विदुषां द्विजमुख्यानां वर्णधर्मसमासतः
ईश्वर उवाच
अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम् ।
विदुषां द्विजमुख्यानां वर्णधर्मसमासतः
॥१॥त्रिः स्नानं चाग्निकार्यं च लिंगार्चनमनुक्रमम् ।
दानमीश्ररभावश्च दया सर्वत्र सर्वदा
॥२॥सत्यं संतोषमास्तिक्यमहिंसा सर्वजंतुषु ।
ह्रीश्रद्धाध्ययनं योगस्सदाध्यापनमेव च
॥३॥व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा ।
शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम्
॥४॥निषिद्धासेवनं चैव भस्मरुद्राक्षधारणम् ।
पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः
॥५॥पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि ।
अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये
॥६॥सर्वक्रियान्न सन्त्यागः श्रद्धान्नस्य च वर्जनम् ।
तथा पर्युषितान्नस्य यावकस्य विशेषतः
॥७॥मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् ।
सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः
॥८॥क्षमा शांतिश्च सन्तोषस्सत्यमस्तेयमेव च ।
ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम्
॥९॥सर्वसंगनिवृत्तिश्च दशैतानि विशेषतः ।
लिंगानि योगिनां भूयो दिवा भिक्षाशनं तथा
॥१०॥वानप्रस्थाश्रमस्थानां समानमिदमिष्यते ।
रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम्
॥११॥अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः ।
वैश्यस्य च विशेषेण मया नात्र विधीयते
॥१२॥रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा ।
दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम्
॥१३॥अविश्वासश्च सर्वत्र विश्वासो मम योगिषु ।
स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च
॥१४॥सदा संचारितैश्चारैर्लोकवृत्तांतवेदनम् ।
सदास्त्रधारणं चैव भस्मकंचुकधारणम्
॥१५॥राज्ञां ममाश्रमस्थानामेष धर्मस्य संग्रहः ।
गोरक्षणं च वाणिज्यं कृषिर्वैश्यस्य कथ्यते
॥१६॥शुश्रूषेतरवर्णानां धर्मः शूद्रस्य कथ्यते ।
उद्यानकरणं चैव मम क्षेत्रसमाश्रयः
॥१७॥धर्मपत्न्यास्तु गमनं गृहस्थस्य विधीयते ।
ब्रह्मचर्यं वनस्थानां यतीनां ब्रह्मचारिणाम्
॥१८॥स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्यस्सनातनः ।
ममार्चनं च कल्याणि नियोगो भर्तुरस्ति चेत्
॥१९॥या नारी भर्तृशुश्रूषां विहाय व्रततत्परा ।
सा नारी नरकं याति नात्र कार्या विचारणा
॥२०॥अथ भर्तृविहीनाया वक्ष्ये धर्मं सनातनम् ।
व्रतं दानं तपः शौचं भूशय्यानक्तभोजनम्
॥२१॥ब्रह्मचर्यं सदा स्नानं भस्मना सलिलेन वा ।
शांतिर्मौनं क्षमा नित्यं संविभागो यथाविधि
॥२२॥अष्टाभ्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः ।
एकादश्यां च विधिवदुपवासोममार्चनम्
॥२३॥इति संक्षेपतः प्रोक्तो मयाश्रमनिषेविणाम् ।
ब्रह्मक्षत्रविशां देवि यतीनां ब्रह्मचारिणाम्
॥२४॥तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि ।
शूद्राणामथ नारीणां धर्म एष सनातनः
॥२५॥ध्येयस्त्वयाहं देवेशि सदा जाप्यः षडक्षरः ।
वेदोक्तमखिलं धर्ममिति धर्मार्थसंग्रहः
॥२६॥अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः ।
भावातिशयसंपन्नाः पूर्वसंस्कारसंयुताः
॥२७॥विरक्ता वानुरक्ता वा स्त्र्यादीनां विषयेष्वपि ।
पापैर्न ते विलिंपंते १ पद्मपत्रमिवांभसा
