मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय ३

3
वायवीयसंहिता · पूर्वभागः · 3

नैमिषोपाख्यानम्

ब्रहमोवाच यतो वाचो निवर्तंते अप्राप्य मनसा सह ।

आनंदं यस्य वै विद्वान्न बिभेति कुतश्चन

॥१॥

यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ।

सह भूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते

॥२॥

कारणानां च यो धाता ध्याता परमकारणम् ।

न संप्रसूयते ऽन्यस्मात्कुतश्चन कदाचन

॥३॥

सर्वैश्वर्येण संपन्नो नाम्ना सर्वेश्वरः स्वयम् ।

सर्वैर्मुमुक्षुभिर्ध्येयश्शंभुराकाशमध्यगः

॥४॥

यो ऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे ।

तत्प्रसादान्मयालब्धं प्राजापत्यमिदं पदम्

॥५॥

ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति ।

येनेदमखिलं पूर्णं पुरुषेण महात्मना

॥६॥

एको बहूनां जंतूनां निष्क्रियाणां च सक्रियः ।

य एको बहुधा बीजं करोति स महेश्वरः

॥७॥

जीवैरेभिरिमांल्लोकान्सर्वानीशो य ईशते १ ।

य एको भागवान्रुद्रो न द्वितीयो ऽस्ति कश्चन

॥८॥

सदा जनानां हृदये संनिविष्टो ऽपि यः परैः ।

अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा

॥९॥

यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि ।

अनन्तशक्तिरेवैको भगवानधितिष्ठति

॥१०॥

न यस्य दिवसो रात्रिर्न समानो न चाधिकः ।

स्वभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि

॥११॥

यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् ।

तावुभावक्षरात्मानावेको देवः स्वयं हरः

॥१२॥

ईशते तदभिध्यानाद्योजनासत्त्वभावनः ।

भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्तते

॥१३॥

यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः ।

यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः

॥१४॥

एको देवो महादेवो विज्ञेयस्तु महेश्वरः ।

न तस्य परमं किंचित्पदं समधिगम्यते

॥१५॥

अयमादिरनाद्यन्तस्स्वभावादेव निर्मलः ।

स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः

॥१६॥

अप्राकृतवपुः श्रीमांल्लक्ष्यलक्षणवर्जितः ।

अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः

॥१७॥

सर्वोपरिकृतावासस्सर्वावासश्च सर्ववित् ।

षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः

॥१८॥

उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ।

अनन्तानन्तसन्दोहमकरंदमधुव्रतः

॥१९॥

अखंडजगदंडानां पिंडीकरणपंडितः ।

औदार्यवीर्यगांभीर्यमाधुर्यमकरालयः

॥२०॥

नैवास्य सदृशं वस्तु नाधिकं चापि किंचन ।

अतुलः सर्वभूतानां राजराजश्च तिष्ठति

॥२१॥

अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् ।

अंतकाले पुनश्चेदं तस्मिन्प्रलयमेष्यते

॥२२॥

अस्य भूतानि वश्यानि अयं सर्वनियोजकः ।

अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित्

॥२३॥

व्रतानि सर्वदानानि तपांसि नियमास्तथा ।

कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः

॥२४॥

हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः ।

तपोभिरुग्रैरद्यापि तस्य दर्शनकांक्षिणः

॥२५॥

अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ।

भक्तैरन्तर्बहिश्चापि पूज्यः संभाष्य एव च

॥२६॥

तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ।

अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः

॥२७॥

ततः परं तु यन्नित्यं ज्ञानमानंदमव्ययम् ।

तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः

॥२८॥

बहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम् ।

शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते

॥२९॥

प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः ।

यथा चांकुरतो बीजं बीजतो वा यथांकुरः

॥३०॥

प्रसादपूर्विका एव पशोस्सर्वत्र सिद्धयः ।

