व्याघ्रगतिवर्णनम्
वायुरुवाच
उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ।
तस्य प्रत्युपकाराय पितामहमथाब्रवीत्
॥१॥देव्युवाच दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः ।
अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम्
॥२॥मय्यर्पितमना एष भजते मामनन्यधीः ।
अस्य संरक्षणादन्यत्प्रियं मम न विद्यते
॥३॥भवितव्यमनेनातो ममान्तःपुरचारिणा ।
गणेश्वरपदं चास्मै प्रीत्या दास्यति शंकरः
॥४॥एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे ।
प्रदीयतामनुज्ञा मे प्रजानां पतिना १ त्वया
॥५॥इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन् ।
तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत्१
॥६॥ब्रह्मोवाच पशौ देवि मृगाः क्रूराः क्व च ते ऽनुग्रहः शुभः ।
आशीविषमुखे साक्षादमृतं किं निषिच्यते
॥७॥व्याघ्रमात्रेण सन्नेष दुष्टः को ऽपि निशाचरः ।
अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः
॥८॥तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ ।
अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः
॥९॥अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु ।
अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना
॥१०॥देव्युवाच यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः ।
तथापि मां प्रपन्नो ऽभून्न त्याज्यो मामुपाश्रितः
॥११॥ब्रह्मोवाच अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् ।
भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति
॥१२॥पुण्यकर्मापि किं कुर्यात्त्वदीयाज्ञानपेक्षया ।
अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी
॥१३॥त्वदधीना हि सर्वेषां बंधमोक्षव्यवस्थितिः ।
त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा
॥१४॥त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् ।
अशक्तः कर्मकरणे कर्ता वा किं करिष्यति
॥१५॥विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ।
तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम्
॥१६॥अतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः ।
अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः
॥१७॥त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ।
लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः
॥१८॥व्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ।
सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः
॥१९॥त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः ।
अनादिमध्यनिधना शक्तिराद्या सनातनी
॥२०॥समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि ।
क्रीडसे २ विविधैर्भावैः कस्त्वां जानाति तत्त्वतः
॥२१॥अतो दुष्कृतकर्मापि व्याघ्रो ऽयं त्वदनुग्रहात् ।
प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः
॥२२॥इत्यात्मनः परं भावं स्मारयित्वानुरूपतः ।
ब्रह्मणाभ्यर्थिता गौरी तपसो ऽपि न्यवर्तत
॥२३॥ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति ।
देवीं च मातरं दृष्ट्वा मेनां हिमवता सह
॥२४॥प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ ।
तपः प्रणयिनो देवी तपोवनमहीरुहान्
॥२५॥विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुंचतः ।
तत्तुच्छाखासमारूढविहगो दीरितै रुतैः
॥२६॥व्याकुलं बहुधा दीनं विलापमिव कुर्वतः ।
सखीभ्यः कथयंत्येवं सत्त्वरा भर्तृदर्शने
॥२७॥पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् ।
देहस्य प्रभया चैव दीपयन्ती दिशो दश
॥२८॥प्रययौ मंदरं गौरी यत्र भर्ता महेश्वरः ।
सर्वेषां जगतां धाता कर्ता पाता विनाशकृत्
॥२९॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशो ऽध्यायः