मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उत्तरभागः, अध्याय १५

3
वायवीयसंहिता · उत्तरभागः · 15

गुरुमाहात्म्यम्

श्रीकृष्ण उवाच

भगवान्मंत्रमाहात्म्यं भवता कथितं प्रभो ।

तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा

॥१॥

इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् ।

मंत्रसंग्रहणे किंचित्सूचितन्न तु विस्मृतम्

॥२॥

उपमन्युरुवाच

हन्त ते कथयिष्यामि सर्वपापविशोधनम् ।

संस्कारं परमं पुण्यं शिवेन पतिभाषितम्

॥३॥

सम्यक्कृताधिकारः स्यात्पूजादिषु नरो यतः ।

संस्कारः कथ्यते तेन षडध्वपरिशोधनम्

॥४॥

दीयते येन विज्ञानं क्षीयते पाशबंधनम् ।

तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते

॥५॥

शांभवी चैव शाक्ती च मांत्री चैव शिवागमे ।

दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना

॥६॥

गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि ।

सद्यस्संज्ञा भवेज्जंतोः पाशोपक्षयकारिणी

॥७॥

सा दीक्षा शांभवी प्रोक्ता सा पुनर्भिद्यते द्विधा ।

तीव्रा तीव्रतरा चेति पाशो पक्षयभेदतः

॥८॥

यया स्यान्निर्वृतिः सद्यस्सैव तीव्रतरा मता ।

तीव्रा तु जीवतोत्यंतं पुंसः पापविशोधिका

॥९॥

शक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु ।

गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा

॥१०॥

मांत्री क्रियावती दीक्षा कुंडमंडलपूर्विका ।

मंदमंदतरोद्देशात्कर्तव्या गुरुणा बहिः

॥११॥

शक्तिपातानुसारेण शिष्यो ऽनुग्रहमर्हति ।

शैवधर्मानुसारस्य तन्मूलत्वात्समासतः

॥१२॥

यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते ।

न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः

॥१३॥

तस्माल्लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः ।

ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत्

॥१४॥

यो ऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः ।

तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत्

॥१५॥

लक्षणं शक्तिपातस्य प्रबोधानंदसंभवः ।

सा यस्मात्परमा शक्तिः प्रबोधानंदरूपिणी

॥१६॥

आनंदबोधयोर्लिंगमंतःकरणविक्रियाः ।

यथा स्यात्कंपरोमांचस्वरनेत्रांगविक्रियाः

॥१७॥

शिष्योपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् ।

तत्संपर्कैः शिवार्चादौ संगतैर्वाथ तद्गतैः

॥१८॥

शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् ।

तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत्

॥१९॥

यो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।

गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः

॥२०॥

यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ।

शिवविद्या गुरूणां च पूजया सदृशं फलम्

॥२१॥

सर्वदेवात्मकश्चासौ सर्वमंत्रमयो गुरुः ।

तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत्

॥२२॥

श्रेयो ऽर्थी यदि गुर्वाज्ञां मनसापि न लंघयेत् ।

गुर्वाज्ञापालको यस्माज्ज्ञानसंपत्तिमश्नुते

॥२३॥

गच्छंस्तिष्ठन्स्वपन्भुंजन्नान्यत्कर्म समाचरेत् ।

समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः

॥२४॥

गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् ।

गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम्

॥२५॥

पापिनां च यथा संगात्तत्पापात्पतितो भवेत् ।

यथेह वह्निसंपर्कान्मलं त्यजति कांचनम्

॥२६॥

तथैव गुरुसंपर्कात्पापं त्यजति मानवः ।

यथा वह्निसमीपस्थो घृतकुम्भो विलीयते

॥२७॥

तथा पापं विलीयेत ह्याचार्यस्य समीपतः ।

यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत्

॥२८॥

तथायमपि संतुष्टो गुरुः पापं क्षणाद्दहेत् ।

मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत्

॥२९॥

तस्य क्रोधेन दह्यंते ह्यायुःश्रीज्ञानसत्क्रियाः ।

तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः

॥३०॥

यमश्च नियमाश्चैव नात्र कार्या विचारणा ।

गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः

॥३१॥

वदेद्यदि महामोहाद्रौरवं नरकं व्रजेत् ।

मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः

॥३२॥

श्रेयोर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत् ।

गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा

॥३३॥

असमक्षं समक्षं वा तस्य कार्यं समाचरेत् ।

इत्थमाचारवान्भक्तो नित्यमुद्युक्तमानसः

॥३४॥

गुरुप्रियकरः शिष्यः शैवधर्मांस्ततो ऽर्हति ।

गुरुश्चेद्गुणवान्प्राज्ञः परमानंदभासकः

॥३५॥

तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः ।

संवित्संजननं तत्त्वं परमानंदसंभवम्

॥३६॥

तत्तत्त्वं विदितं येन स एवानंददर्शकः ।

न पुनर्नाममात्रेण संविदारहितस्तु यः

॥३७॥

