देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम्
ऋषय ऊचुः
देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम् ।
कथं हिमवतः पुत्री मेनायामभवत्पुरा
॥१॥कथं च निन्दितो रुद्रो दक्षेण च महात्मना ।
निमित्तमपि किं तत्र येन स्यान्निंदितो भवः
॥२॥उत्पन्नश्च कथं दक्षो अभिशापाद्भवस्य तु ।
चाक्षुषस्यांतरे पूर्वं मनोः प्रब्रूहि मारुत
॥३॥वायुरुवाव शृण्वंतु कथयिष्यामि दक्षस्य लघुचेतसः ।
वृत्तं पापात्प्रमादाच्च विश्वामरविदूषणम्
॥४॥पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः ।
कदाचिद्द्रष्टुमीशानं हिमवच्छिखरं ययुः
॥५॥तदा देवश्च देवी च दिव्यासनगतावुभौ ।
दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः
॥६॥तदानीमेव दक्षो ऽपि गतस्तत्र सहामरैः ।
जामातरं हरं द्रष्टुं द्रष्टुं चात्मसुतां सतीम्
॥७॥तदात्मगौरवाद्देवो देव्या दक्षे समागते ।
देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः
॥८॥तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् ।
पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत
॥९॥ततस्तेनैव वैरेण विधिना च प्रचोदितः ।
नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन्
॥१०॥अन्याञ्१ आमातरस्सर्वानाहूय स यथाक्रमम् ।
शतशः पुष्कलामर्चाञ्चकार च पृथक्पृथक्
॥११॥तथा तान्संगताञ्छ्रुत्वा नारदस्य मुखात्तदा ।
ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः
॥१२॥अथ संनिहितं दिव्यं विमानं विश्वतोमुखम् ।
लक्षणाढ्यं सुखारोहमतिमात्रमनोहरम्
॥१३॥तप्तजांबूनदप्रख्यं चित्ररत्नपरिष्कृतम् ।
मुक्तामयवितानाग्न्यं स्रग्दामसमलंकृतम्
॥१४॥तप्तकंचननिर्व्यूहं रत्नस्तंभशतावृतम् ।
वज्रकल्पितसोपानं विद्रुमस्तंभतोरणम्
॥१५॥पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् ।
वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम्
॥१६॥मणिदंडमनोज्ञेन महावृषभलक्ष्मणा ।
अलंकृतपुरोभागमब्भ्रशुब्भ्रेण केतुना
॥१७॥रत्नकंचुकगुप्तांगैश्चित्रवेत्रकपाणिभिः ।
अधिष्ठितमहाद्वारमप्रधृष्यैर्गुणेश्वरैः
॥१८॥मृदंगतालगीतादिवेणुवीणाविशारदैः ।
विदग्धवेषभाषैश्च बहुभिः स्त्रीजनैर्वृतम्
॥१९॥आरुरोह महादेवी सह प्रियसखीजनैः ।
चामारव्यञ्जनं तस्या वज्रदंडमनोहरे
॥२०॥गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे ।
तदाचामरयोर्मध्ये देव्या वदनमाबभौ
॥२१॥अन्योन्यं युध्यतोर्मध्ये हंसयोरिव पंकजम् ।
छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी
॥२२॥धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा ।
तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि
॥२३॥उपर्यमृतभांडस्य मंडलं शशिनो यथा ।
अथ चाग्रे समासीना सुस्मितास्या शुभावती
॥२४॥अक्षद्यूतविनोदेन रमयामास वै सतीम् ।
सुयशाः पादुके देव्याश्शुभे रत्नपरिष्कृते
॥२५॥स्तनयोरंतरे कृत्वा तदा देवीमसेवतः ।
अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम्
॥२६॥अपरा तालवृन्तं च परा तांबूलपेटिकाम् ।
काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी
॥२७॥काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च ।
काचिदाभरणाधारं बभार कमलेक्षणा
॥२८॥काचिच्च पुनरालेपं सुप्रसूतं शुभांजनम् ।
अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः
॥२९॥आवृत्त्या तां महादेवीमसेवंत समंततः ।
अतीव शुशुभे तासामंतरे परमेश्वरी
॥३०॥तारापरिषदो मध्ये चंद्रलेखेव शारदी ।
ततः शंखसमुत्थस्य नादस्य समनंतरम्
॥३१॥प्रास्थानिको महानादः पटहः समताड्यत ।
ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः
॥३२॥अनाहतानि सन्नेदुः काहलानां शतानि च ।
सायुधानां गणेशानां महेशसमतेजसाम्
॥३३॥सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः ।
तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः
॥३४॥जगाम गणपः श्रीमान् सोमनंदीश्वरार्चितः ।
देवदुंदुभयो नेदुर्दिवि दिव्यसुखा घनाः
॥३५॥ननृतुर्मुनयस्सर्वे मुमुदुः सिद्धयोगिनः ।
ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः
॥३६॥तदा देवगणैश्चान्यैः पथि सर्वत्र संगता ।
क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी
॥३७॥तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात् ।
तस्या यवीयसीभ्यो ऽपि चक्रे पूजाम सत्कृताम्
॥३८॥तदा शशिमुखी देवी पितरं सदसि स्थितम् ।
अंबिका युक्तमव्यग्रमुवाचाकृपणं वचः
॥३९॥देव्युवाच ब्रह्मादयः पिशाचांता यस्याज्ञावशवर्तिनः ।
स देवस्सांप्रतं तात विधिना नार्चितः किल
॥४०॥तदास्तां मम ज्यायस्याः पुत्र्याः पूजां किमीदृशीम् ।
असत्कृतामवज्ञाय कृतवानसि गर्हितम्
॥४१॥एवमुक्तो ऽब्रवीदेनां दक्षः क्रोधादमर्षितः ।
त्वत्तः श्रेष्ठा विशिष्टाश्च पूज्या बालाः सुता मम
॥४२॥तासां तु ये च भर्तारस्ते मे बहुमता मुदा ।
गुनैश्चाप्यधिकास्सर्वैर्भर्तुस्ते त्र्यंबकादपि
॥४३॥स्तब्धात्मा तामसश्शर्वस्त्वमिमं समुपाश्रिता ।
तेन त्वामवमन्ये ऽहं प्रतिकूलो हि मे भवः
॥४४॥तथोक्ता पितरं दक्षं क्रुद्धा देवी तमब्रवीत् ।
शृण्वतामेव सर्वेषां ये यज्ञसदसि स्थिताः
॥४५॥अकस्मान्मम भर्तारमजाताशेषदूषणम् ।
वाचा दूषयसे दक्ष साक्षाल्लोकमहेश्वरम्
॥४६॥विद्याचौरो गुरुद्रोही वेदेश्वरविदूषकः ।
त एते बहुपाप्मानस्सर्वे दंड्या इति श्रुतिः
॥४७॥तस्मादत्युत्कटस्यास्य पापस्य सदृशो भृशम् ।
सहसा दारुणो दंडस्तव दैवाद्भविष्यति
॥४८॥त्वया न पूजितो यस्माद्देवदेवस्त्रियंबकः ।
तस्मात्तव कुलं दुष्टं नष्टमित्यवधारय
॥४९॥इत्युक्त्वा पितरं रुष्टा सती संत्यक्तसाध्वसा ।
तदीयां च तनुं त्यक्त्वा हिमवंतं ययौ गिरिम्
॥५०॥स पर्वतपरः श्रीमांल्लब्धपुण्यफलोदयः ।
तदर्थमेव कृतवान् सुचिरं दुश्चरं तपः
॥५१॥तस्मात्तमनुगृह्णाति भूधरेश्वरमीश्वरी ।
स्वेच्छया पितरं चक्रे स्वात्मनो योगमायया
॥५२॥यदा गता सती दक्षं विनिंद्य भयविह्वला ।
तदा तिरोहिता मंत्रा विहतश्च ततो ऽध्वरः
॥५३॥तदुपश्रुत्य गमनं देव्यास्त्रिपुरुमर्दनः ।
दक्षाय च ऋषिभ्यश्च चुकोप च शशाप तान्
॥५४॥यस्मादवमता दक्षमत्कृते ऽनागसा सती ।
पूजिताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह
॥५५॥वैवस्वते ऽंतरे तस्मात्तव जामातरस्त्वमी ।
उत्पत्स्यंते समं सर्वे ब्रह्मयज्ञेष्वयोनिजाः
॥५६॥भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ।
प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः
॥५७॥अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते ।
धर्मार्थकामयुक्तेषु कर्मस्वपि पुनः पुनः
॥५८॥तेनैवं व्याहृतो दक्षो रुद्रेणामिततेजसा ।
स्वायंभुवीं तनुं त्यक्त्वा पपात भुवि दुःखितः
॥५९॥ततः प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे ।
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम्
॥६०॥भृग्वादयो ऽपि जाता वै मनोर्वैवस्वतस्य तु ।
अंतरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम्
॥६१॥तदा दक्षस्य धर्मार्थं यज्ञे तस्य दुरात्मनः ।
महेशः कृतवान्विघ्नं मना ववस्वते सति
॥६२॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सतीदेहत्यागो नामाष्टादशो ऽध्यायः