मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय ६

3
वायवीयसंहिता · पूर्वभागः · 6

शिवतत्त्ववर्णनम्

मुनय ऊचुः

यो ऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ।

आभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः

॥१॥

वायुरुवाच

अस्ति कश्चिदपर्यंतरमणीयगुणाश्रयः ।

पतिर्विश्वस्य निर्माता पशुपाशविमोचनः

॥२॥

अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ।

अचेतनत्वादज्ञानादनयोः पशुपाशयोः

॥३॥

प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ।

तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना

॥४॥

जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ।

तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः

॥५॥

पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ।

अयथाकरणज्ञानमंधस्य गमनं यथा

॥६॥

आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ।

असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते

॥७॥

पशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ।

ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति

॥८॥

संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ।

व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः

॥९॥

भोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम् ।

नातः परं विजानद्भिर्वेदितव्यं हि किंचनः

॥१०॥

तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् ।

यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः

॥११॥

एवमेव महात्मानमात्मन्यात्मविलक्षणम् ।

सत्येन तपसा चैव नित्ययुक्तो ऽनुपश्यति

॥१२॥

य एको जालवानीश ईशानीभिस्स्वशक्तिभिः ।

सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते १

॥१३॥

एक एव तदा रुद्रो न द्वितीयो ऽस्ति कश्चन ।

संसृज्य विश्वभुवनं गोप्ता ते संचुकोच यः

॥१४॥

विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः ।

तथैव विश्वतोबाहुविश्वतः पादसंयुतः

॥१५॥

द्यावाभूमी च जनयन् देव एको महेश्वरः ।

स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा

॥१६॥

हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ।

विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः

॥१७॥

वेदाहमेतं पुरुषं महांतममृतं ध्रुवम् ।

आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम्

॥१८॥

अस्मान्नास्ति परं किंचिदपरं परमात्मनः ।

नाणीयो ऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत्

॥१९॥

सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।

सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः

॥२०॥

सर्वतः पाणिपादो ऽयं सर्वतो ऽक्षिशिरोमुखः ।

सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति

॥२१॥

सर्वेन्द्रियगुणाभासस्सर्वेन्द्रियविवर्जितः ।

सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत्

॥२२॥

अचक्षुरपि यः पश्यत्यकर्णो ऽपि शृणोति यः ।

सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम्

॥२३॥

अणोरणीयान्महतो महीयानयमव्ययः ।

गुहायां निहितश्चापि जंतोरस्य महेश्वरः

॥२४॥

तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् ।

धातुः प्रसादादीशानं वीतशोकः प्रपश्यति

॥२५॥

वेदाहमेनमजरं पुराणं सर्वगं विभुम् ।

निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः

॥२६॥

एको ऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ।

विदधाति विचेत्यंते १ विश्वमादौ महेश्वरः

॥२७॥

विश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा ।

तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम्

॥२८॥

जनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् ।

तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च

॥२९॥

द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ।

एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति

॥३०॥

वृक्षेस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति ।

जुष्टमन्यं यदा पश्येदीशं परमकारणम्

॥३१॥

तदास्य महिमानं च वीतशोकस्सुखी भवेत् ।

छंदांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च

॥३२॥

मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः ।

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्

॥३३॥

तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् ।

सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः

॥३४॥

स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु ।

शिवमेवेश्वरं ज्ञात्वा शांतिमत्यंतमृच्छति

॥३५॥

स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः ।

तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते

॥३६॥

घृतात्परं मंडमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् ।

सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते

॥३७॥

एष एव परो देवो विश्वकर्मा महेश्वरः ।

हृदये संनिविष्टं तं ज्ञात्वैवामृतमश्नुते

॥३८॥

यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् ।

केवलश्शिव एवैको यतः प्रज्ञा पुरातनी

॥३९॥

नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् ।

न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः

॥४०॥

अजातमिममेवैके बुद्धा जन्मनि भीरवः ।

रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम्

॥४१॥

द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते ।

विद्याविद्ये समाख्याते निहिते यत्र गूढवत्

॥४२॥

क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ।

ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः

॥४३॥

एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ।

सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान्

॥४४॥

दिश ऊर्ध्वमधस्तिर्यक्भासयन् भ्राजते स्वयम् ।

यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति

॥४५॥

स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् ।

गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति

॥४६॥

ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ।

ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः

॥४७॥

भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ।

कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम्

॥४८॥

स्वभावमेके मन्यंते कालमेके विमोहिताः ।

देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत्

॥४९॥

येनेदमावृतं नित्यं कालकालात्मना यतः ।

तेनेरितमिदं कर्म भूतैः सह विवर्तते

॥५०॥

तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः ।

तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै

॥५१॥

अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः ।

कालेनात्मगुणैश्चापि कृत्स्नमेव जगत्स्वयम्

॥५२॥

गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् ।

तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः

॥५३॥

कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः ।

स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः

॥५४॥

परस्त्रिकालादकलस्स एव परमेश्वरः ।

सर्ववित्त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः

॥५५॥

तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् ।

देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे

॥५६॥

कालादिभिः परो यस्मात्प्रपञ्चः परिवर्तते ।

धर्मावहं पापनुदं भोगेशं विश्वधाम च

॥५७॥

तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ।

पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम्

॥५८॥

न तस्य विद्येत कार्यं कारणं च न विद्यते ।

न तत्समो ऽधिकश्चापि क्वचिज्जगति दृश्यते

॥५९॥

परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ।

ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम्

॥६०॥

तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता ।

कारणं कारणानां च स तेषामधिपाधिपः

॥६१॥

न चास्य जनिता कश्चिन्न च जन्म कुतश्चन ।

न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः

॥६२॥

स एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ।

सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते

॥६३॥

सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ।

एको वशी निष्क्रियाणां बहूनां विवशात्मनाम्

॥६४॥

नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ।

एको बहूनां चाकामः कामानीशः प्रयच्छति

॥६५॥

सांख्ययोगाधिगम्यं यत्कारणं जगतां पतिम् ।

ज्ञात्वा देवं पशुः पाशैस्सर्वैरेव विमुच्यते

॥६६॥

विश्वकृद्विश्ववित्स्वात्मयोनिज्ञः कालकृद्गुणी ।

प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः

॥६७॥

ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ।

यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः

॥६८॥

मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् ।

निष्फलं निष्क्रियं शांतं निरवद्यं निरंजनम्

॥६९॥

अमृतस्य परं सेतुं दग्धेंधनमिवानिलम् ।

यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः

॥७०॥

तदा शिवमविज्ञाय दुःखस्यांतो भविष्यति

॥७१॥

तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः ।

अत्याश्रमोचितज्ञानं पवित्रं पापनाशनम्

॥७२॥

वेदांते परमं गुह्यं पुराकल्पप्रचोदितम् ।

ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात्

॥७३॥

नाप्रशांताय दातव्यमेतज्ज्ञानमनुत्तमम् ।

न पुत्रायाशुवृत्ताय नाशिष्याय च सर्वथा

॥७४॥

यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ।

तस्यैते कथिताह्यर्थाः प्रकाशंते महात्मनः

॥७५॥

अतश्च संक्षेपमिदं शृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः ।

स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति

॥७६॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः