अर्जुनोपि तदा तत्र दीप्यमानो व्यदृश्यत
नन्दीश्वर उवाच
अर्जुनोपि तदा तत्र दीप्यमानो व्यदृश्यत ।
मन्त्रेण शिवरूपेण तेजश्चातुलमावहत्
॥१॥ते सर्वे चार्जुनन्दृष्ट्वा पाण्डवा निश्चयं गताः ।
जयोऽस्माकं धुवञ्जातन्तेजश्च विपुलं यतः
॥२॥इदङ्कार्य्यन्त्वया साध्यन्नान्येन च कदाचन ।
व्यासस्य वचनाद्भाति सफलं कुरु जीवितम्
॥३॥इति प्रोच्यार्जुनन्ते वै विरहौत्सुक्यकातराः ।
अनिच्छन्तोपि तत्रैव प्रेषयामासुरादरात्
॥४॥द्रौपदी दुःखसंयुक्ता नेत्राश्रूणि निरुध्य च ।
प्रेषयन्ती शुभं वाक्यन्तदोवाच पतिव्रता
॥५॥द्रौपद्युवाच
व्यासोपदिष्टं यद्राजंस्त्वया कार्यं प्रयत्नतः ।
शुभप्रदोऽस्तु ते पन्थाश्शंकरश्शंकरोस्तु वै
॥६॥ते सर्वे चावसंस्तत्र विसृज्यार्जुनमादरात् ।
अत्यन्तदुःखमापन्ना मिलित्वा पञ्च एव च
॥७॥स्थितास्तत्र वदन्ति स्म श्रूयतामृषिसत्तम ।
दुःखेपि प्रियसंगो वै न दुःखाय प्रजायते
॥८॥वियोगे द्विगुणन्तस्य दुःखम्भवति नित्यशः ।
तत्र धैर्य्यधरस्यापि कथन्धैर्य्यम्भवेदिह
॥९॥नन्दीश्वर उवाच
कुर्वतस्त्वेव तदा दुःखम्पाण्डवेषु मुनीश्वरः ।
कृपासिंधुश्च स व्यास ऋषिवर्य्यस्समागत
॥१०॥तन्तदा पाण्डवास्ते वै नत्वा सम्पूज्य चादरात् ।
दत्त्वासनं हि दुःखाढ्याः करौ बद्ध्वा वचोऽब्रुवन्
॥११॥पाण्डवा ऊचुः
श्रूयतामृषभश्रेष्ठ दुःखदग्धा वयम्प्रभो ।
दर्शनन्तेऽद्य सम्प्राप्य ह्यानन्दं प्राप्नुमो मुने
॥१२॥कियत्कालं वसात्रैव दुःखनाशाय नः प्रभो ।
दर्शनात्तव विप्रर्षेस्सर्वं दुःखं विलीयते
॥१३॥नन्दीश्वर उवाच
इत्युक्तस्स ऋषिश्रेष्ठो न्यवसत्तत्सुखाय वै ।
कथाभिर्विविधाभिश्च तद्दुःखं नोदयंस्तदा
॥१४॥वार्तायां क्रियमाणायान्तेन व्यासेन सन्मुने ।
सुप्रणम्य विनीतात्मा धर्मराजोऽब्रवीदिदम्
॥१५॥धर्मराज उवाच
शृणु त्वं हि ऋषिश्रेष्ठ दुःखशान्तिर्मता मम ।
पृच्छामि त्वां महाप्राज्ञ कथनीयन्त्वया प्रभो
॥१६॥ईदृशं चैव दुःखं च पुरा प्राप्तश्च कश्चन ।
वयमेव परं दुःखं प्राप्ता वै नैव कश्चन
॥१७॥व्यास उवाच
राज्ञस्तु नलनाम्नो वै निषधाधिपतेः पुरा ।
भवद्दुःखाधिकं दुःखं जातन्तस्य महात्मनः
॥१८॥हरिश्चन्द्रस्य नृपतेर्जातं दुःखम्महत्तरम् ।
अकथ्यन्तद्विशेषेण परशोकावहन्तथा
॥१९॥दुःखम्तथैव विज्ञेयं रामस्याप्यथ पाण्डव ।
यच्छ्रुत्वा स्त्रीनराणां च भवेन्मोहो महत्तरः
॥२०॥तस्माद्वर्णयितुन्नैव शक्यते हि मया पुनः ।
शरीरं दुःखराशिं च मत्वा त्याज्यन्त्वयाधुना
॥२१॥येनेदञ्च धृतन्तेन व्याप्तमेव न संशयः ।
प्रथमम्मातृगर्भे वै जन्म दुःखस्य कारणम्
॥२२॥कौमारेऽपि महादुःखं बाललीलानुसारि यत् ।
ततोपि यौवने कामान्भुन्जानो दुःखरूपिणः
