मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय ३०

3
वायवीयसंहिता · उत्तरभागः · 30

काम्यकवर्णनम्

तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् ।

गंधाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ

॥१॥

ततो ब्रह्माणि परित ईशानादि यथाक्रमम् ।

सशक्तिकानि सद्यांतं प्रथमावरणे यजेत्

॥२॥

षडंगान्यपि तत्रैव हृदयादीन्यनुक्रमात् ।

शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत्

॥३॥

तत्र वामादिकान्रुद्रानष्टौ वामादिशक्तिभिः ।

अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात्

॥४॥

प्रथमावरणं प्रोक्तं मया ते यदुनंदन ।

द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु

॥५॥

अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः ।

सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत्

॥६॥

ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् ।

तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत्

॥७॥

एकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् ।

त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले

॥८॥

श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ।

तथैव मारुते पत्रे शिखंडीशं समर्चयेत्

॥९॥

द्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्तिनः ।

तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः

॥१०॥

अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् ।

भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः

॥११॥

उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् ।

अनंतरं ततश्चैव महादेवादयः क्रमात् ।

शक्तिभिस्सह संपूज्यास्तत्रैकादशमूर्तयः

॥१२॥

महादेवः शिवो रुद्रः शंकरो नीललोहितः ।

ईशानो विजयो भीमो देवदेवो भवोद्भवः

॥१३॥

कपर्दीशश्च कथ्यंते तथैकादशशक्तयः ।

तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम्

॥१४॥

देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे ।

भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम्

॥१५॥

तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् ।

नंदिनं दक्षिणे तस्य महाकालं तथोत्तरे

॥१६॥

शास्तारं वह्निदिक्पत्रे मात्ःर्दक्षिणदिग्दले ।

गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः

॥१७॥

ज्येष्ठां वायुदले गौरीमुत्तरे चंडमैश्वरे ।

शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत्

॥१८॥

महाकालस्योत्तरतः पिंगलं तु समर्चयेत् ।

शास्तृमातृसमूहस्य मध्ये भृंगीश्वरं ततः

॥१९॥

मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ।

स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम्

॥२०॥

ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् ।

ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत्

॥२१॥

गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् ।

अत्रैवावरणे भूयः शिवानुचरसंहतिम्

॥२२॥

रुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् ।

शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः

॥२३॥

एवं तृतीयावरणे वितते पूजिते सति ।

चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत्

॥२४॥

भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ।

रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले

॥२५॥

चतुर्णामपि देवानां पृथगावरणान्यथ ।

तस्यांगानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः

॥२६॥

दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् ।

अमोघा विद्युता चैव पूर्वादि परितः स्थिताः

॥२७॥

द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ।

पूर्वाद्युत्तरपर्यंताः शक्तयश्च ततः परम्

॥२८॥

आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ।

अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः

॥२९॥

विस्तारा पूर्वदिग्भागे सुतरां दक्षिणे स्थिताः ।

बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः

॥३०॥

उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ।

ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत्

॥३१॥

सोममंगारकं चैव बुधं बुद्धिमतां वरम् ।

बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम्

॥३२॥

शनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम् ।

समंततो यजेदेतांस्तृतीयावरणे क्रमात्

॥३३॥

अथवा द्वादशादित्या द्वितीयावरणे यजेत् ।

तृतीयावरणे चैव राशीन्द्वादश पूजयेत्

॥३४॥

सप्तसप्त गणांश्चैव बहिस्तस्य समंततः ।

ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान्

॥३५॥

ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ।

सप्तच्छंदोमयांश्चैव वालखिल्यांश्च पूजयेत्

॥३६॥

एवं तृतीयावरणे समभ्यर्च्य दिवाकरम् ।

ब्रह्माणमर्चयेत्पश्चात्त्रिभिरावरणैः सहः

॥३७॥

हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः ।

कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत्

॥३८॥

हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः ।

कालो जात्यंजनप्रख्यः पुरुषः स्फटिकोपमः

॥३९॥

त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा ।

चत्वार एते क्रमशः प्रथमावरणे स्थिताः

॥४०॥

द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् ।

सनत्कुमारः सनकः सनंदश्च सनातनः

॥४१॥

तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन् ।

अष्टौ पूर्वांश्च पूर्वादौ त्रीन्प्राक्पश्चादनुक्रमात्

॥४२॥

दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथांगिराः ।

पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः

॥४३॥

वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे ।

तेषां भार्याश्च तैस्सार्धं पूजनीया यथाक्रमम्

॥४४॥

प्रसूतिश्च तथा"कूतिः ख्यातिः सम्भूतिरेव च ।

धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका

॥४५॥

देवमातारुन्धती च सर्वाः खलु पतिव्रताः ।

शिवार्चनरतो नित्यं श्रीमत्यः प्रियदर्शनाः

॥४६॥

प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत् ।

इतिहासपुराणानि द्वितीयावरणे पुनः

॥४७॥

तृतीयावरणे पश्चाद्धर्मशास्त्रपुरस्सराः ।

वैदिक्यो निखिला विद्याः पूज्या एव समंततः

॥४८॥

पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि ।

अष्टधा वा चतुर्धा वा कृत्वा पूजां समंततः

॥४९॥

एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम् ।

दक्षिणे पश्चिमे पश्चाद्रुद्रं सावरणं यजेत्

॥५०॥

तस्य ब्रह्मषडंगानि प्रथमावरणं स्मृतम् ।

द्वितीयावरणे चैव विद्येश्वरमयं तथा

॥५१॥

तृतीयावरणे भेदो विद्यते स तु कथ्यते ।

चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात्

॥५२॥