॥२८॥तेषां ममात्मविज्ञानं विशुद्धानां विवेकिनाम् ।
मत्प्रसादाद्विशुद्धानां दुःखमाश्रमरक्षणात्
॥२९॥नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम् ।
न विधिर्न निषेधश्च तेषां मम यथा तथा
॥३०॥तथेह परिपूर्णस्य साध्यं मम न विद्यते ।
तथैव कृतकृत्यानां तेषामपि न संशयः
॥३१॥मद्भक्तानां हितार्थाय मानुषं भावमाश्रिताः ।
रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः
॥३२॥ममानुशासनं यद्वद्ब्रह्मादीनां प्रवर्तकम् ।
तथा नराणामन्येषां तन्नियोगः प्रवर्तकः
॥३३॥ममाज्ञाधारभावेन सद्भावातिशयेन च ।
तदालोकनमात्रेण सर्वपापक्षयो भवेत्
॥३४॥प्रत्ययाश्च प्रवर्तंते प्रशस्तफलसूचकाः ।
मयि भाववतां पुंसां प्रागदृष्टार्थगोचराः
॥३५॥कंपस्वेदो ऽश्रुपातश्च कण्ठे च स्वरविक्रिया ।
आनंदाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः
॥३६॥स तैर्व्यस्तैस्समस्तैर्वा लिंगैरव्यभिचारिभिः ।
मंदमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः
॥३७॥यथायोग्निसमावेशान्नायो भवति केवलम् ।
स तथैव मम सान्निध्यान्न ते केवलमानुषाः
॥३८॥हस्तपादादिसाधर्म्याद्रुद्रान्मर्त्यवपुर्धरान् ।
प्राकृतानिव मन्वानो नावजानीत पंडितः
॥३९॥अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः ।
आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत्
॥४०॥ब्रह्मविष्णुसुरेशानामपि तूलायते पदम् ।
मत्तोन्यदनपेक्षाणामुद्धृतानां महात्मनाम्
॥४१॥अशुद्धं बौद्धमैश्वर्यं प्राकृतं पौरुषं तथा ।
गुणेशानामतस्त्याज्यं गुणातीतपदैषिणाम्
॥४२॥अथ किं बहुनोक्तेन श्रेयः प्राप्त्यैकसाधनम् ।
मयि चित्तसमासंगो येन केनापि हेतुना
॥४३॥उपमन्युरुवाच
इत्थं श्रीकण्ठनाथेन शिवेन परमात्मना ।
हिताय जगतामुक्तो ज्ञानसारार्थसंग्रहः
॥४४॥विज्ञानसंग्रहस्यास्य वेदशास्त्राणि कृत्स्नशः ।
सेतिहासपुराणानि विद्या व्याख्यानविस्तरः
॥४५॥ज्ञानं ज्ञेयमनुष्ठेयमधिकारो ऽथ साधनम् ।
साध्यं चेति षडर्थानां संग्रहत्वेष संग्रहः
॥४६॥गुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः ।
लिंगार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतो ऽपि यः
॥४७॥साधनं शिवमंत्राद्यं साध्यं शिवसमानता ।
षडर्थसंग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते
॥४८॥प्रथमं कर्म यज्ञादेर्भक्त्या वित्तानुसारतः ।
बाह्येभ्यर्च्य शिवं पश्चादंतर्यागरतो भवेत्
॥४९॥रतिरभ्यंतरे यस्य न बाह्ये पुण्यगौरवात् ।
न कर्म करणीयं हि बहिस्तस्य महात्मनाः
॥५०॥ज्ञानामृतेन तृप्तस्य भक्त्या शैवशिवात्मनः ।
नांतर्न च बहिः कृष्ण कृत्यमस्ति कदाचन
॥५१॥तस्मात्क्रमेण संत्यज्य बाह्यमाभ्यंतरं तथा ।
ज्ञानेन ज्ञेयमालोक्याज्ञानं चापि परित्यजेत्
॥५२॥नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा ।
एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा
॥५३॥तस्मात्कर्माण्यकृत्वा वा कृत्वा वांतर्बहिःक्रमात् ।
येन केनाप्युपायेन शिवे चित्तं निवेशयेत्
॥५४॥शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम् ।
परत्रेह च सर्वत्र निर्वृतिः परमा भवेत्
॥५५॥इहोन्नमः शिवायेति मंत्रेणानेन सिद्धयः ।
स तस्मादधिगंतव्यः परावरविभूतये
॥५६॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिवज्ञानवर्णनं नामैकादशो ऽध्यायः