मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय ७

3
वायवीयसंहिता · पूर्वभागः · 7

कालमहिमवर्णनम्

मुनय ऊचुः

कालादुत्पद्यते सर्वं कालदेव विपद्यते ।

न कालनिरपेक्षं हि क्वचित्किंचन विद्यते

॥१॥

यदास्यांतर्गतं विश्वं शश्वत्संसारमण्डलम् ।

सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते

॥२॥

ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः ।

यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम्

॥३॥

भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः ।

अतिप्रभुरिति स्वैरं वर्तते ऽतिभयंकरः

॥४॥

क एष भगवान् कालः कस्य वा वशवर्त्ययम् ।

क एवास्य वशे न स्यात्कथयैतद्विचक्षण

॥५॥

वायुरुवाच

कालकाष्ठानिमेषादिकलाकलितविग्रहम् ।

कालात्मेति समाख्यातं तेजो माहेश्वरं परम्

॥६॥

यदलंघ्यमशेषस्य स्थावरस्य चरस्य च ।

नियोगरूपमीशस्य बलं विश्वनियामकम्

॥७॥

तस्यांशांशमयी मुक्तिः कालात्मनि महात्मनि ।

ततो निष्क्रम्य संक्रांता विसृष्टाग्रेरिवायसी

॥८॥

तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः ।

शिवस्य तु वशे कालो न कालस्य वशे शिवः

॥९॥

यतो ऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् ।

महती तेन कालस्य मर्यादा हि दुरत्यया

॥१०॥

कालं प्रज्ञाविशेषेण को ऽतिवर्तितुमर्हति ।

कालेन तु कृतं कर्म न कश्चिदतिवर्तते

॥११॥

एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ।

ते ऽपि नैवातिवर्तंते कालवेलामिवाब्धयः

॥१२॥

ये निगृह्येंद्रियग्रामं जयंति सकलं जगत् ।

न जयंत्यपि ते कालं कालो जयति तानपि

॥१३॥

आयुर्वेदविदो वैद्यास्त्वनुष्ठितरसायनाः ।

न मृत्युमतिवर्तंते कालो हि दुरतिक्रमः

॥१४॥

श्रिया रूपेण शीलेन बलेन च कुलेन च ।

अन्यच्चिंतयते जंतुः कालो ऽन्यत्कुरुते बलात्

॥१५॥

अप्रियैश्च प्रियैश्चैव ह्यचिंतितगमागमैः ।

संयोजयति भूतानि वियोजयति चेश्वरः

॥१६॥

यदैव दुःखितः कश्चित्तदैव सुखितः परः ।

दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता

॥१७॥

यो युवा स भवेद्वृद्धो यो बलीयान्स दुर्बलः ।

यः श्रीमान्सो ऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा

॥१८॥

नाभिजात्यं न वै शीलं न बलं न च नैपुणम् ।

भवेत्कार्याय पर्याप्तं कालश्च ह्यनिरोधकः

॥१९॥

ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ।

ये चानाथाः परान्नादाः कालस्तेषु समक्रियः

॥२०॥

फलंत्यकाले न रसायनानि सम्यक्प्रयुक्तान्यपि चौषधानि ।

तान्येव कालेन समाहृतानि सिद्धिं प्रयांत्याशु सुखं दिशंति

॥२१॥

नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ।

नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित्

॥२२॥

कालेन शीतः प्रतिवाति वातःकालेन वृष्टिर्जलदानुपैति ।

कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति

॥२३॥

कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवंति नित्यम् ।

कालेन सस्यानि लयं प्रयांति कालेन संजीवति जीवलोकः

॥२४॥

इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः ।

कालात्मानमतिक्रम्य कालातीतं स पश्यति

॥२५॥

न यस्य कालो न च बंधमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् ।

विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय

॥२६॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमो ऽध्यायः