पञ्चाक्षरमाहात्म्यवर्णनम्
श्रीकृष्ण उवाच
महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ।
पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः
॥१॥उपमन्युरुवाच
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि ।
अशक्यं विस्तराद्वक्तुं तस्मात्संक्षेपतः शृणु
॥२॥वेदे शिवागमे चायमुभयत्र षडक्षरेः ।
सर्वेषां शिवभक्तानामशेषार्थसाधकः
॥३॥तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् ।
आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम्
॥४॥नानासिद्धियुतं दिव्यं लोकचित्तानुरंजकम् ।
सुनिश्चितार्थं गंभीरं वाक्यं तत्पारमेश्वरम्
॥५॥मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये ।
प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम्
॥६॥तद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम् ।
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत्
॥७॥देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ।
ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः
॥८॥इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु ।
मंत्रे नमश्शिवायेति संस्थितानि यथाक्रमम् ।
मंत्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः
॥९॥वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ।
वाच्यश्शिवोप्रमेयत्वान्मंत्रस्तद्वाचकस्स्मृतः
॥१०॥वाच्यवाचकभावो ऽयमनादिसंस्थितस्तयोः ।
यथा ऽनादिप्रवृत्तोयं घोरसंसारसागरः
॥११॥शिवो ऽपि हि तथानादिसंसारान्मोचकः स्थितः ।
व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः
॥१२॥तद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः ।
असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत्
॥१३॥अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च ।
प्रधानपरमाण्वादि यावत्किंचिदचेतनम्
॥१४॥न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ।
धर्माधर्मोपदेशश्च बंधमोक्षौ विचारणात्
॥१५॥न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति ।
वैद्यं विना निरानंदाः क्लिश्यंते रोगिणो यथा
॥१६॥तस्मादनादिः सर्वज्ञः परिपूर्णस्सदाशिवः ।
अस्ति नाथः परित्राता पुंसां संसारसागरात्
॥१७॥आदिमध्यांतनिर्मुक्तस्स्वभावविमलः प्रभुः ।
सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमे
॥१८॥तस्याभिधानमन्त्रो ऽयमभिधेयश्च स स्मृतः ।
अभिधानाभिधेयत्वान्मंत्रस्सिद्धः परश्शिवः
॥१९॥एतावत्तु शिवज्ञानमेतावत्परमं पदम् ।
यदोंनमश्शिवायेति शिववाक्यं षडक्षरम्
॥२०॥विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम् ।
यस्सर्वज्ञस्सुसंपूर्णः स्वभावविमलः शिवः
॥२१॥लोकानुग्रहकर्ता च स मृषार्थं कथं वदेत् ।
यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः
॥२२॥यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत् ।
रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत्
॥२३॥ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा ।
अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत् ।
प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः
॥२४॥तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता ।
यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः
॥२५॥स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् ।
वाक्यं मुनिवरैः शांतैस्तद्विज्ञेयं सुभाषितम्
॥२६॥रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् ।
वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते
॥२७॥संस्कृतेनापि किं तेन मृदुना ललितेन वा ।
अविद्यारागवाक्येन संसारक्लेशहेतुना
॥२८॥यच्छ्रुत्वा जायते श्रेयो रागादीनां च संशयः ।
विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम्
॥२९॥बहुत्वेपि हि मंत्राणां सर्वज्ञेन शिवेन यः ।
प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित्
॥३०॥सांगानि वेदशास्त्राणि संस्थितानि षडक्षरे ।
न तेन सदृशस्तस्मान्मन्त्रो ऽप्यस्त्यपरः क्वचित्
॥३१॥सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा ।
मन्त्रः षडक्षरो भिन्नस्सूत्रं वृत्यात्मना यथा
॥३२॥शिवज्ञानानि यावंति विद्यास्थानापि यानि च ।
षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः
॥३३॥किं तस्य बहुभिर्मंत्रैश्शास्त्रैर्वा बहुविस्तरैः ।
यस्योन्नमः शिवायेति मन्त्रो ऽयं हृदि संस्थितः
॥३४॥तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् ।
येनोन्नमश्शिवायेति मंत्राभ्यासः स्थिरीकृतः
॥३५॥नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् ।
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम्
॥३६॥अंत्यजो वाधमो वापि मूर्खो वा पंडितो ऽपि वा ।
पञ्चाक्षरजपे निष्ठो मुच्यते पापपंजरात्
॥३७॥इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना ।
हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः
॥३८॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम द्वादशो ऽध्यायः