मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय २

3
वायवीयसंहिता · उत्तरभागः · 2

किं तत्पाशुपतं ज्ञानं कथं पशुपतिश्शिवः

ऋषय ऊचुः

किं तत्पाशुपतं ज्ञानं कथं पशुपतिश्शिवः ।

कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा

॥१॥

एतत्सर्वं समाचक्ष्व वायो शंकरविग्रह ।

तत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः

॥२॥

सूत उवाच

इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभंजनः ।

संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे

॥३॥

वायुरुवाच

पुरा साक्षान्महेशेन श्रीकंठाख्येन मन्दरे ।

देव्यै देवेन कथितं ज्ञानं पाशुपतं परम्

॥४॥

तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना ।

पशुत्वं च सुरादीनां पतित्वं च शिवस्य च

॥५॥

यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना ।

तथा समासतो वक्ष्ये तच्छृणुध्वमतंद्रिताः

॥६॥

पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः ।

प्रणिपत्य यथान्यायमिदं वचनमब्रवीत्

॥७॥

श्रीकृष्ण उवाच

भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम् ।

दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः

॥८॥

कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः ।

कैः पाशैस्ते निबध्यंते विमुच्यंते च ते कथम्

॥९॥

इति संचोदितः श्रीमानुपमन्युर्महात्मना ।

प्रणम्य देवं देवीं च प्राह पुष्टो यथा तथा

॥१०॥

उपमन्युरुवाच

ब्रह्माद्याः स्थावरांताश्च देवदेवस्य शूलिनः ।

पशवः परिकीर्त्यंते संसारवशवर्तिनः

॥११॥

तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः ।

मलमायादिभिः पाशैः स बध्नाति पशून्पतिः

॥१२॥

स एव मोचकस्तेषां भक्त्या सम्यगुपासितः ।

चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी

॥१३॥

विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः ।

ब्रह्मादिस्तम्बपर्यंतान् पशून्बद्ध्वा महेश्वरः

॥१४॥

पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् ।

तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम्

॥१५॥

बुद्धिं प्रसूते सा बुद्धिरहंकारमहंकृतिः ।

इन्द्रियाणि दशैकं च तन्मात्रापञ्चकं तथा

॥१६॥

शासनाद्देवदेवस्य शिवस्य शिवदायिनः ।

तन्मात्राण्यपि तस्यैव शासनेन महीयसा

॥१७॥

महाभूतान्यशेषाणि भावयंत्यनुपूर्वशः ।

ब्रह्मादीनां तृणान्तानां देहिनां देहसंगतिम्

॥१८॥

महाभूतान्यशेषाणि जनयंति शिवाज्ञया ।

अध्यवस्यति वै बुद्धिरहंकारोभिमन्यते

॥१९॥

चित्तं चेतयते चापि मनः संकल्पयत्यपि ।

श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक्

॥२०॥

स्वानेव नान्यान्देवस्य दिव्येनाज्ञाबलेन वै ।

वागादीन्यपि यान्यासंस्तानि कर्मेन्द्रियाणि च

॥२१॥

यथा स्वं कर्म कुर्वन्ति नान्यत्किंचिच्छिवाज्ञया ।

शब्दादयोपि गृह्यंते क्रियन्ते वचनादयः

॥२२॥

अविलंघ्या हि सर्वेषामाज्ञा शंभोर्गरीयसी ।

अवकाशमशेषाणां भूतानां संप्रयच्छति

॥२३॥

आकाशः परमेशस्य शासनादेव सर्वगः ।

प्राणाद्यैश्च तथा नामभेदैरंतर्बहिर्जगत्

॥२४॥

बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः ।

हव्यं वहति देवानां कव्यं कव्याशिनामपि

॥२५॥

पाकाद्यं च करोत्यग्निः परमेश्वरशासनात् ।

संजीवनाद्यं सर्वस्य कुर्वत्यापस्तदाज्ञया

॥२६॥

विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया ।

देवान्पात्यसुरान् हंति त्रिलोकमभिरक्षति

॥२७॥

आज्ञया तस्य देवेन्द्रः सर्वैर्देवैरलंघ्यया ।

आधिपत्यमपां नित्यं कुरुते वरुणस्सदा

॥२८॥

पाशैर्बध्नाति च यथा दंड्यांस्तस्यैव शासनात् ।

ददाति नित्यं यक्षेन्द्रो द्रविणं द्रविणेश्वरः

॥२९॥

पुण्यानुरूपं भूतेभ्यः पुरुषस्यानुशासनात् ।

करोति संपदः शश्वज्ज्ञानं चापि सुमेधसाम्

