शिवतत्त्वज्ञानवर्णनम्
सूत उवाच
तत्र पूर्वं महाभागा नैमिषारण्यवासिनः ।
प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम्
॥१॥नैमिषीया ऊचुः
भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् ।
कथं च शिवभावस्ते ब्रह्मणो ऽव्यक्तजन्मनः
॥२॥वायुरुवाच
एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः ।
तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामो ऽतपत्तपः
॥३॥तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् ।
दिव्यं कौमारमास्थाय रूपं रूपवतां वरः
॥४॥श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् ।
दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः
॥५॥तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् ।
प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान्
॥६॥ततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ।
असृजत्सर्वभूतानि स्थावराणि चराणि च
॥७॥यतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ।
ततस्तद्वदनादेव मया लब्धं तपोबलात्
॥८॥मुनय ऊचुः
किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम् ।
यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति
॥९॥वायुरुवाच
पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ।
तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना
॥१०॥अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्तते ।
ज्ञानं वस्तुपरिच्छेदो वस्तु च द्विविधं स्मृतम्
॥११॥अजडं च जडं चैव नियंतृ च तयोरपि ।
पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात्
॥१२॥अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ।
तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः
॥१३॥अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः ।
क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते
॥१४॥मुनय ऊचुः
किं तदक्षरमित्युक्तं किं च क्षरमुदाहृतम् ।
तयोश्च परमं किं वा तदेतद्ब्रूहि मारुत
॥१५॥वायुरुवाच
प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ।
ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः
॥१६॥मुनय ऊचुः
कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ।
अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः
॥१७॥वायुरुवाच
माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ।
संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः
॥१८॥मुनय ऊचुः
केयं माया समा ख्याता किंरूपो मायया वृतः ।
मूलं कीदृक्कुतो वास्य किं शिवत्वं कुतश्शिवः
॥१९॥वायुरुवाच
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ।
मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः
॥२०॥मुनय ऊचुः
आवृणोति कथं माया व्यापिनं केन हेतुना ।
किमर्थं चावृतिः पुंसः केन वा विनिवर्तते
॥२१॥वायुरुवाच
आवृतिर्व्यपिनो ऽपि स्याद्व्यापि यस्मात्कलाद्यपि ।
हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात्
॥२२॥मुनय ऊचुः
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ।
तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम्
॥२३॥कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम् ।
मलक्षयस्य को हेतुः कीदृक्क्षीणमलः पुमान्
॥२४॥वायुरुवाच
कला विद्या च रागश्च कालो नियतिरेव च ।
कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत्
॥२५॥पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् ।
अनादिमलभोगान्तमज्ञानात्मसमाश्रयम्
॥२६॥भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते ।
बाह्यांतःकरणद्वारं शरीरं भोगसाधनम्
॥२७॥भावातिशयलब्धेन प्रसादेन मलक्षयः ।
क्षीणे चात्ममले तस्मिन् पुमाञ्च्छिवसमो भवेत्
॥२८॥मुनय ऊचुः
कलादिपञ्चतत्त्वानां किं कर्म पृथगुच्यते ।
भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते
॥२९॥किमात्मकं तदव्यक्तं केनाकारेण भुज्यते ।
किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते
॥३०॥वायुरुवाच
दिक्क्रियाव्यंजका विद्या कालो रागः प्रवर्तकः ।
कालो ऽवच्छेदकस्तत्र नियतिस्तु नियामिका
॥३१॥अव्यक्तं कारणं यत्तत्त्रिगुणं प्रभवाप्ययम् ।
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिंतकाः
॥३२॥कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् ।
सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा
॥३३॥सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।
प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः
॥३४॥सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् ।
राजसं तद्विपर्यासात्स्तंभमोहौ तु तामसौ
॥३५॥सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः ।
मध्यमा तु गतिर्या सा राजसी परिपठ्यते
॥३६॥तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ।
ज्ञानेंद्रियाणि पञ्चैक्यं पञ्च कर्मेन्द्रियाणि च
॥३७॥प्रधानबुद्ध्यहंकारमनांसि च चतुष्टयम् ।
समासादेवमव्यक्तं सविकारमुदाहृतम्
॥३८॥तत्कारणदशापन्नमव्यक्तमिति कथ्यते ।
व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत्
॥३९॥यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते ।
शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते
॥४०॥तस्मादव्यक्तमेवैक्यकारणं करणानि च ।
शरीरं च तदाधारं तद्भोग्यं चापि नेतरत्
॥४१॥मुनय ऊचुः
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ।
आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः
॥४२॥वायुरुवाच
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् ।
अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः
॥४३॥बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ।
स्मृतेरनियतज्ञानादयावद्देहवेदनात्
॥४४॥अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ।
अन्तर्यामीति वेदेषु वेदांतेषु च गीयते
॥४५॥सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः ।
तथापि क्वापि केनापि व्यक्तमेष न दृश्यते
॥४६॥नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि ।
मनसैव प्रदीप्तेन महानात्मावसीयते १
॥४७॥न च स्त्री न पुमानेष नैव चापि नपुंसकः ।
नैवोर्ध्वं नापि तिर्यक्नाधस्तान्न कुतश्चन
॥४८॥अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् ।
सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात्
॥४९॥किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् ।
अपृथग्ये तु पश्यंति ह्यसम्यक्तेषु दर्शनम्
॥५०॥यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ।
अशुद्धमवशं दुःखमध्रुवं न च विद्यते
॥५१॥विपदां वीजभूतेन पुरुषस्तेन संयुतः ।
सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा
॥५२॥अद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा ।
आज्ञानात्प्लावितं कर्म देहं जनयते तथा
॥५३॥अत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः ।
अनागता अतीताश्च तनवो ऽस्य सहस्रशः
॥५४॥आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ।
अत्यंतवसतिः क्वापि न केनापि च लभ्यते
॥५५॥छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ।
चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः
॥५६॥अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ।
अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते
॥५७॥नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ।
पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः
॥५८॥यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः
॥५९॥स पश्यति शरीरं तच्छरीरं तन्न पश्यति ।
तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः
॥६०॥ब्रह्माद्याः स्थावरांतश्च पशवः परिकीर्तिताः ।
पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम्
॥६१॥स एष बध्यते पाशैः सुखदुःखाशनः पशुः ।
लीलासाधनभूतो य ईश्वरस्येति सूरयः
॥६२॥अज्ञो जंतुरनीशो ऽयमात्मनस्सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा
॥६३॥सूत उवाच
इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः ।
प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम्
॥६४॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पञ्चमो ऽध्यायः