मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय १६

3
वायवीयसंहिता · पूर्वभागः · 16

देवीशक्त्युद्भवः

वायुरुवाच

अथ देवो महादेवो महाजलदनादया ।

वाचा मधुरगंभीरशिवदश्लक्ष्णवर्णया

॥१॥

अर्थसंपन्नपदया राजलक्षणयुक्तया ।

अशेषविषयारंभरक्षाविमलदक्षया

॥२॥

मनोहरतरोदारमधुरस्मितपूर्वया ।

संबभाषे सुसंपीतो विश्वकर्माणमीश्वरः

॥३॥

ईश्वर उवाच

वत्स वत्स महाभाग मम पुत्र पितामह ।

ज्ञातमेव मया सर्वं तव वाक्यस्य गौरवम्

॥४॥

प्रजानामेव बृद्ध्यर्थं तपस्तप्तं त्वयाधुना ।

तपसा ऽनेन तुष्टोस्मि ददामि च तवेप्सितम्

॥५॥

इत्युक्त्वा परमोदारं स्वभावमधुरं वचः ।

ससर्ज वपुषो भागाद्देवीं देववरो हरः

॥६॥

यामाहुर्ब्रह्मविद्वांसो देवीं दिव्यगुणान्विताम् ।

परस्य परमां शक्तिं भवस्य परमात्मनः

॥७॥

यस्यां न खलु विद्यंते जन्म मृत्युजरादयः ।

या भवानी भवस्यांगात्समाविरभवत्किल

॥८॥

यस्या वाचो निवर्तन्ते मनसा चेंद्रियैः सह ।

सा भर्तुर्वपुषो भागाज्जातेव समदृश्यत

॥९॥

या सा जगदिदं कृत्स्नं महिम्ना व्याप्य तिष्ठति ।

शरीरिणीव स देवी विचित्रं समलक्ष्यत

॥१०॥

सर्वं जगदिदं चैषा संमोहयति मायया ।

ईश्वरात्सैव जाताभूदजाता परमार्थतः

॥११॥

न यस्या परमो भावः सुराणामपि गोचरः ।

विश्वामरेश्वरी चैव विभक्ता भर्तुरंगतः

॥१२॥

तां दृष्ट्वा परमेशानीं सर्वलोकमहेश्वरीम् ।

सर्वज्ञां सर्वगां सूक्ष्मां सदसद्व्यक्तिवर्जिताम्

॥१३॥

परमां निखिलं भासा भासयन्तीमिदं जगत् ।

प्रणिपत्य महादेवीं प्रार्थयामास वै विराट्

॥१४॥

ब्रह्मोवाच देवि देवेन सृष्टो ऽहमादौ सर्वजगन्मयि ।

प्रजासर्गे नियुक्तश्च सृजामि सकलं जगत्

॥१५॥

मनसा निर्मिताः सर्वे देवि देवादयो मया ।

न वृद्धिमुपगच्छन्ति सृज्यमानाः पुनः पुनः

॥१६॥

मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ।

संवर्धयितुमिच्छामि सर्वा एव मम प्रजाः

॥१७॥

न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ।

तेन नारीकुलं स्रष्टुं शक्तिर्मम न विद्यते

॥१८॥

सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ।

तस्मात्सर्वत्र सर्वेषां सर्वशक्तिप्रदायिनीम्

॥१९॥

त्वामेव वरदां मायां प्रार्थयामि सुरेश्वरीम् ।

चराचरविवृद्ध्यर्थमंशेनैकेन सर्वगे

॥२०॥

दक्षस्य मम पुत्रस्य पुत्री भव भवार्दिनि ।

एवं सा याचिता देवी ब्रह्मणा ब्रह्मयोनिना

॥२१॥

शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् ।

तामाह प्रहसन्प्रेक्ष्य देवदेववरो हरः

॥२२॥

ब्रह्माणं तपसाराध्य कुरु तस्य यथेप्सितम् ।

तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा

॥२३॥

ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत् ।

दत्त्वैवमतुलां शक्तिं ब्रह्मणे ब्रह्मरूपिणीम्

॥२४॥

विवेश देहं देवस्य देवश्चांतरधीयत ।

तदा प्रभृति लोके ऽस्मिन् स्त्रियां भोगः प्रतिष्ठितः

॥२५॥

प्रजासृष्टिश्च विप्रेंद्रा मैथुनेन प्रवर्तते ।

ब्रह्मापि प्राप सानन्दं सन्तोषं मुनिपुंगवाः

॥२६॥

एतद्वस्सर्वमाख्यातं देव्याः शक्तिसमुद्भवम् ।

पुण्यवृद्धिकरं श्राव्यं भूतसर्गानुपंगतः

॥२७॥

य इदं कीर्तयेन्नित्यं देव्याः शक्तिसमुद्भवम् ।

पुण्यं सर्वमवाप्नोति पुत्रांश्च लभते शुभान्

॥२८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीशक्त्युद्भवो नाम षोडशो ऽध्यायः