मन्वंतराणि सर्वाणि कल्पभेदांश्च सर्वशः
मुनय ऊचुः
मन्वंतराणि सर्वाणि कल्पभेदांश्च सर्वशः ।
तेष्वेवांतरसर्गं च प्रतिसर्गं च नो वद
॥१॥वायुरुवाच
कालसंख्याविवृत्तस्य परार्धो ब्रह्मणस्स्मृतः ।
तावांश्चैवास्य कालोन्यस्तस्यांते प्रतिसृज्यते
॥२॥दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः ।
चतुर्दशमहाभागा मनूनां परिवृत्तयः
॥३॥अनादित्वादनंतत्वादज्ञेयत्वाच्च कृत्स्नशः ।
मन्वंतराणि कल्पाश्च न शक्या वचनात्पृथक्
॥४॥उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम ।
किमिहास्ति फलं तस्मान्न पृथक्वक्तुमुत्सहे
॥५॥य एव खलु कल्पेषु कल्पः संप्रति वर्तते ।
तत्र संक्षिप्य वर्तंते सृष्टयः प्रतिसृष्टयः
॥६॥यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः ।
अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश
॥७॥स्वायंभुवादयस्सप्त सप्त सावर्णिकादयः ।
तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः
॥८॥मन्वंतरेषु सर्वेषु सर्गसंहारवृत्तयः ।
प्रायः समाभवंतीति तर्कः कार्यो विजानता
॥९॥पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते ।
समुन्मूलितमूलेषु वृक्षेषु च वनेषु च
॥१०॥जगंति तृणवक्त्रीणि देवे दहति पावके ।
वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च
॥११॥दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि ।
तदद्भिश्चटुलाक्षेपैस्तरंगभुजमण्डलैः
॥१२॥प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु ।
ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम्
॥१३॥इमं चोदाहरन्मंत्रं श्लोकं नारायणं प्रति ।
तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम्
॥१४॥आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः
॥१५॥शिवयोगमयीं निद्रां कुर्वन्तं त्रिदशेश्वरम् ।
बद्धांजलि पुटास्सिद्धा जनलोकनिवासिनः
॥१६॥स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः ।
यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा
॥१७॥ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात् ।
उदैक्षत दिशः सर्वा योगनिद्रालसेक्षणः
॥१८॥नापश्यत्स तदा किंचित्स्वात्मनो व्यतिरेकि यत् ।
सविस्मय इवासीनः परां चिंतामुपागमत्
॥१९॥क्व सा भगवती या तु मनोज्ञा महती मही ।
नानाविधमहाशैलनदीनगरकानना
॥२०॥एवं संचिंतयन्ब्रह्मा बुबुधे नैव भूस्थितिम् ।
तदा सस्मार पितरं भगवंतं त्रिलोचनम्
॥२१॥स्मरणाद्देवदेवस्य भवस्यामिततेजसः ।
ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः
॥२२॥ततो भूमेस्समुद्धारं कर्तुकामः प्रजापतिः ।
जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत्
॥२३॥महापर्वतवर्ष्माणं महाजलदनिःस्वनम् ।
नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम्
॥२४॥पीनवृत्तघनस्कंधपीनोन्नतकटीतटम् ।
ह्रस्ववृत्तोरुजंघाग्रं सुतीक्ष्णपुरमण्डलम्
॥२५॥पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम् ।
वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम्
॥२६॥उदीर्णोच्छ्वासनिश्वासघूर्णितप्रलयार्णवम् ।
विस्फुरत्सुसटाच्छन्नकपोलस्कंधबंधुरम्
॥२७॥मणिभिर्भूषणैश्चित्रैर्महारत्नैःपरिष्कृतम् ।
विराजमानं विद्युद्भिर्मेघसंघमिवोन्नतम्
॥२८॥आस्थाय विपुलं रूपं वाराहममितं विधिः ।
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम्
॥२९॥स तदा शुशुभे ऽतीव सूकरो गिरिसंनिभः ।
लिंगाकृतेर्महेशस्य पादमूलं गतो यथा
॥३०॥ततस्स सलिले मग्नां पृथिवीं पृथिवींधरः ।
उद्धृत्यालिंग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात्
॥३१॥तं दृष्ट्वा मुनयस्सिद्धा जनलोकनिवासिनः ।
मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन्
॥३२॥वपुर्महावराहस्य शुशुभे पुष्पसंवृतम् ।
पतद्भिरिव खद्योतैः प्राशुरंजनपर्वतः
॥३३॥ततः संस्थानमानीय वराहो महतीं महीम् ।
स्वमेव रूपमास्थाय स्थापयामास वै विभुः
॥३४॥पृथिवीं च समीकृत्य पृथिव्यां स्थापयन्गिरीन् ।
भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत्
॥३५॥इति सह महतीं महीं महीध्रैः प्रलयमहाजलधेरधःस्थमध्यात् ।
उपरि च विनिवेश्य विश्वकर्मा चरमचरं च जगत्ससर्ज भूयः
॥३६॥इति श्रीशिवमहापुराणे सप्तम्यां वा पू सृष्ट्यादिवर्णनं नामैकादशो ऽध्यायः