॥३०॥

निग्रहं चाप्यसाधूनामीशानश्शिवशासनात् ।

धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः

॥३१॥

यामाहुस्तामसीं रौद्रीं मूर्तिमंतकरीं हरेः ।

सृजत्यशेषमीशस्य शासनाच्चतुराननः

॥३२॥

अन्याभिर्मूर्तिभिः स्वाभिः पाति चांते निहन्ति च ।

विष्णुः पालयते विश्वं कालकालस्य शासनात्

॥३३॥

सृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः ।

हरत्यंते जगत्सर्वं हरस्तस्यैव शासनात्

॥३४॥

सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति ।

कालः करोति सकलं कालस्संहरति प्रजाः

॥३५॥

कालः पालयते विश्वं कालकालस्य शासनात् ।

त्रिभिरंशैर्जगद्बिभ्रत्तेजोभिर्वृष्टिमादिशन्

॥३६॥

दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात् ।

पुष्णात्योषधिजातानि भूतान्याह्लादयत्यपि

॥३७॥

देवैश्च पीयते चंद्रश्चन्द्रभूषणशासनात् ।

आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा

॥३८॥

खेचरा ऋषयस्सिद्धा भोगिनो मनुजा मृगाः ।

पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च

॥३९॥

नद्यस्समुद्रा गिरयः काननानि सरांसि च ।

वेदाः सांगाश्च शास्त्राणि मंत्रस्तोममखादयः

॥४०॥

कालाग्न्यादिशिवांतानि भुवनानि सहाधिपैः ।

ब्रह्मांडान्यप्यसंख्यानि तेषामावरणानि च

॥४१॥

वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः ।

दिशश्च विदिशश्चैव कालभेदाः कलादयः

॥४२॥

यच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपि वा ।

तत्सर्वं शंकरस्याज्ञा बलेन समधिष्ठितम्

॥४३॥

आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ।

ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति

॥४४॥

उपमन्युरुवाच

अत्याश्चर्यमिदं कृष्ण शंभोरमितकर्मणः ।

आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया

॥४५॥

पुरा किल सुराः सेंद्रा विवदंतः परस्परम् ।

असुरान्समरे जित्वा जेताहमहमित्युत

॥४६॥

तदा महेश्वरस्तेषां मध्यतो वरवेषधृक् ।

स्वलक्षणैर्विहीनांगः स्वयं यक्ष इवाभवत्

॥४७॥

स तानाह सुरानेकं तृणमादाय भूतले ।

य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित्

॥४८॥

यक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः ।

किंचित्क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः

॥४९॥

न तत्तृणमुपदातुं मनसापि च शक्यते ।

यथा तथापि तच्छेत्तुं वज्रं वज्रधरो ऽसृजत्

॥५०॥

तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः ।

तृणेनाभिहतं तेन तिर्यगग्रं पपात ह

॥५१॥

ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः ।

ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः

॥५२॥

प्रजज्ज्वाल महावह्निः प्रचंडः पवनो ववौ ।

प्रवृद्धो ऽपांपतिर्यद्वत्प्रलये समुपस्थिते

॥५३॥

एवं देवैस्समारब्धं तृणमुद्दिश्य यत्नतः ।

व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै

॥५४॥

तदाह यक्षं देवेंद्रः को भवानित्यमर्षितः ।

ततस्स पश्यतामेव तेषामंतरधादथ

॥५५॥

तदंतरे हैमवती देवी दिव्यविभूषणा ।

आविरासीन्नभोरंगे शोभमाना शुचिस्मिता

॥५६॥

तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः ।

प्रणम्य यक्षं पप्रच्छुः को ऽसौ यक्षो विलक्षणः

॥५७॥

सा ऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः ।

तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम्

॥५८॥

तेनादौ क्रियते विश्वं तेन संह्रियते पुनः ।

न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते

॥५९॥

इत्युक्त्वा सा महादेवी तत्रैवांतरधत्त वै ।

देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः

॥६०॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे द्वितीयो ऽध्यायः