ब्रह्मांडस्थितिवर्णनम्
वायुरुवाच
पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया ।
बुद्ध्यादयो विशेषांता विकाराश्चाभवन् क्रमात्
॥१॥ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः ।
कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे
॥२॥सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ।
ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम्
॥३॥सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् ।
प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः
॥४॥कल्पान्तरे पुनस्तेषामस्पर्धा बुद्धिमोहिनाम् ।
सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः
॥५॥एते परस्परोत्पन्ना धारयन्ति परस्परम् ।
परस्परेण वर्धंते परस्परमनुव्रताः
॥६॥क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते ।
नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते
॥७॥मूर्खा निंदंति तान्वाग्भिः संरंभाभिनिवेशिनः ।
यातुधाना भवंत्येव पिशाचाश्च न संशयः
॥८॥देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः ।
सकलस्सकलाधारशक्तेरुत्पत्तिकारणम्
॥९॥सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च ।
लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः
॥१०॥यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ।
स एव च तदाधारस्तदात्मा तदधिष्ठितः
॥११॥तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ।
सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम्
॥१२॥प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् ।
महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत्
॥१३॥अहंकारश्च भूतानि तन्मात्रानींद्रियाणि च ।
वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः
॥१४॥वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते ।
बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेंद्रियाणि च
॥१५॥एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ।
तमोयुक्तादहंकाराद्भूततन्मात्रसंभवः
॥१६॥भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः ।
भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसंभवः
॥१७॥आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः ।
वायो रूपं ततस्तेजस्तेजसो रससंभवः
॥१८॥रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः ।
गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम्
॥१९॥पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ।
महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते
॥२०॥तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ।
तदंडे सुप्रवृद्धो ऽभूत्क्षेत्रज्ञो ब्रह्मसंज्ञितः
॥२१॥स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत
॥२२॥तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ।
धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः
॥२३॥अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ।
वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः
॥२४॥त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्तते ।
सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम्
॥२५॥चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः ।
सहस्रमूर्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः
॥२६॥सत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः ।
विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ
॥२७॥ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि ।
पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः
॥२८॥एवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते ।
चतुर्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः
॥२९॥आदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः ।
पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः
॥३०॥हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः ।
गर्भोदकं समुद्राश्च जरायुश्चाऽपि पर्वताः
॥३१॥तस्मिन्नंडे त्विमे लोका अंतर्विश्वमिदं जगत् ।
चंद्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना
॥३२॥अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम् ।
आपो दशगुणेनैव तेजसा बहिरावृताः
॥३३॥तेजो दशगुणेनैव वायुना बहिरावृतम् ।
आकाशेनावृतो वायुः खं च भूतादिनावृतम्
॥३४॥भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ।
एतैरावरणैरण्डं सप्तभिर्बहिरावृतम्
॥३५॥एतदावृत्त्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ।
सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः
॥३६॥एवं परस्परोत्पन्ना धारयंति परस्परम् ।
आधाराधेयभावेन विकारास्तु विकारिषु
॥३७॥कूर्मोंगानि यथा पूर्वं प्रसार्य विनियच्छति ।
विकारांश्च तथा ऽव्यक्तं सृष्ट्वा भूयो नियच्छति
॥३८॥अव्यक्तप्रभवं सर्वमानुलोम्येन जायते ।
प्राप्ते प्रलयकाले तु प्रतिलोम्येनुलीयते
॥३९॥गुणाः कालवशादेव भवंति विषमाः समाः ।
गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते
॥४०॥तदिदं ब्रह्मणो योनिरेतदंडं घनं महत् ।
ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते
॥४१॥इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ।
सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थिताः
॥४२॥तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ।
सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम्
॥४३॥महेश्वरः परोव्यक्तादंडमव्यक्तसंभवम् ।
अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे
॥४४॥अबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः ।
आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य
॥४५॥यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः ।
अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम्
॥४६॥उत्पादकत्वाद्रजसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून् ।
अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले
॥४७॥प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः ।
तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य
॥४८॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां ब्रह्मांडस्थितिवर्णनं नाम दशमो ऽध्यायः