मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पूर्वभागः, अध्याय १४

3
वायवीयसंहिता · पूर्वभागः · 14

रुद्राविर्भाववर्णनम्

वायुरुवाच

प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ।

यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते

॥१॥

कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः ।

अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः

॥२॥

तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये ।

तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः

॥३॥

निर्दिष्टः पममेशेन महेशो नीललोहितः ।

पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोनुजः

॥४॥

स एव भगवानीशस्तेजोराशिरनामयः ।

अनादिनिधनोधाता भूतसंकोचको विभुः

॥५॥

परमैश्वर्यसंयुक्तः परमेश्वरभावितः ।

तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः

॥६॥

तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ।

तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः

॥७॥

सहस्रादित्यसंकाशश्चन्द्रावयवभूषणः ।

भुजंगहारकेयूरवलयो मुंजमेखलः

॥८॥

जलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः ।

गङ्गातुंगतरंगार्धपिंगलाननमूर्धजः

॥९॥

भग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः ।

सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः

॥१०॥

महावृषभनिर्याणो महाजलदनिःस्वनः ।

महानलसमप्रख्यो महाबलपराक्रमः

॥११॥

एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः ।

विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च

॥१२॥

तस्माद्रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः ।

प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते

॥१३॥

कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः ।

स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः

॥१४॥

कपर्दिनो निरातंकान्नीलग्रीवांस्त्रिलोचनान् ।

जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान्

॥१५॥

तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत् ।

तान्दृष्टा विविधान्रुद्रान् रुद्रमाह पितामहः

॥१६॥

नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः ।

अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः

॥१७॥

इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः ।

नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः

॥१८॥

ये त्विमे मनसा सृष्टा महात्मानो महाबलाः ।

चरिष्यंति मया सार्धं सर्व एव हि याज्ञिकाः

॥१९॥

इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः ।

सह रुद्रैः प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत

॥२०॥

ततः प्रभृति देवो ऽसौ न प्रसूते प्रजाः शुभाः ।

ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम्

॥२१॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं नाम चतुर्दशो ऽध्यायः