सृष्टिवर्णनम्
वायुरुवाच
सर्गं चिंतयतस्तस्य तदा वै बुद्धिपूर्वकम् ।
प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः
॥१॥तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ।
अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः
॥२॥पञ्चधा ऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः ।
सर्वतस्तमसातीव बीजकुम्भवदावृतः
॥३॥बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ।
तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च
॥४॥तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ।
तं दृष्ट्वाऽसाधकं ब्रह्मा प्रथमं सर्गमीदृशम्
॥५॥अप्रसन्नमना भूत्वा द्वितीयं सो ऽभ्यमन्यत ।
तस्याभिधायतः सर्गं तिर्यक्स्रोतो ऽभ्यवर्तत
॥६॥अन्तःप्रकाशास्तिर्यंच आवृताश्च बहिः पुनः ।
पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते
॥७॥तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत ।
तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः
॥८॥ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ।
प्रकाशा बहिरन्तश्चस्वभावादेव संज्ञिताः
॥९॥ततो ऽभिध्यायतोव्यक्तादर्वाक्स्रोतस्तु साधकः ।
मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः
॥१०॥प्रकाशाबहिरन्तस्ते तमोद्रिक्ता रजो ऽधिकाः ।
पञ्चमोनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः
॥११॥विपर्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च ।
ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः
॥१२॥खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ।
प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः
॥१३॥तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ।
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः
॥१४॥इत्येष प्रकृतेः सर्गः सम्भृतो ऽबुद्धिपूर्वकः
॥१५॥मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।
तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ।
तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः
॥१६॥ततो ऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ।
अष्टमो ऽनुग्रहः सर्गः कौमारो नवमः स्मृतः
॥१७॥प्राकृताश्च त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः ।
बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्याः पञ्च वैकृताः
॥१८॥अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ।
सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम्
॥१९॥ऋभुं सनत्कुमारञ्च पूर्वमेव प्रजापतिः ।
सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः
॥२०॥ईश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् ।
तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु
॥२१॥स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः ।
तस्यैवं तप्यमानस्य न किंचित्समवर्तत
॥२२॥ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ।
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः
॥२३॥ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ।
सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिंदत
॥२४॥तस्य तीव्रा ऽभवन्मूर्छा क्रोधामर्षसमुद्भवा ।
मूर्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः
॥२५॥ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ।
प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात्
॥२६॥दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ।
ते तेनोक्ता महात्मानो दशधा चैकधा कृताः
॥२७॥यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ।
तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च
॥२८॥प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ।
एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः
॥२९॥रोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ।
ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः
॥३०॥ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः ।
घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः
॥३१॥प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः ।
अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः
॥३२॥माभैर्माभैर्महाभाग विरिंच जगतां गुरो ।
मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत
॥३३॥स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् ।
हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः
॥३४॥तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा ।
उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः
॥३५॥त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः ।
को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः
॥३६॥तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ।
स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः
॥३७॥मां विद्धि परमात्मानं तव पुत्रत्वमागतम् ।
एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः
॥३८॥तस्मात्तीव्रामिमाम्मूर्छां विधूय मदनुग्रहात् ।
प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि
॥३९॥एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् ।
नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम्
॥४०॥ब्रह्मोवाच नमस्ते भगवन् रुद्र भास्करामिततेजसे ।
नमो भवाय देवाय रसायाम्बुमयात्मने ।
शर्वाय क्षितिरूपाय नन्दीसुरभये नमः
॥४१॥ईशाय वसवे तुभ्यं नमस्स्पर्शमयात्मने ।
पशूनां पतये चैव पावकायातितेजसे ।
भीमाय व्योमरूपाय शब्दमात्राय ते नमः
॥४२॥उग्रायोग्रस्वरूपाय यजमानात्मने नमः ।
महादेवाय सोमाय नमोस्त्वमृतमूर्तये
॥४३॥एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः ।
प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया
॥४४॥भगवन् भूतभव्येश मम पुत्र महेश्वर ।
सृष्टिहेतोस्त्वमुत्पन्नो ममांगे ऽनंगनाशनः
॥४५॥तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो ।
सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः
॥४६॥तेनैषां पावितो देवो रुद्रस्त्रिपुरमर्दनः ।
बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः
॥४७॥ततस्स भगवान् ब्रह्मा हृष्टं तमभिनंद्य च ।
स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः
॥४८॥मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ।
पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च
॥४९॥इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः ।
सह रुद्रेण संभूताः पुराणा गृहमेधिनः
॥५०॥तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः ।
प्रजावन्तः क्रियावन्तो महर्षिभिरलंकृताः
॥५१॥अथ देवासुरपित्ःन्मनुष्यांश्च चतुष्टयम् ।
सह रुद्रेण सिसृक्षुरंभस्येतानि वै विधिः
॥५२॥स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् ।
मुखादजनयद्देवान् पित्ःंश्चैवोपपक्षतः
॥५३॥जघनादसुरान् सर्वान् प्रजनादपि मानुषान् ।
अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे
॥५४॥पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः ।
सर्पा यक्षास्तथा भूता गंधर्वाः संप्रजज्ञिरे
॥५५॥वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसो ऽसृजत् ।
मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे
॥५६॥पद्भ्यां चाश्वान्समातंगान् शरभान् गवयान्मृगान् ।
उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः १
॥५७॥औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे ।
गायत्रीं च ऋचं चैव त्रिवृत्साम रथंतरम्
॥५८॥अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ।
यजूंषि त्रैष्टुभं छंदःस्तोमं पञ्चदशं तथा
॥५९॥बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ।
सामानि जगतीछंदः स्तोमं सप्तदशं तथा
॥६०॥वैरूप्यमतिरात्रं च पश्चिमादसृजन्मुखात् ।
एकविंशमथर्वाणमाप्तोर्यामाणमेव च
॥६१॥अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ।
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे
॥६२॥यक्षाः पिशाचा गंधर्वास्तथैवाप्सरसां गणाः ।
नरकिन्नररक्षांसि वयःपशुमृगोरगाः
॥६३॥अव्ययं चैव यदिदं स्थाणुस्थावरजंगमम् ।
तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे
॥६४॥तान्येव ते प्रपद्यंते सृज्यमानाः पुनः पुनः ।
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते
॥६५॥तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ।
महाभूतेषु नानात्वमिंद्रियार्थेषु मुक्तिषु
॥६६॥विनियोगं च भूतानां धातैव व्यदधत्स्वयम् ।
नाम रूपं च भूतानां प्राकृतानां प्रपञ्चनम्
॥६७॥वेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः ।
आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः
॥६८॥शर्वर्यंते प्रसूतानां तान्येवैभ्यो ददावजः ।
यथर्तावृतुलिंगानि नानारूपाणि पर्यये
॥६९॥दृश्यंते तानि तान्येव तथा भावा युगादिषु ।
इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः
॥७०॥महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम् ।
चंद्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः
॥७१॥नदीभिश्च समुद्रैश्च पर्वतैश्च स मंडितः ।
परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा
॥७२॥तस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् ।
अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः
॥७३॥बुद्धिस्कंधमहाशाख इन्द्रियांतरकोटरः ।
महाभूतप्रमाणश्च विशेषामलपल्लवः
॥७४॥धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ।
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः
॥७५॥द्यां मूर्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे ।
दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता
॥७६॥वक्त्रात्तस्य ब्रह्मणास्संप्रसूतास्तद्वक्षसः क्षत्रियाः पूर्वभागात् ।
वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः
॥७७॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशो ऽध्यायः