अतः परं प्रवक्ष्यामि साधकं नाम नामतः
उपमन्युरुवाच
अतः परं प्रवक्ष्यामि साधकं नाम नामतः ।
संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया
॥१॥संपूज्य मंडले देवं स्थाप्य कुम्भे च पूर्ववत् ।
हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मंडले
॥२॥पूर्वांतं पूर्ववत्कृत्वा हुत्वाहुतिशतं तथा ।
संतर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः
॥३॥सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् ।
अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम्
॥४॥तत्र विद्योपदेशांतं कृत्वा विस्तरशः क्रमात् ।
पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत्
॥५॥तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः ।
भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः
॥६॥इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः ।
साधनं शिवयोगं च साधकाय समादिशेत्
॥७॥तच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः ।
पुरतो विनियोगस्य मन्त्रसाधनमाचरेत्
॥८॥साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ।
पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः
॥९॥नात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम् ।
कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत्
॥१०॥शुभे ऽहनि शुभे देशे काले वा दोषवर्जिते ।
शुक्लदन्तनखः स्नातः कृतपूर्वाह्णिकक्रियः
॥११॥अलंकृत्य यथा लब्धैर्गंधमाल्यविभूषणैः ।
सोष्णीषः सोत्तरासंगः सर्वशुक्लसमाहितः
॥१२॥देवालये गृहे ऽन्यस्मिन्देशे वा सुमनोहरे ।
सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः
॥१३॥तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना ।
संपूज्य देवदेवेशं नकुलीश्वरमीश्वरम्
॥१४॥निवेद्य पायसं तस्मै समप्याराधनं क्रमात् ।
प्रणिपत्य च तं देवं प्राप्तानुज्ञश्च तन्मुखात्
॥१५॥कोटिवारं तदर्धं वा तदर्धं वा जपेच्छिवम् ।
लक्षविंशतिकं वापि दशलक्षमथापि वा
॥१६॥ततश्च पायसाक्षारलवणैकमिताशनः ।
अहिंसकः क्षमी शांतो दांतश्चैव सदा भवेत्
॥१७॥अलाभे पायसस्याश्नन्फलमूलादिकानि वा ।
विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम्
॥१८॥चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च ।
शाकं पयो दधि घृतं मूलं फलमथोदकम्
॥१९॥अभिमंत्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च ।
साधने ऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः
॥२०॥मन्त्राष्टशतपूतेन जलेन शुचिना व्रती ।
स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः
॥२१॥तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले ।
सप्तभिः पञ्चभिर्द्रव्यैस्त्रिभिर्वाथ घृतेन वा
॥२२॥इत्थं भक्त्या शिवं शैवो यः साधयति साधकः ।
तस्येहामुत्र दुष्प्रापं न किंचिदपि विद्यते
॥२३॥अथवा ऽहरहर्मंत्रं जपेदेकाग्रमानसः ।
अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम्
॥२४॥न तस्य दुर्लभं किंचिन्न तस्यास्त्यशुभं क्वचित् ।
इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विंदति
॥२५॥साधने विनियोगे च नित्ये नैमित्तिके तथा ।
जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात्
॥२६॥शुचिर्बद्धशिखस्सूत्री सपवित्रकरस्तथा ।
धृतत्रिपुंड्ररुद्राक्षो विद्यां पञ्चाक्षरीं जपेत्
॥२७॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे साधकसंस्कारमन्त्रमाहात्म्यं नामैकोनविंशो ऽध्यायः