स एव साधनैरन्ते सर्वैरपि च साध्यते

॥३१॥

प्रसादसाधनं धर्मस्स च वेदेन दर्शितः ।

तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः

॥३२॥

साम्यात्प्रसादसंपर्को धर्मस्यातिशयस्ततः ।

धर्मातिशयमासाद्य पशोः पापपरिक्षयः

॥३३॥

एवं प्रक्षीणपापस्य बहुभिर्जन्मभिः क्रमात् ।

सांबे सर्वेश्वरे भक्तिर्ज्ञानपूर्वा प्रजायते

॥३४॥

भावानुगुणमीशस्य प्रसादो व्यतिरिच्यते ।

प्रसादात्कर्मसंत्यागः फलतो न स्वरूपतः

॥३५॥

तस्मात्कर्मफलत्यागाच्छिवधर्मान्वयः शुभः ।

स च गुर्वनपेक्षश्च तदपेक्ष इति द्विधा

॥३६॥

तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः ।

शिवधर्मान्वयस्यास्य शिवज्ञानसमन्वयः

॥३७॥

ज्ञनान्वयवशात्पुंसः संसारे दोषदर्शनम् ।

ततो विषयवैराग्यं वैराग्याद्भावसाधनम्

॥३८॥

भावसिद्ध्युपपन्नस्य ध्याने निष्ठा न कर्मणि ।

ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते

॥३९॥

योगेन तु परा भक्तिः प्रसादस्तदनंतरम् ।

प्रसादान्मुच्यते जंतुर्मुक्तः शिवसमो भवेत्

॥४०॥

अनुग्रहप्रकारस्य क्रमो ऽयमविवक्षितः ।

यादृशी योग्यता पुंसस्तस्य तादृगनुग्रहः

॥४१॥

गर्भस्थो मुच्यते कश्चिज्जायमानस्तथापरः ।

बालो वा तरुणो वाथ वृद्धो वा मुच्यते परः

॥४२॥

तिर्यग्योनिगतः कश्चिन्मुच्यते नारको ऽपरः ।

अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये

॥४३॥

कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते ।

कश्चिदध्वगतस्तस्मिन् स्थित्वास्थित्वा विमुच्यते

॥४४॥

तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ।

ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः

॥४५॥

तस्मादस्य प्रसादार्थं वाङ्मनोदोषवर्जिताः ।

ध्यायंतश्शिवमेवैकं सदारतनयाग्नयः

॥४६॥

तन्निष्ठास्तत्परास्सर्वे तद्युक्तास्तदुपाश्रयाः ।

सर्वक्रियाः प्रकुर्वाणास्तमेव मनसागताः

॥४७॥

दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम् ।

सत्रांते मंत्रयोगेन वायुस्तत्र गमिष्यति

॥४८॥

स एव भवतः श्रेयः सोपायं कथयिष्यति ।

ततो वाराणसी पुण्या पुरी परमशोभना

॥४९॥

गंतव्या यत्र विश्वेशो देव्या सह पिनाकधृक् ।

सदा विहरति श्रीमान् भक्तानुग्रहकारणात्

॥५०॥

तत्राश्चर्यं महद्दृष्ट्वा मत्समीपं गमिष्यथ ।

ततो वः कथयिष्यामि मोक्षोपाय द्विजोत्तमाः

॥५१॥

येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता ।

अनेकजन्मसंसारबंधनिर्मोक्षकारिणी

॥५२॥

एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते ।

यत्रास्य शीर्यते नेमिः स देशस्तपसश्शुभः

॥५३॥

इत्युक्त्वा सूर्यसंकाशं चक्रं दृष्ट्वा मनोमयम् ।

प्रणिपत्य महादेवं विससर्ज पितामहः

॥५४॥

ते ऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् ।

प्रययुस्तस्य चक्रस्य यत्र नेमिरशीर्यत

॥५५॥

चक्रं तदपि संक्षिप्तं श्लक्ष्णं चारुशिलातले ।

विमलस्वादुपानीये निजपात वने क्वचित्

॥५६॥

तद्वनं तेन विख्यातं नैमिषं मुनिपूजितम् ।

अनेकयक्षगंधर्वविद्याधरसमाकुलम्

॥५७॥

अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः ।

विलासवशमुर्वश्या यातो दैवेन चोदितः

॥५८॥

अक्रमेण हरन्मोहाद्यज्ञवाटं हिरण्मयम् ।

मुनिभिर्यत्र संक्रुद्धैः कुशवज्रैर्निपातितः

॥५९॥

विश्वं सिसृक्षमाणा वै यत्र विश्वसृजः पुरा ।

सत्रमारेभिरे दिव्यं ब्रह्मज्ञा गार्हपत्यगाः

॥६०॥

ऋषिभिर्यत्र विद्वद्भिः शब्दार्थन्यायकोविदैः ।

शक्तिप्रज्ञाक्रियायोगैर्विधिरासीदनुष्ठितः

॥६१॥

यत्र वेदविदो नित्यं वेदवादबहिष्कृतान् ।

वादजल्पबलैर्घ्नंति वचोभिरतिवादिनः

॥६२॥

स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः प्रसरदमृतकल्पस्स्वच्छपानीयरम्यम् ।

अतिरसफलवृक्षप्रायमव्यालसत्त्वं तपस उचितमासीन्नैमिषं तन्मुनीनाम्

॥६३॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं नाम तृतीयो ऽध्यायः