उपमन्युतपोवर्णनम्
ऋषय ऊचुः
धौम्याग्रजेन शिशुना क्षीरार्थं हि तपः कृतम् ।
तस्मात्क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना
॥१॥स कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम् ।
कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः
॥२॥कथं च लब्धविज्ञानस्तपश्चरणपर्वणि ।
रुद्राग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम्
॥३॥वायुरुवाच
न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः ।
मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः
॥४॥जन्मान्तरेण संसिद्धः केनापि खलु हेतुना ।
स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम्
॥५॥महादेवप्रसादस्य भाग्यापन्नस्य भाविनः ।
दुग्धाभिलाषप्रभवद्वारतामगमत्तपः
॥६॥अतः सर्वगणेशत्वं कुमारत्वं च शाश्वतम् ।
सह दुग्धाब्धिना तस्मै प्रददौ शंकरः स्वयम्
॥७॥तस्य ज्ञानागमोप्यस्य प्रसादादेव शांकरात् ।
कौमारं हि परं साक्षाज्ज्ञानं शक्तिमयं विदुः
॥८॥शिवशास्त्रप्रवक्तृत्वमपि तस्य हि तत्कृतम् ।
कुमारो मुनितो लब्धज्ञानाब्धिरिव नन्दनः
॥९॥दृष्टं तु कारणं तस्य शिवज्ञानसमन्वये ।
स्वमातृवचनं साक्षाच्छोकजं क्षीरकारणात्
॥१०॥कदाचित्क्षीरमत्यल्पं पीतवान्मातुलाश्रमे ।
ईर्षयया मातुलसुतं संतृप्तक्षीरमुत्तमम्
॥११॥पीत्वा स्थितं यथाकामं दृष्ट्वा वै मातुलात्मजम् ।
उपमन्युर्व्याघ्रपादिः प्रीत्या प्रोवाच मातरम्
॥१२॥उपमन्युरुवाच
मातर्मातर्महाभागे मम देहि तपस्विनि ।
गव्यं क्षीरमतिस्वादु नाल्पमुष्णं पिबाम्यहम्
॥१३॥वायुरुवाच
तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी ।
व्याघ्रपादस्य महिषी दुःखमापत्तदा च सा
॥१४॥उपलाल्याथ सुप्रीत्या पुत्रमालिंग्य सादरम् ।
दुःखिता विललापाथ स्मृत्वा नैर्धन्यमात्मनः
॥१५॥स्मृत्वास्मृत्वा पुनः क्षीरमुपमन्युस्स बालकः ।
देहि देहीति तामाह रुद्रन्भूयो महाद्युतिः
॥१६॥तद्धठं सा परिज्ञाय द्विजपत्नी तपस्विनी ।
शान्तये तद्धठस्याथ शुभोपायमरीरचत्
॥१७॥उञ्छवृत्त्यार्जितान्बीजान्स्वयं दृष्ट्वा च सा तदा ।
बीजपिष्टमथालोड्य तोयेन कलभाषिणी
॥१८॥एह्येहि मम पुत्रेति सामपूर्वं ततस्सुतम् ।
आलिंग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः
॥१९॥पीत्वा च कृत्रिमं क्षीरं मात्रां दत्तं स बालकः ।
नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः
॥२०॥दुःखिता सा तदा प्राह संप्रेक्ष्याघ्राय मूर्धनि ।
समार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते
॥२१॥जनन्युवाच तटिनी रत्नपूर्णास्तास्स्वर्गपातालगोचराः ।
भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे
॥२२॥राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसंभवम् ।
न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः
॥२३॥भवप्रसादजं सर्वं नान्यद्देवप्रसादजम् ।
अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च
॥२४॥क्षीरं तत्र कुतो ऽस्माकं वने निवसतां सदा ।
क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः
॥२५॥कृत्स्नाभावेन दारिद्र्यान्मया ते भाग्यहीनया ।
मिथ्यादुग्धमिदं दत्तम्पिष्टमालोड्य वारिणा
॥२६॥त्वं मातुलगृहे स्वल्पं पीत्वा स्वादु पयः शृतम् ।
ज्ञात्वा स्वादु त्वया पीतं तज्जातीयमनुस्मरन्
॥२७॥दत्तं न पय इत्युक्त्वा रुदन् दुःखीकरोषि माम् ।
प्रसादेन विना शंभो पयस्तव न विद्यते
॥२८॥पादपंकजयोस्तस्य साम्बस्य सगणस्य च ।
