मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय ४

3
वायवीयसंहिता · पूर्वभागः · 4

वायुसमागमः

सूत उवाच

तस्मिन्देशे महाभागा मुनयश्शंसितव्रताः ।

अर्चयंतो महादेवं सत्रमारेभिरे तदा

॥१॥

तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् १ ।

विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव

॥२॥

अथ काले गते सत्रे समाप्ते भूरिदक्षिणे ।

पितामहनियोगेन वायुस्तत्रागमत्स्वयम्

॥३॥

शिष्यस्स्वयंभुवो देवस्सर्वप्रत्यक्षदृग्वशी ।

आज्ञायां मरुतो यस्य संस्थितास्सप्तसप्तकाः

॥४॥

प्रेरयञ्छश्वदंगानि प्राणाद्याभिः स्ववृत्तिभिः ।

सर्वभूतशरीराणां कुरुते यश्च धारणम्

॥५॥

अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः ।

तिर्यक्कालादिभिर्मेध्यैर्भुवनानि बिभर्ति यः

॥६॥

आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् ।

तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिंतकाः

॥७॥

तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः ।

पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः

॥८॥

अभ्युत्थाय ततस्सर्वे प्रणम्यांबरसंभवम् ।

चामीकरमयं तस्मै विष्टरं समकल्पयन्

॥९॥

सोपि तत्र समासीनो मुनिभिस्सम्यगर्चितः ।

प्रतिनंद्य च तान् सर्वान् पप्रच्छ कुशलं ततः

॥१०॥

वायुरुवाच

अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ।

कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः

॥११॥

प्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत ।

स्तोत्रशस्त्रगृहैर्देवान् पित्ःन् पित्र्यैश्च कर्मभिः

॥१२॥

कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ।

निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम्

॥१३॥

इत्युक्ता मुनयः सर्वे वायुना शिवभाविना ।

प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः

॥१४॥

मुनय ऊचुः

अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ।

अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः

॥१५॥

शृणु चेदं पुरावृत्तं तमसाक्रांतमानसैः ।

उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः

॥१६॥

सोप्यस्माननुगृह्याह शरण्यश्शरणागतान् ।

सर्वस्मादधिको रुद्रो विप्राः परमकारणम्

॥१७॥

तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति ।

भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः

॥१८॥

तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः ।

यजध्वं दीर्घसत्रेण रुद्रं परमकारणम्

॥१९॥

तत्प्रसादेन सत्रांते वायुस्तत्रागमिष्यति ।

तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति

॥२०॥

इत्यादिश्य वयं सर्वे प्रेषिता परमेष्ठिना ।

अस्मिन्देशे महाभाग तवागमनकांक्षिणः

॥२१॥

दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् ।

अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किंचन

॥२२॥

इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् ।

वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः

॥२३॥

ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये ।

सर्गादि शार्वमैश्वर्यं समासाद वदद्विभुः

॥२४॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वायुसमागमो नाम चतुर्थो ऽध्यायः