त्रिगुणास्सकलो देवः पुरस्ताच्छिवसंज्ञकः ।

राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः

॥५३॥

तामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः ।

सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः

॥५४॥

एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ।

समभ्यर्च्योत्तरे पार्श्वे ततो वैकुंठमर्चयेत्

॥५५॥

वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत् ।

अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः

॥५६॥

सौम्ये संकर्षणं पश्चाद्व्यत्यस्तौ वा यजेदिमौ ।

प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम्

॥५७॥

मत्स्यः कूर्मो वराहश्च नरसिंहोथ वामनः ।

रामश्चान्यतमः कृष्णो भवानश्वमुखोपि च

॥५८॥

तृतीयावरणे चक्रुः पूर्वभागे समर्चयेत् ।

नारायणाख्यां याम्येस्त्रं क्वचिदव्याहतं यजेत्

॥५९॥

पश्चिमे पांचजन्यं च शार्ङ्गंधनुरथोत्तरे ।

एवं त्र्यावरणैः साक्षाद्विश्वाख्यां परमं हरिम्

॥६०॥

महाविष्णुं सदाविष्णुं मूर्तीकृत्य समर्चयेत् ।

इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम् ।

पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात्

॥६१॥

प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम् ।

गणांबिका च वायव्ये लक्ष्मीं रौद्रे समर्चयेत्

॥६२॥

एवं भान्वादिमूर्तीनां तच्छक्तीनामनंतरम् ।

पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत्

॥६३॥

इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ।

वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत्

॥६४॥

एवं चतुर्थावरणं पूजयित्वा विधानतः ।

आयुधानि महेशस्य पश्चाद्बांह्यं समर्चयेत्

॥६५॥

श्रीमन्त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे ।

परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत्

॥६६॥

नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे ।

अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत्

॥६७॥

पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ।

पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः

॥६८॥

सर्वावरणदेवानां बहिर्वा पञ्चमे ऽथवा ।

पञ्चमे मातृभिस्सार्धं महोक्ष पुरतो यजेत्

॥६९॥

ततः समंततः पूज्यास्सर्वा वै देवयोनयः ।

खेचरा ऋषयस्सिद्धा दैत्या यक्षाश्च राक्षसाः

॥७०॥

अनंताद्याश्च नागेंद्रा नागैस्तत्तत्कुलोद्भवैः ।

डाकिनीभूतवेतालप्रेतभैरवनायकाः

॥७१॥

पातालवासिनश्चान्ये नानायोनिसमुद्भवाः ।

नद्यस्समुद्रा गिरयः काननानि सरांसि च

॥७२॥

पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः ।

नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः

॥७३॥

भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः ।

बहिरंडान्यसंख्यानि भुवनानि सहाधिपैः

॥७४॥

ब्रह्मांडाधारका रुद्रा दशदिक्षु व्यवस्थिताः ।

यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम्

॥७५॥

यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् ।

तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत्

॥७६॥

कृतांजलिपुटाः सर्वे ऽचिंत्याः स्मितमुखास्तथा ।

प्रीत्या संप्रेक्षमाणाश्च देवं देवीं च सर्वदा

॥७७॥

इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशांतये ।

पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत्

॥७८॥

निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् ।

सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम्

॥७९॥

द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् ।

साधयित्वा यथासंपच्छ्रद्धया विनिवेदयेत्

॥८०॥

ततो निवेद्य पानीयं तांबूलं चोपदंशकैः ।

नीराजनादिकं कृत्वा पूजाशेषं समापयेत्

॥८१॥

भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् ।

वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति

॥८२॥

शठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः ।

न फलंत्येव कर्माणि काम्यानीति सतां कथा

॥८३॥

तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः ।

कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति

॥८४॥

इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ।

भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत्

॥८५॥

ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् ।

जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः

॥८६॥

विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् ।

यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत्

॥८७॥

ततः उद्वास्य देवेशं सर्वैरावरणैः सह ।

मण्डलं गुरवे दद्याद्यागोपकरणैस्सह

॥८८॥

शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः ।

अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत्

॥८९॥

शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः ।

समभ्यर्च्य यथान्यायं सर्वावरणदेवताः

॥९०॥

एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः ।

न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित्

॥९१॥

न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ।

ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा

॥९२॥

इदमस्य फलं नेदमिति नैव नियम्यते ।

श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम्

॥९३॥

इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते ।

चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम्

॥९४॥

तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् ।

लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत्

॥९५॥

महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति ।

महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम्

॥९६॥

तस्मादनन्यलभ्येषु शत्रुमृत्युंजयादिषु ।

फलेषु दृष्टादृष्टेषु कुर्यादेतद्विचक्षणः

॥९७॥

महत्स्वपि च पातेषु महारागभयादिषु ।

दुर्भिक्षादिषु शांत्यर्थं शांतिं कुर्यादनेन तु

॥९८॥

बहुना किं प्रलापेन महाव्यापन्निवारकम् ।

आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः

॥९९॥

तस्मादितः परं नास्ति परित्राणमिहात्मनः ।

इति मत्वा प्रयुंजानः कर्मेदं शुभमश्नुते

॥१००॥

स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः ।

सोप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात्

॥१०१॥

अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् ।

अष्टाभ्यां वा चतुर्दश्यां फलमर्धं समाप्नुयात्

॥१०२॥

यस्त्वर्थमनुसंधाय पर्वादिषु तथा व्रती ।

मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात्

॥१०३॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवानां काम्यकवर्णनं नाम त्रिंशोऽध्यायः