सृष्टिकथनम्
वायुरुवाच
एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ।
मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः
॥१॥स्वयमप्यद्भुतो नारी चार्धेन पुरुषो ऽभवत् ।
यार्धेन नारी सा तस्माच्छतरूपा व्यजायत
॥२॥विराजमसृजद्ब्रह्मा सो ऽर्धन पुरुषो ऽभवत् ।
स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते
॥३॥सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ।
भर्तारं दीप्तयशसं मनुमेवान्वपद्यत
॥४॥तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ।
प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ
॥५॥कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः ।
आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता
॥६॥स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः ।
रुचेः प्रजापतिश्चैव चाकूतिं समपादयत्
॥७॥आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ।
यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत्
॥८॥स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः १ ।
चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः
॥९॥श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा ।
बुद्धिर्लज्जा वपुः शांतिस्सिद्धिः कीर्तिस्त्रयोदशी
॥१०॥पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ।
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः
॥११॥ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा ।
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा
॥१२॥भृगुश्शर्वो मरीचिश्च अंगिराः पुलहः क्रतुः ।
पुलस्त्यो ऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा
॥१३॥ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः ।
कामाद्यास्तु यशोंता ये ते त्रयोदश सूनवः
॥१४॥धर्मस्य जज्ञिरे तास्तु श्रद्धाद्यास्सुसुखोत्तराः ।
दुःखोत्तराश्च हिंसायामधर्मस्य च संततौ
॥१५॥निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः ।
नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः
॥१६॥स एष तामसस्सर्गो जज्ञे धर्मनियामकः ।
या सा दक्षस्य दुहिता रुद्रस्य दयिता सती
॥१७॥भर्तृनिन्दाप्रसंगेन त्यक्त्वा दाक्षायिणीं तनुम् ।
दक्षं च दक्षभार्यां च विनिंद्य सह बन्धुभिः
॥१८॥सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः ।
रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान्
॥१९॥यथासृजदसंख्यातांस्तथा कथितमेव च ।
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया
॥२०॥देवौ धातृविधातारौ मन्वंतरविधारिणौ ।
तयोर्वै पुत्रपौत्राद्याश्शतशो ऽथ सहस्रशः
॥२१॥स्वायंभुवे ऽंतरे नीताः सर्वे ते भार्गवा मताः ।
मरीचेरपि संभूतिः पौर्णमासमसूयत
॥२२॥कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः ।
येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः
॥२३॥स्मृतिश्चांगिरसः पत्नी जनयामास वै सुतौ ।
आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम्
॥२४॥तदीयाः पुत्रपौत्राश्च येतीतास्ते सहस्रशः ।
प्रीत्यां पुलस्त्यभार्यायां दन्तोग्निरभवत्सुतः ।
पूर्वजन्मनि योगस्त्यस्स्मृतः स्वायंभुवे ऽंतरे
॥२५॥तत्संततीया बहवः पौलस्त्या इति विश्रुताः ।
क्षमा तु सुषुवे पुत्रान्पुलहस्य प्रजापतेः
॥२६॥कर्दमश्च सुरिश्चैव सहिष्णुश्चेति ते त्रयः ।
त्रेताग्निवर्चसस्सर्वे येषां वंशः प्रतिष्ठितः
॥२७॥क्रतोः क्रतुसमान्भार्या सन्नतिस्सुषुवे सुतान् ।
नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः
॥२८॥षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः ।
अनूरोरग्रतो यांति परिवार्य दिवाकरम्
॥२९॥अत्रेर्भार्यानुसूया च पञ्चात्रेयानसूयत ।
कन्यकां च श्रुतिं नाम माता शंखपदस्य च
॥३०॥सत्यनेत्रश्च हव्यश्च आपोमूर्तिश्शनैश्चरः ।
सोमश्च पञ्चमस्त्वेते पञ्चात्रेयाः प्रकीर्तिताः
॥३१॥तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् ।
स्वायंभुवे ऽंतरे ऽतीताः शतशो ऽथ सहस्रशः
॥३२॥ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे ।