भक्त्या समर्पितं यत्तत्कारणं सर्वसम्पदाम्
॥२९॥अधुना वसुदोस्माभिर्महादेवो न पूजितः ।
सकामानां यथाकामं यथोक्तफलदायकः
॥३०॥धनान्युद्दिश्य नास्माभिरितः प्रागर्चितः शिवः ।
अतो दरिद्रास्संजाता वयं तस्मान्न ते पयः
॥३१॥पूर्वजन्मनि यद्दत्तं शिवमुद्दिश्य वै सुतः ।
तदेव लभ्यते नान्यद्विष्णुमुद्दिश्य वा प्रभुम्
॥३२॥वायुरुवाच
इति मातृवचः श्रुत्वा तथ्यं शोकादिसूचकम् ।
बालो ऽप्यनुतपन्नंतः प्रगल्भमिदमब्रवीत्
॥३३॥उपमन्युरुवाच
शोकेनालमितो मातः सांबो यद्यस्ति शंकरः ।
त्यज शोकं महाभागे सर्वं भद्रं भविष्यति
॥३४॥शृणु मातर्वचो मेद्य महादेवो ऽस्ति चेत्क्वचित् ।
चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम्
॥३५॥वायुरुवाच
इति श्रुत्वा वचस्तस्य बालकस्य महामतेः ।
प्रत्युवाच तदा माता सुप्रसन्ना मनस्विनी
॥३६॥मातोवाच शुभं विचारितं तात त्वया मत्प्रीतिवर्धनम् ।
विलंबं मा कथास्त्वं हि भज सांबं सदाशिवम्
॥३७॥सर्वस्मादधिको ऽस्त्येव शिवः परमकारणम् ।
तत्कृतं हि जगत्सर्वं ब्रह्माद्यास्तस्य किंकराः
॥३८॥तत्प्रसादकृतैश्वर्या दासास्तस्य वयं प्रभोः ।
तं विनान्यं न जानीमश्शंकरं लोकशंकरम्
॥३९॥अन्यान्देवान्परित्यज्य कर्मणा मनसा गिरा ।
तमेव सांबं सगणं भज भावपुरस्सरम्
॥४०॥तस्य देवाधिदेवस्य शिवस्य वरदायिनः ।
साक्षान्नमश्शिवायेति मंत्रो ऽयं वाचकः स्मृतः
॥४१॥सप्तकोटिमहामंत्राः सर्वे सप्रणवाः परे ।
तस्मिन्नेव विलीयंते पुनस्तस्माद्विनिर्गताः
॥४२॥सप्रसादाश्च ते मंत्राः स्वाधिकाराद्यपेक्षया ।
सर्वाधिकारस्त्वेको ऽयं मंत्र एवेश्वराज्ञया
॥४३॥यथा निकृष्टानुत्कृष्टान्सर्वानप्यात्मनः शिवः ।
क्षमते रक्षितुं तद्वन्मंत्रो ऽयमपि सर्वदा
॥४४॥प्रबलश्च तथा ह्येष मंत्रो मन्त्रान्तरादपि ।
सर्वरक्षाक्षमो ऽप्येष नापरः कश्चिदिष्यते
॥४५॥तस्मान्मन्त्रान्तरांस्त्यक्त्वा पञ्चाक्षरपरो भव ।
तस्मिञ्जिह्वांतरगते न किंचिदिह दुर्लभम्
॥४६॥अघोरास्त्रं च शैवानां रक्षाहेतुरनुत्तमम् ।
तच्च तत्प्रभवं मत्वा तत्परो भव नान्यथा
॥४७॥भस्मेदन्तु मया लब्धं पितुरेव तवोत्तमम् ।
विरजानलसंसिद्धं महाव्यापन्निवारणम्
॥४८॥मंत्रं च ते मया दत्तं गृहाण मदनुज्ञया ।
अनेनैवाशु जप्तेन रक्षा तव भविष्यति
॥४९॥वायुरुवाच
एवं मात्रा समादिश्य शिवमस्त्वित्युदीर्य च ।
विसृष्टस्तद्वचो मूर्ध्नि कुर्वन्नेव तदा मुनिः
॥५०॥तां प्रणम्यैवमुक्त्वा च तपः कर्तुं प्रचक्रमे ।
तमाह च तदा माता शुभं कुर्वंतु ते सुराः
॥५१॥अनुज्ञातस्तया तत्र तपस्तेपे स दुश्चरम् ।
हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः
॥५२॥अष्टेष्टकाभिः प्रसादं कृत्वा लिंगं च मृन्मयम् ।
तत्रावाह्य महादेवं सांबं सगणमव्ययम्
॥५३॥भक्त्या पञ्चाक्षरेणैव पुत्रैः पुष्पैर्वनोद्भवैः ।
समभ्यर्च्य चिरं कालं चचार परमं तपः
॥५४॥ततस्तपश्चरत्तं तं बालमेकाकिनं कृशम् ।
उपमन्युं द्विजवरं शिवसंसक्तमानसम्
॥५५॥पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः ।
संपीड्य राक्षसैर्भावैस्तपसोविघ्नमाचरन्
॥५६॥स च तैः पीड्यमानो ऽपि तपः कुर्वन्कथञ्चन ।
सदा नमः शिवायेति क्रोशति स्मार्तनादवत्
॥५७॥तन्नादश्रवणादेव तपसो विघ्नकारिणः ।
ते तं बालं समुत्सृज्य मुनयस्समुपाचरन्
॥५८॥तपसा तस्य विप्रस्य चोपमन्योर्महात्मनः ।
चराचरं च मुनयः प्रदीपितमभूज्जगत्
॥५९॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युतपोवर्णनं नाम चतुस्त्रिंशो ऽध्यायः