केन मानेन कालेस्मिन्नायुस्संख्या प्रकल्प्यते
ऋषय ऊचुः
केन मानेन कालेस्मिन्नायुस्संख्या प्रकल्प्यते ।
संख्यारूपस्य कालस्य कः पुनः परमो ऽवधिः
॥१॥वायुरुवाच
आयुषो ऽत्र निमेषाख्यमाद्यमानं प्रचक्षते ।
संख्यारूपस्य कालस्य शांत्त्वतीतकलावधि
॥२॥अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः ।
तादृशानां निमेषाणां काष्ठा दश च पञ्च च
॥३॥काष्ठांस्त्रिंशत्कला नाम कलांस्त्रिंशन्मुहूर्तकः ।
मुहूर्तानामपि त्रिंशदहोरात्रं प्रचक्षते
॥४॥त्रिंशत्संख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः
॥५॥ज्ञेयं पित्र्यमहोरात्रं मासः कृष्णसितात्मकः
॥६॥मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम् ।
लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः
॥७॥एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः ।
दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम्
॥८॥मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः ।
संवत्सरो ऽपि देवानां मासैर्द्वादशभिस्तथा
॥९॥त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि ।
दिव्यस्संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः
॥१०॥दिव्येनैव प्रमाणेन युगसंख्या प्रवर्तते ।
चत्वारि भारते वर्षे युगानि कवयो विदुः
॥११॥पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ।
द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः
॥१२॥चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छतीसंध्या संध्यांशश्च तथाविधः
॥१३॥इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।
एकापायेन वर्तंते सहस्राणि शतानि च
॥१४॥एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् ।
चतुर्युगसहस्रं यत्संकल्प इति कथ्यते
॥१५॥चतुर्युगैकसप्तत्या मनोरंतरमुच्यते ।
कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः
॥१६॥एतेन क्रमयोगेन कल्पमन्वंतराणि च ।
सप्रजानि व्यतीतानि शतशो ऽथ सहस्रशः
॥१७॥अज्ञेयत्वाच्च सर्वेषामसंख्येयतया पुनः ।
शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः
॥१८॥कल्पो नाम दिवा प्रोक्तो ब्रह्मणो ऽव्यक्तजन्मनः ।
कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते
॥१९॥वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम् ।
सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः
॥२०॥सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा ।
कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः
॥२१॥तस्य वै दिवसे यांति चतुर्दश पुरंदराः ।
शतानि मासे चत्वारि विंशत्या सहितानि च
॥२२॥अब्दे पञ्च सहस्राणि चत्वारिंशद्युतानि च ।
चत्वारिंशत्सहस्राणि पञ्च लक्षाणि चायुषि
॥२३॥ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा ।
ईश्वरस्य दिने रुद्रस्सदाख्यस्य तथेश्वरः
॥२४॥साक्षाच्छिवस्य तत्संख्यस्तथा सो ऽपि सदाशिवः ।
चत्वारिंशत्सहस्राणि पञ्चलक्षाणि चायुषि
॥२५॥तस्मिन्साक्षाच्छिवेनैष कालात्मा सम्प्रवर्तते ।
७.१,८.२६*१ यत्तत्सृष्टेस्समाख्यातं कालान्तरमिह द्विजाः ।
७.१,८.२६*१ एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ।
७.१,८.२६*२ रात्रिश्च तावती ज्ञेया परमेशस्य कृत्स्नशः ।
७.१,८.२६*२ अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः ।
अहर्न विद्यते तस्य न रात्रिरिति धारयेत्
॥२७॥एषोपचारः क्रियते लोकानां हितकाम्यया ।
प्रजाः प्रजानां पतयो मूर्तयश्च सुरासुराः
॥२८॥इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ।
तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतः
॥२९॥अहस्तिष्ठंति सर्वाणि पारमेशस्य धीमतः ।
अहरंते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः
॥३०॥यो विश्वात्मा कर्मकालस्वभावाद्यर्थे शक्तिर्यस्य नोल्लंघनीया ।
यस्यैवाज्ञाधीनमेतत्समस्तं नमस्तस्मै महते शंकराय
॥३१॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे कालप्रभावे त्रिदेवायुर्वर्णनं नामाष्टमो ऽध्यायः