शिवतत्त्वप्रश्नः
ऋषय ऊचुः
चरितानि विचित्राणि गृह्याणि गहनानि च ।
दुर्विज्ञेयानि देवैश्च मोहयंति मनांसि नः
॥१॥शिवयोस्तत्त्वसम्बन्धे न दोष उपलभ्यते ।
चरितैः प्राकृतो भावस्तयोरपि विभाव्यते
॥२॥ब्रह्मादयो ऽपि लोकानां सृष्टिस्थित्यन्तहेतवः ।
निग्रहानुग्रहौ प्राप्य शिवस्य वशवर्तिनः
॥३॥शिवः पुनर्न कस्यापि निग्रहानुग्रहास्पदम् ।
अतो ऽनायत्तमैश्वर्यं तस्यैवेति विनिश्चितम्
॥४॥यद्येवमीदृशैश्वर्यं तत्तु स्वातन्त्र्यलक्षणम् ।
स्वभावसिद्धं चैतस्य मूर्तिमत्तास्पदं भवेत्
॥५॥न मूर्तिश्च स्वतंत्रस्य घटते मूलहेतुना ।
मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी
॥६॥सर्वत्र परमो भावो ऽपरमश्चान्य उच्यते ।
परमापरमौ भावौ कथमेकत्र संगतौ
॥७॥निष्फलो हि स्वभावो ऽस्य परमः परमात्मनः ।
स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः
॥८॥स्वभावो विपरीतश्चेत्स्वतंत्रः स्वेच्छया यदि ।
न करोति किमीशानो नित्यानित्यविपर्ययम्
॥९॥मूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः ।
शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते
॥१०॥मूर्त्यात्मैव तदा मूर्तिः शिवस्यास्य भवेदिति ।
तस्य मूर्तौ मूर्तिमतोः पारतंत्र्यं हि निश्चितम्
॥११॥अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम् ।
मूर्तिस्वीकरणं तस्मान्मूर्तौ साध्यफलेप्सया
॥१२॥न हि स्वेच्छाशरीरत्वं स्वातंत्र्यायोपपद्यते ।
स्वेच्छैव तादृशी पुंसां यस्मात्कर्मानुसारिणी
॥१३॥स्वीकर्तुं स्वेच्छया देहं हातुं च प्रभवन्त्युत ।
ब्रह्मादयः पिशाचांताः किं ते कर्मातिवर्तिनः
॥१४॥इच्छया देहनिर्माणमिन्द्रजालोपमं विदुः ।
अणिमादिगुणैश्वर्यवशीकारानतिक्रमात्
॥१५॥विश्वरूपं दधद्विष्णुर्दधीचेन महर्षिणा ।
युध्यता समुपालब्धस्तद्रूपं दधता स्वयम्
॥१६॥सर्वस्मादधिकस्यापि शिवस्य परमात्मनः ।
शरीरवत्तयान्यात्मसाधर्म्यं प्रतिभाति नः
॥१७॥सर्वानुग्राहकं प्राहुश्शिवं परमकारणम् ।
स निर्गृह्णाति देवानां सर्वानुग्राहकः कथम्
॥१८॥चिच्छेद बहुशो देवो ब्रह्मणः पञ्चमं शिरः ।
शिवनिन्दां प्रकुर्वंतं पुत्रेति कुमतेर्हठात्
॥१९॥विष्णोरपि नृसिंहस्य रभसा शरभाकृतिः ।
बिभेद पद्भ्यामाक्रम्य हृदयं नखरैः खरैः
॥२०॥देवस्त्रीषु च देवेषु दक्षस्याध्वरकारणात् ।
वीरेण वीरभद्रेण न हि कश्चिददण्डितः
॥२१॥पुरत्रयं च सस्त्रीकं सदैत्यं सह बालकैः ।
क्षणेनैकेन देवेन नेत्राग्नेरिंधनीकृतम्
॥२२॥प्रजानां रतिहेतुश्च कामो रतिपतिस्स्वयम् ।
क्रोशतामेव देवानां हुतो नेत्रहुताशने
॥२३॥गावश्च कश्चिद्दुग्धौघं स्रवन्त्यो मूर्ध्नि खेचराः ।
सरुषा प्रेक्ष्य देवेन तत्क्षणे भस्मसात्कृतः
॥२४॥जलंधरासुरो दीर्णश्चक्रीकृत्य जलं पदा ।
बद्ध्वानंतेन यो विष्णुं चिक्षेप शतयोजनम्
॥२५॥तमेव जलसंधायी शूलेनैव जघान सः ।
तच्चक्रं तपसा लब्ध्वा लब्धवीर्यो हरिस्सदा
॥२६॥जिघांसतां सुरारीणां कुलं निर्घृणचेतसाम् ।
त्रिशूलेनान्धकस्योरः शिखिनैवोपतापितम्
