे

॥२५॥

तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः ।

वृत्तांतं वो मया ज्ञातं वायुरेवाह नो यतः

॥२६॥

भवद्भिः किं कृतं पश्चान्मारुतेंतर्हिते सति ।

इत्युक्तवति देवेशे मुनयो ऽवभृथात्परम्

॥२७॥

गंगातीर्थेस्य गमनं यात्रां वाराणसीं प्रति ।

दर्शनं तत्र लिंगानां स्थापितानां सुरेश्वरैः

॥२८॥

अविमुक्तेश्वरस्यापि लिंगस्याभ्यर्चनं सकृत् ।

आकाशे महतस्तस्य तेजोराशेश्च दर्शनम्

॥२९॥

मुनीनां विलयं तत्र निरोधं तेजसस्ततः ।

याथात्म्यवेदनं तस्य चिंतितस्यापि चात्मभिः

॥३०॥

सर्वं सविस्तरं तस्मै प्रणम्याहुर्मुहुर्मुहुः ।

मुनिभिः कथितं श्रुत्वा विश्वकर्मा चतुर्मुखः

॥३१॥

कंपयित्वा शिरः किंचित्प्राह गंभीरया गिरा ।

प्रत्यासीदति युष्माकं सिद्धिरामुष्मिकी परा

॥३२॥

भवद्भिर्दीर्घसत्रेण चिरमाराधितः प्रभुः ।

प्रसादाभिमुखो भूत इति भुतार्थसूचितम्

॥३३॥

वाराणस्यां तु युष्माभिर्यद्दृष्टं दिवि दीप्तिमत् ।

तल्लिंगसंज्ञितं साक्षात्तेजो माहेश्वरं परम्

॥३४॥

तत्र लीनाश्च मुनयः श्रौतपाशुपतव्रताः ।

मुक्ता बभूवुः स्वस्थाश्च नैष्ठिका दग्धकिल्बिषाः

॥३५॥

प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि ।

स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा

॥३६॥

तत्र वः काल एवैष दैवादुपनतः स्वयम् ।

प्रयात दक्षिणं मेरोः शिखरं देवसेवितम्

॥३७॥

सनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः ।

प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नंदिनः

॥३८॥

पुरा सनत्कुमारोपि दृष्ट्वापि परमेश्वरम् ।

अज्ञानात्सर्वयोगीन्द्रमानी विनयदूषितः

॥३९॥

अभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः ।

ततो ऽपराधात्क्रुद्धेन महोष्ट्रो नंदिना कृतः

॥४०॥

अथ कालेन महता तदर्थे शोचता मया ।

उपास्य देवं देवीञ्च नंदिनं चानुनीय वै

॥४१॥

कथंचिदुष्ट्रता तस्य प्रयत्नेन निवारिता ।

प्रापितो हि यथापूर्वं सनत्पूर्वां कुमारताम्

॥४२॥

तदाह च महादेवः स्मयन्निव गणाधिपम् ।

अवज्ञाय हि मामेव तथाहंकृतवान्मुनिः

॥४३॥

अतस्त्वमेव याथात्म्यं ममास्मै कथयानघ ।

ब्रह्मणः पूर्वजः पुत्रो मां मूढ इव संस्मरन्

॥४४॥

मयैव शिष्यते दत्तो मम ज्ञानप्रवर्तकः ।

धर्माध्यक्षाभिषेकं च तव निर्वर्तयिष्यति

॥४५॥

स एवं व्याहृतो भूयस्सर्वभूतगणाग्रणीः ।

यत्पराज्ञापनं मूर्ध्ना प्रातः प्रतिगृहीतवान्

॥४६॥

तथा सनत्कुमारो ऽपि मेरौ मदनुशासनात् ।

प्रसादार्थं गणस्यास्य तपश्चरति दुश्चरम्

॥४७॥

द्रष्टव्यश्चेति युष्माभिः प्राग्गणेशसमागमात् ।

तत्प्रसादार्थमचिरान्नंदी तत्रागमिष्यति

॥४८॥

इति सत्वरमादिश्य प्रेषिता विश्वयोगिना ।

कुमारशिखरं मेरोर्दक्षिणं मुनयो ययुः

॥४९॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नैमिषर्षियात्रावर्णनं नाम चत्वारिंशोऽध्यायः