गिरिशानुनयः
वायुरुवाच
इति सञ्छिन्नभिन्नांगा देवा विष्णुपुरोगमाः ।
क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिता
॥१॥त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः ।
प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः
॥२॥प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः ।
बबन्धुः पाणिपादेषु कंधरेषूदरेषु च
॥३॥तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् ।
सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतो ऽब्रवीत्
॥४॥अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः ।
प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत
॥५॥एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ।
शमं जगाम संप्रीतो गणपस्तस्य गौरवात्
॥६॥देवाश्च लब्धावसरा देवदेवस्य मंत्रिणः ।
धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः
॥७॥देवा ऊचुः
नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ।
७.१,२३. ८ रुद्रभद्राय रुद्राणां पतये रुद्रभूतये
॥८॥कालाग्निरुद्ररूपाय कालकामांगहारिणे ।
देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः
॥९॥संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः ।
शासिताः समरे वीर त्वया वयमनिन्दिता
॥१०॥दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो ।
त्वमेव गतिरस्माकं त्राहि नश्शरणागतान्
॥११॥वायुरुवाच
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः ।
आनयद्देवदेवस्य समीपममरानिह
॥१२॥देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः ।
सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः
॥१३॥तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः ।
प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम्
॥१४॥दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः ।
इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम्
॥१५॥महादेव उवाच
माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः ।
अनुग्रहार्थमेवेह धृतो दंडः कृपालुना
॥१६॥भवतां निर्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः ।
क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम्
॥१७॥वायुरुवाच
इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा ।
सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा
॥१८॥प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ।
स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः
॥१९॥देवा ऊचुः
त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि ।
कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते
॥२०॥सर्वमूर्ते नमस्ते ऽस्तु विश्वभावन पावन ।
अमूर्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद
॥२१॥चंद्रो ऽगदो हि देवेश कृपातस्तव शंकर ।
निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः
॥२२॥सीमन्तिनी हतधवा तव पूजनतः प्रभो ।
सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान्
॥२३॥श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ।
सुदर्शनमरक्षस्त्वं नृपमंडलभीतितः
॥२४॥मेदुरं तारयामास सदारं च घृणानिधिः ।
शारदां विधवां चक्रे सधवां क्रियया भवान्
॥२५॥भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ।
सौमिनी भवबन्धाद्वै मुक्ता ऽभूत्तव सेवनात्
॥२६॥विष्णुरुवाच
त्वं शंभो कहरीशाश्च रजस्सत्त्वतमोगुणैः ।
कर्ता पाता तथा हर्ता जनानुग्रहकांक्षया
॥२७॥सर्वगर्वापहारी च सर्वतेजोविलासकः ।
सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः
॥२८॥त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर ।
त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि
॥२९॥अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः ।
एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने
॥३०॥ब्रह्मोवाच जय देव महादेव प्रणतार्तिविभंजन ।
ईदृशेष्वपराधेषु को ऽन्यस्त्वत्तः प्रसीदति
॥३१॥लब्धमानो भविष्यंति ये पुरा निहिता मृधे ।
प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे
॥३२॥यदिदं देवदेवानां कृतमन्तुषु दूषणम् ।
तदिदं भूषणं मन्येत अंगीकारगौरवात्
॥३३॥इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना ।
विलोक्य वदनं देव्या देवदेवस्स्मयन्निव
॥३४॥पुत्रभूतस्य वात्सल्याद्ब्रह्मणः पद्मजन्मनः ।
देवादीनां यथापूर्वमंगानि प्रददौ प्रभुः
॥३५॥प्रथमाद्यैश्च या देव्यो दंडिता देवमातरः ।
तासामपि यथापूर्वाण्यंगानि गिरिशो ददौ
॥३६॥दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः ।
तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम्
॥३७॥सो ऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधी ।
भीतः कृताञ्जलिः शंभुं तुष्टाव प्रलपन्बहु
॥३८॥दक्ष उवाच
जय देव जगन्नाथ लोकानुग्रहकारक ।
कृपां कुरु महेशानापराधं मे क्षमस्व ह
॥३९॥कर्ता भर्ता च हर्ता च त्वमेव जगतां प्रभो ।
मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः
॥४०॥त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम् ।
न हि त्वदधिकाः केचिदीशास्ते ऽच्युतकादयः
॥४१॥वायुरुवाच
तं तथा व्याकुलं भीतं प्रलपंतं कृतागसम् ।
स्मयन्निवावदत्प्रेक्ष्य मा भैरिति १ घृणानिधिः
॥४२॥तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया ।
गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः
॥४३॥ततो ब्रह्मादयो देवा अभिवंद्य कृत २ ंजलिः ।
तुष्टुवुः प्रश्रया वाचा शंकरं गिरिजाधिपम्
॥४४॥ब्रह्मादय ऊचुः
जय शंकर देवेश दीनानाथ महाप्रभो ।
कृपां कुरु महेशानापराधं नो क्षमस्व वै
॥४५॥मखपाल मखाधीश मखविध्वंसकारक ।
कृपां कुरु मशानापराधं नः क्षमस्व वै
॥४६॥देवदेव परेशान भक्तप्राणप्रपोषक ।
दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमो ऽस्तु ते
॥४७॥त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् ।
रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम्
॥४८॥अद्भुतं चरितं ते हि निश्चितं कृपया तव ।
सर्वापराधः क्षंतव्यो विभवो दीनवत्सलाः
॥४९॥वायुरुवाच
इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः ।
स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः
॥५०॥चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ।
ददौ नरांश्च सुप्रीत्या शंकरो दीनवत्सलः
॥५१॥स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः ।
अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत
॥५२॥शिव उवाच
यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः ।
शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः
॥५३॥तदिह यूयमपि प्रकृतं मनस्यविगणय्य विमर्दमपत्रपाः ।
हरिविरिंचिसुरेन्द्रमुखास्सुखं व्रजत देवपुरं प्रति संप्रति
॥५४॥इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः ।
सगिरिजानुचरस्सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः
॥५५॥अथ सुरा अपि ते विगतव्यथाः कथितभद्रसुभद्रपराक्रमाः ।
सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः
॥५६॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशो ऽध्यायः