सृष्टिपालनप्रलयकर्तृत्ववर्णनम्
मुनय ऊचुः
कथं जगदिदं कृत्स्नं विधाय च निधाय च ।
आज्ञया परमां क्रीडां करोति परमेश्वरः
॥१॥किं तत्प्रथमसंभूतं केनेदमखिलं ततम् ।
केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा
॥२॥वायुरुवाच
शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ।
ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः
॥३॥शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ।
ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः
॥४॥निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ।
एवमुक्ता समासेन सृष्टिरीश्वरचोदिता
॥५॥आनुलोम्यात्तथैतेषां प्रतिलोम्येन संहृतिः ।
अस्मात्पञ्चपदोद्दिष्टात्परस्स्रष्टा समिष्यते
॥६॥कलाभिः पञ्चभिर्व्याप्तं तस्माद्विश्वमिदं जगत् ।
अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम्
॥७॥महदादिविशेषांतं सृजतीत्यपि संमतम् ।
किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः
॥८॥अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ।
प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम्
॥९॥तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ।
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः
॥१०॥तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् ।
अनादिनिधनश्चायं महदैश्वर्यसंयुतः
॥११॥स एव जगतः कर्ता महादेवो महेश्वराः ।
पाता हर्ता च सर्वस्य ततः पृथगनन्वयः
॥१२॥परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च ।
सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते
॥१३॥इतीयं शाश्वती निष्ठा सतां मनसि वर्तते ।
न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः
॥१४॥यावदादिसमारंभो यावद्यः प्रलयो महान् ।
तावदप्येति सकलं ब्रह्मणः शारदां शतम्
॥१५॥परमित्यायुषो नाम ब्रह्मणो ऽव्यक्तजन्मनः ।
तत्पराख्यं तदर्धं च परार्धमभिधीयते
॥१६॥परार्धद्वयकालांते प्रलये समुपस्थिते ।
अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति
॥१७॥आत्मन्यवस्थिते ऽव्यक्ते विकारे प्रतिसंहृते ।
साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ
॥१८॥तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ ।
अनुद्रिक्तावनन्तौ तावोतप्रोतौ परस्परम्
॥१९॥गुणसाम्ये तदा तस्मिन्नविभागे तमोदये ।
शांतवातैकनीरे च न प्राज्ञायत किंचन
॥२०॥अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः ।
उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः
॥२१॥प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ ।
प्रविश्य क्षोभयामास मायायोगान्महेश्वरः
॥२२॥ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् ।
अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः
॥२३॥विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः ।
आत्मानमध्वपतिमध्वविदो वदंति तस्मै नमः सकललोकविलक्षणाय
॥२४॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमोऽध्यायः