अन्योन्यं तारयेन्नौका किं शिला तारयेच्छिलाम् ।

एतस्या नाममात्रेण मुक्तिर्वै नाममात्रिका

॥३८॥

यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि ।

तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः

॥३९॥

परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते ।

पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते

॥४०॥

तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते ।

सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम्

॥४१॥

सर्वोपायविधिज्ञो ऽपि तत्त्वहीनस्तु निष्फलः ।

यस्यानुभवपर्यंता बुद्धिस्तत्त्वे प्रवर्तते

॥४२॥

तस्यावलोकनाद्यैश्च परानन्दो ऽभिजायते ।

तस्माद्यस्यैव संपर्कात्प्रबोधानंदसंभवः

॥४३॥

गुरुं तमेव वृणुयान्नापरं मतिमान्नरः ।

स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः

॥४४॥

यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः ।

ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत्

॥४५॥

न तु तत्त्वं त्यजेज्जातु नोपेक्षेत कथंचन ।

यत्रानंदः प्रबोधो वा नाल्पमप्युपलभ्यते

॥४६॥

वत्सरादपि शिष्येण सो ऽन्यं गुरुमुपाश्रयेत् ।

गुरुमन्यं प्रपन्ने ऽपि नावमन्येत पौर्विकम् ।

गुरोर्भ्रात्ःंस्तथा पुत्रान्बोधकान्प्रेरकानपि

॥४७॥

तत्रादावुपसंगम्य ब्राह्मणं वेदपारगम् ।

गुरुमाराधयेत्प्राज्ञं शुभगं प्रियदर्शनम्

॥४८॥

सर्वाभयप्रदातारं करुणाक्रांतमानसम् ।

तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा

॥४९॥

तावदाराधयेच्छिष्यः प्रसन्नोसौ भवेद्यथा ।

तस्मिन्प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत्

॥५०॥

तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च ।

भूषणानि च वासांसि यानशय्यासनानि च

॥५१॥

एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः ।

वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम्

॥५२॥

स एव जनको माता भर्ता बन्धुर्धनं सुखम् ।

सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत्

॥५३॥

निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम् ।

समर्प्य सोदकं तस्मै नित्यं तद्वशगो भवेत्

॥५४॥

यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने ।

तदा शैवो भवेद्देही न ततो ऽस्ति पुनर्भवः

॥५५॥

गुरुश्च स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् ।

ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम्

॥५६॥

प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः ।

उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि

॥५७॥

आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि ।

ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि

॥५८॥

अहिंसका दयावंतो नित्यमुद्युक्तचेतसः ।

अमानिनो बुद्धिमंतस्त्यक्तस्पर्धाः प्रियंवदाः

॥५९॥

ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः ।

शौचाचारसमायुक्ताः शिवभक्ता द्विजातयः

॥६०॥

एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः ।

शोध्या बोध्या यथान्यायमिति शास्त्रेषु निश्चयः

॥६१॥

नाधिकारः स्वतो नार्याः शिवसंस्कारकर्मणि ।

नियोगाद्भर्तुरस्त्येव भक्तियुक्ता यदीश्वरे

॥६२॥

तथैव भर्तृहीनाया पुत्रादेरभ्यनुज्ञया ।

अधिकारो भवत्येव कन्यायाः पितुराज्ञया ।

शूद्राणां मर्त्यजातीनां पतितानां विशेषतः

॥६३॥

तथा संकरजातीनां नाध्वशुद्धिर्विधीयते ।

तैप्यकृत्रिमभावश्चेच्छिवे परमकारणे

॥६४॥

पादोदकप्रदानाद्यैः कुर्युः पापविशोधनम् ।

अत्रानुलोमजाता ये युक्ता एव द्विजातिषु

॥६५॥

तेषामध्वविशुद्ध्यादि कुर्यान्मातृकुलोचितम् ।

या तु कन्या स्वपित्राद्यैश्शिवधर्मे नियोजिता

॥६६॥

सा भक्ताय प्रदातव्या नापराय विरोधिने ।

दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम्

॥६७॥

अशक्ता तं परित्यज्य मनसा धर्ममाचरेत् ।

यथा मुनिवरं त्यक्त्वा पतिमत्रिं पतिव्रता

॥६८॥

कृतकृत्या ऽभवत्पूर्वं तपसाराध्य शङ्करम् ।

यथा नारायणं देवं तपसाराध्य पांडवान्

॥६९॥

पतींल्लब्धवती धर्मे गुरुभिर्न नियोजिता ।

अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः

॥७०॥

शिवधर्मे नियुक्तायाश्शिवशासनगौरवात् ।

बहुनात्र किमुक्तेन यो ऽपि को ऽपि शिवाश्रयः

॥७१॥

संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते ।

गुरोरालोकनादेव स्पर्शात्संभाषणादपि

॥७२॥

यस्य संजायते प्रज्ञा तस्य नास्ति पराजयः ।

मनसा यस्तु संस्कारः क्रियते योगवर्त्मना

॥७३॥

स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः ।

क्रियावान्यस्तु संस्कारः कुंडमंडपपूर्वकः ।

स वक्ष्यते समासेन तस्य शक्यो न विस्तरः

॥७४॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यं नाम पञ्चदशो ऽध्यायः