मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय २३

3
वायवीयसंहिता · उत्तरभागः · 23

पूजाविधानव्याख्यानवर्णनम्

उपमन्युरुवाच

व्याख्यां पूजाविधानस्य प्रवदामि समासतः ।

शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु

॥१॥

अंगमभ्यंतरं यागमग्निकार्यावसानकम् ।

विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत्

॥२॥

तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ।

ध्यात्वा विनायकं देवं पूजयित्वा विधानतः

॥३॥

दक्षिणे चोत्तरे चैव नंदीशं सुयशं तथा ।

आराध्य मनसा सम्यगासनं कल्पयेद्बुधः

॥४॥

आराधनादिकैर्युक्तस्सिंहयोगासनादिकम् ।

पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम्

॥५॥

तस्योपरि शिवं ध्यायेत्सांबं सर्वमनोहरम् ।

सर्वलक्षणसंपन्नं सर्वावयवशोभनम्

॥६॥

सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ।

रक्तास्यपाणिचरणं कुंदचंद्रस्मिताननम्

॥७॥

शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् ।

चतुर्भुजमुदाराङ्गं चारुचंद्रकलाधरम्

॥८॥

वरदाभयहस्तं च मृगटंकधरं हरम् ।

भुजंगहारवलयं चारुनीलगलांतरम्

॥९॥

सर्वोपमानरहितं सानुगं सपरिच्छदम् ।

ततः संचिंतयेत्तस्य वामभागे महेश्वरीम्

॥१०॥

प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ।

पूर्णचंद्राभवदनां नीलकुंचितमूर्धजाम्

॥११॥

नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् ।

अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम्

॥१२॥

तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् ।

सर्वाभरणसंपन्नां ललाटतिलकोज्ज्वलाम्

॥१३॥

विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ।

सर्वतो ऽनुगुणाकारां किंचिल्लज्जानताननाम्

॥१४॥

हेमारविंदं विलसद्दधानां दक्षिणे करे ।

दंडवच्चापरं हस्ते न्यस्यासीनां महासने

॥१५॥

पाशविच्छेदिकां साक्षात्सच्चिदानंदरूपिणीम् ।

एवं देवं च देवीं च ध्यात्वासनवरे शुभे

॥१६॥

सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् ।

अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः

॥१७॥

शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् ।

षड्विंशकाभिधानां वा श्रीकंठाख्यामथापि वा

॥१८॥

मन्त्रन्यासादिकां चापि कृत्वा स्वस्यां तनौ यथा ।

अस्यां मूर्तौ मूर्तिमंतं शिवं सदसतः परम्

॥१९॥

ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्तयेद्धिया ।

समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत्

॥२०॥

भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् ।

इत्थमंगे स्वतंत्रे वा योगे ध्यानमये शुभे

॥२१॥

अग्निकार्यावसानं च सर्वत्रैव समो विधिः ।

अथ चिंतामयं सर्वं समाप्याराधनक्रमम्

॥२२॥

लिंगे च पूजयेद्देवं स्थंडिले वानले ऽपि वा

॥२३॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधानव्याख्यानवर्णनं नाम त्रयोविंशो ऽध्यायः