कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा
ऋषय ऊचुः
कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा ।
कथं ददर्श भर्तारं प्रविष्टा मन्दितं सती
॥१॥प्रवेशसमये तस्या भवनद्वारगोचरैः ।
गणेशैः किं कृतं देवस्तान्दृष्ट्वा किन्तदा ऽकरोत्
॥२॥वायुरुवाच
प्रवक्तुमंजसा ऽशक्यः तादृशः परमो रसः ।
येन प्रणयगर्भेण भावो भाववतां हृतः
॥३॥द्वास्थैस्ससंभ्रमैरेव देवो देव्यागमोत्सुकः ।
शंकमाना प्रविष्टान्तस्तञ्च सा समपश्यत
॥४॥तैस्तैः प्रणयभावैश्च भवनान्तरवर्तिभिः ।
गणेन्द्रैर्वन्दिता वाचा प्रणनाम त्रियम्बकम्
॥५॥प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः ।
प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा
॥६॥स्वांके धर्तुं प्रवृत्तो ऽपि सा पर्यंके न्यषीदत ।
पर्यंकतो बलाद्देवीं सोङ्कमारोप्य सुस्मिताम्
॥७॥सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव ।
तया संभाषणायेशः पूर्वभाषितमब्रवीत्
॥८॥देवदेव उवाच
सा दशा च व्यतीता किं तव सर्वांगसुन्दरि ।
यस्यामनुनयोपायः को ऽपि कोपान्न लभ्यते
॥९॥स्वेच्छयापि न कालीति नान्यवर्णवतीति च ।
त्वत्स्वभावाहृतं चित्तं सुभ्रु चिंतावहं मम
॥१०॥विस्मृतः परमो भावः कथं स्वेच्छांगयोगतः ।
न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः
॥११॥पृथग्जनवदन्योन्यं विप्रियस्यापि कारणम् ।
आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम्
॥१२॥अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता ।
अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम्
॥१३॥जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः ।
आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत्
॥१४॥अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् ।
वागर्थमिव मे वैतज्जगत्स्थावरजंगमम्
॥१५॥त्वं हि वागमृतं साक्षादहमर्थामृतं परम् ।
द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते
॥१६॥विद्याप्रत्यायिका त्वं मे वेद्यो ऽहं प्रत्ययात्तव ।
विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः
॥१७॥न कर्मणा सृजामीदं जगत्प्रतिसृजामि च ।
सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी
॥१८॥आज्ञैकसारमैश्वर्यं यस्मात्स्वातंत्र्यलक्षणम् ।
आज्ञया विप्रयुक्तस्य चैश्वर्यं मम कीदृशम्
॥१९॥न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः ।
देवानां कार्यमुद्दिश्य लीलोक्तिं कृतवानहम्
॥२०॥त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि ।
ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः
॥२१॥यदनर्थाय भूतानां न तदस्ति खलु त्वयि ।
इति प्रियंवदे साक्षादीश्वरे परमेश्वरे
॥२२॥शृंगारभावसाराणां जन्मभूमिरकृत्रिमा ।
स्वभर्त्रा ललितन्तथ्यमुक्तं मत्वा स्मितोत्तरम्
॥२३॥लज्जया न किमप्यूचे कौशिकी वर्णनात्परम् ।
तदेव वर्णयाम्यद्य शृणु देव्याश्च वर्णनम्
॥२४॥देव्युवाच किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया ।
तादृशी कन्यका लोके न भूता न भविष्यति
॥२५॥तस्या वीर्यं बलं विन्ध्यनिलयं विजयं तथा ।
शुंभस्य च निशुंभस्य मारणे च रणे तयोः
॥२६॥प्रत्यक्षफलदानं च लोकाय भजते सदा ।
लोकानां रक्षणं शश्वद्ब्रह्मा विज्ञापयिष्यति
॥२७॥इति संभाषमाणाया देव्या एवाज्ञया तदा ।
व्याघ्रः सख्या समानीय पुरो ऽवस्थापितस्तदा
॥२८॥तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम् ।
व्याघ्रं पश्य न चानेन सदृशो मदुपासकः
॥२९॥अनेन दुष्टसंघेभ्यो रक्षितं मत्तपोवनम् ।
अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात्
॥३०॥स्वदेशं च परित्यज्य प्रसादार्थं समागतः ।
यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे
॥३१॥नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम् ।
रक्षिभिस्सह तच्चिह्नैर्वर्ततामयमीश्वर
॥३२॥वायुरुवाच
मधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः ।
प्रीतो ऽस्मीत्याह तं देवस्स चादृश्यत तत्क्षणात्
॥३३॥बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कंचुकम् ।
छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक्
॥३४॥यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः ।
सोमनन्दीति विख्यातस्तस्मादेष समाख्यया
॥३५॥इत्थं देव्याः प्रियं कृत्वा देवश्चर्धेन्दुभूषणः ।
भूषयामास तन्दिव्यैर्भूषणै रत्नभूषितैः
॥३६॥ततस्स गौरीं गिरिशो गिरीन्द्रजां सगौरवां सर्वमनोहरां हरः ।
पर्यंकमारोप्य वरांगभूषणैर्विभूषयामास शशांकभूषणः
॥३७॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सप्तविंशो ऽध्यायः