॥२७॥कण्ठात्कालांगनां सृष्ट्वा दारको ऽपि निपातितः ।
कौशिकीं जनयित्वा तु गौर्यास्त्वक्कोशगोचराम्
॥२८॥शुंभस्सह निशुंभेन प्रापितो मरणं रणे ।
श्रुतं च महदाख्यानं स्कान्दे स्कन्दसमाश्रयम्
॥२९॥वधार्थे तारकाख्यस्य दैत्येन्द्रस्येन्द्रविद्विषः ।
ब्रह्मणाभ्यर्थितो देवो मन्दरान्तःपुरं गतः
॥३०॥विहृत्य सुचिरं देव्या विहारा ऽतिप्रसङ्गतः ।
रसां रसातलं नीतामिव कृत्वाभिधां ततः
॥३१॥देवीं च वंचयंस्तस्यां स्ववीर्यमतिदुर्वहम् ।
अविसृज्य विसृज्याग्नौ हविः पूतमिवामृतम्
॥३२॥गंगादिष्वपि निक्षिप्य वह्निद्वारा तदंशतः ।
तत्समाहृत्य शनकैस्तोकंस्तोकमितस्ततः
॥३३॥स्वाहया कृत्तिकारूपात्स्वभर्त्रा रममाणया ।
सुवर्णीभूतया न्यस्तं मेरौ शरवणे क्वचित्
॥३४॥संदीपयित्वा कालेन तस्य भासा दिशो दश ।
रञ्जयित्वा गिरीन्सर्वान्कांचनीकृत्य मेरुणा
॥३५॥ततश्चिरेण कालेन संजाते तत्र तेजसि ।
कुमारे सुकुमारांगे कुमाराणां निदर्शने
॥३६॥तच्छैशवं स्वरूपं च तस्य दृष्ट्वा मनोहरम् ।
सह देवसुरैर्लोकैर्विस्मिते च विमोहिते
॥३७॥देवो ऽपि स्वयमायातः पुत्रदर्शनलालसः ।
सह देव्यांकमारोप्य ततो ऽस्य स्मेरमाननम्
॥३८॥पीतामृतमिव स्नेहविवशेनान्तरात्मना ।
देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः
॥३९॥स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम् ।
अनुभूय च तत्क्रीडां संभाव्य च परस्परम्
॥४०॥स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम् ।
तवावतारो जगतां हितायेत्यनुशास्य च
॥४१॥स्वयन्देवश्च देवी च न तृप्तिमुपजग्मतुः ।
ततः शक्रेण संधाय बिभ्यता तारकासुरात्
॥४२॥कारयित्वाभिषेकं च सेनापत्ये दिवौकसाम् ।
पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषा
॥४३॥स्वयमंतर्हितेनैव स्कन्दमिन्द्रादिरक्षितम् ।
तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया
॥४४॥छेदितं तारकस्यापि शिरश्शक्रभिया सह ।
स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः
॥४५॥तथा रक्षोधिपः साक्षाद्रावणो बलगर्वितः ।
उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः
॥४६॥तदागो ऽसहमानस्य देवदेवस्य शूलिनः ।
पदांगुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि
॥४७॥बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः ।
त्वरयागत्य देवेन पादांतं गमितोन्तकः
॥४८॥स्ववाहनमविज्ञाय वृषेन्द्रं वडवानलः ।
सगलग्रहमानीतस्ततो ऽस्त्येकोदकं जगत्
॥४९॥अलोकविदितैस्तैस्तैर्वृत्तैरानन्दसुन्दरैः ।
अंगहारस्वसेनेदमसकृच्चालितं जगत्
॥५०॥शान्त एव सदा सर्वमनुगृह्णाति चेच्छिवः ।
सर्वाणि पूरयेदेव कथं शक्तेन मोचयेत्
॥५१॥अनादिकर्म वैचित्र्यमपि नात्र नियामकम् ।
कारणं खलु कर्मापि भवेदीश्वरकारितम्
॥५२॥किमत्र बहुनोक्तेन नास्तिक्यं हेतुकारकम् ।
यथा ह्याशु निवर्तेत तथा कथय मारुत
॥५३॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वप्रश्नो नाम त्रिंशो ऽध्यायः