ज्यायसी च स्वसा तेषां पुंडरीका सुमध्यमा
॥३३॥रजो गात्रोर्ध्वबाहू च सवनश्चानयश्च यः ।
सुतपाश्शुक्र इत्येते सप्त सप्तर्षयः स्मृताः
॥३४॥गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ।
स्वायंभुवे ऽंतरे ऽतीतान्यर्बुदानि शतानि च
॥३५॥इत्येष ऋषिसर्गस्तु सानुबंधः प्रकीर्तितः ।
समासाद्विस्तराद्वक्तुमशक्यो ऽयमिति द्विजाः
॥३६॥यो ऽसौ रुद्रात्मको बह्निब्रह्मणो मानसस्सुतः ।
स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः
॥३७॥पावकः पवमानश्च शुचिरित्येष ते त्रयः ।
निर्मंथ्यः पवमानस्स्याद्वैद्युतः पावकस्स्मृतः
॥३८॥सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः ।
हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः
॥३९॥त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते ।
एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते
॥४०॥काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ।
सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा
॥४१॥सर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः ।
तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित्
॥४२॥तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ।
इत्येवं निश्चयोग्नीनामनुक्रांतो यथातथम्
॥४३॥नातिविस्तरतो विप्राः पितॄन्वक्ष्याम्यतः परम् ।
यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम्
॥४४॥ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ।
युष्मादृतुषु सर्वे हि जायंते स्थास्नुजंगमा
॥४५॥तस्मादेते पितर आर्तवा इति च श्रुतम् ।
एवं पितॄणामेतेषामृतुकालाभिमानिनाम्
॥४६॥आत्मैश्वर्या महात्मानस्तिष्ठंतीहाब्भ्रसंगमात् ।
आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः
॥४७॥अयज्वानश्च यज्वानः क्रमात्ते मृहमेधिनः ।
स्वधासूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते
॥४८॥मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् ।
अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता
॥४९॥मेना हिमवतः पत्नी मैनाकं क्रौंचमेव च ।
गौरीं गंगां च सुषुवे भवांगाश्लेषपावनीम्
॥५०॥मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् ।
मंदरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम्
॥५१॥स एव मंदरः श्रीमान्मेरुपुत्रस्तपोबलात् ।
साक्षाच्छ्रीकंठनाथस्य शिवस्यावसथं गतः
॥५२॥सासूता धरणी भूयस्त्रिंशत्कन्याश्च विश्रुताः ।
वेलां च नियतिं चैव तृतीयामपि चायतिम्
॥५३॥आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः ।
स्वायंभुवे ऽंतरे पूर्वं कथितस्ते तदन्वयः
॥५४॥सुषुवे सागराद्वेला कन्यामेकामनिंदिताम् ।
सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः
॥५५॥सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः ।
सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः
॥५६॥येषां स्वायंभुवे दक्षः पुत्रत्वमगमत्पुरा ।
त्रियम्बकस्य शापेन चाक्षुषस्यांतरे मनोः
॥५७॥इत्येते ब्रह्मपुत्राणां धर्मादीनाम्महात्मनाम् ।
नातिसंक्षेपतो विप्रा नाति विस्तरतः क्रमात्
॥५८॥वर्णिता वै मया वंशा दिव्या देवगणान्विताः ।
क्रियावंतः प्रजावंतो महर्धिभिरलंकृताः
॥५९॥प्रजानां संनिवेशो ऽयं प्रजापतिसमुद्भवः ।
न हि शक्यः प्रसंख्यातुं वर्षकोटिशतैरपि
॥६०॥राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते ।
सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ
॥६१॥इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ।
पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसंभवाः
॥६२॥अन्ये च राजऋषयो नानावीर्यसमन्विता ।
किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः
॥६३॥किं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् ।
न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम्
॥६४॥प्रसंगादीश्वरस्यैव प्रभावद्योतनादपि ।
सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः
॥६५॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशो ऽध्यायः