॥२३॥गतागतैर्दिनानां हि कार्यभारैरनेकशः ।
आयुश्च क्षीयते नित्यं न जानाति ह तत्पुनः
॥२४॥अन्ते च मरणं चैव महादुःखमतः परम् ।
नानानरकपीडाश्च भुज्यंतेज्ञैर्नरैस्सदा
॥२५॥तस्मादिदमसत्यं च त्वन्तु सत्यं समाचर ।
येनैव तुष्यते शम्भुस्तथा कार्यं नरेण च
॥२६॥नन्दीश्वर उवाच
एवं विविधवार्ताभिः कालनिर्यापणन्तदा ।
चक्रुस्ते भ्रातरः सर्वे मनोरथपथैः पुनः
॥२७॥अर्जुनोपि स्वयं गच्छन्दुर्गाद्रिषु दृढव्रतः ।
यक्षं लब्ध्वा च तेनैव दस्यून्निघ्नन्ननेकशः
॥२८॥मनसा हर्षसंयुक्तो जगामाचलमुत्तमम् ।
तत्र गत्वा च गंगायास्समीपं सुन्दरं स्थलम्
॥२९॥अशोककाननं यत्र तिष्ठति स्वर्ग उत्तमः ।
तत्र तस्थौ स्वयं स्नात्वा नत्वा च गुरुमुत्तमम्
॥३०॥यथोपदिष्टं वेषादि तथा चैवाकरोत्स्वयम् ।
इन्द्रियाण्यपकृष्यादौ मनसा संस्थितोऽभवत्
॥३१॥पुनश्च पार्थिवं कृत्वा सुन्दरं समसूत्रकम् ।
तदग्रे प्रणिदध्यौ स तेजोराशिमनुत्तमम्
॥३२॥त्रिकालं चैव सुस्नातः पूजनं विविधं तदा ।
चकारोपासनन्तत्र हरस्य च पुनः पुनः
॥३३॥तस्यैव शिरसस्तेजो निस्सृतन्तच्चरास्तदा ।
दृष्ट्वा भयं समापन्नाः प्रविष्टश्च कदा ह्ययम्
॥३४॥पुनस्ते च विचार्यैवं कथनीयं बिडौजसे ।
इत्युक्त्वा तु गतास्ते वै शक्रस्यान्तिकमञ्जसा
॥३५॥चरा ऊचुः
देवो वाऽथ ऋषिश्चैव सूर्यो वाथ विभावसुः ।
तपश्चरति देवेश न जानीमो वने च तम्
॥३६॥तस्यैव तेजसा दग्धा आगतास्तव सन्निधौ ।
निवेदितञ्चरित्रं तत्क्रियतामुचितन्तु यत्
॥३७॥नन्दीश्वर उवाच
इत्युक्तस्तैश्चरैस्सर्वं ज्ञात्वा पुत्रचिकीर्षितम् ।
सगोत्रपान्विसृज्यैव तत्र गन्तुं मनो दधे
॥३८॥स वृद्धब्राह्मणो भूत्वा ब्रह्मचारी शचीपतिः ।
जगाम तत्र विप्रेन्द्र परीक्षार्थं हि तस्य वै
॥३९॥तमागतन्तदा दृष्ट्वाकार्षीत्पूजाश्च पाण्डवः ।
स्थितोग्रे च स्तुतिं कृत्वा क्वायातोसि वदाधुना
॥४०॥इत्युक्तस्तेन देवेशो धैर्य्यार्थन्तस्य प्रीतितः ।
परीक्षागर्वितं वाक्यं पाण्डवन्तं ततोऽब्रवीत्
॥४१॥ब्राह्मण उवाच
नवे वयसि वै तात किन्तपस्यसि साम्प्रतम् ।
मुक्त्यर्थं वा जयार्थं किं सर्वथैतत्तपस्तव
॥४२॥नन्दीश्वर उवाच
इति पृष्टस्तदा तेन सर्वं संवेदितम्पुनः ।
तच्छ्रुत्वा स पुनर्वाक्यमुवाच ब्राह्मणस्तदा ।
ब्राह्मण उवाच ।
युक्तं न क्रियते वीर सुखं प्राप्तुं च यत्तपः ।
क्षात्रधर्मेण क्रियते मुक्त्यर्थं कुरुसत्तम
॥४४॥इन्द्रस्तु सुखदाता वै मुक्तिदाता भवेन्न हि ।
तस्मात्त्वं सर्वथा श्रेष्ठ कर्तुमर्हसि सत्तपः ।
नन्दीश्वर उवाच ।
इदन्तद्वचनं श्रुत्वा क्रोधं चक्रेऽर्जुनस्तदा ।
प्रत्युवाच विनीतात्मा तदनादृत्य सुव्रतः
॥४६॥अर्जुन उवाच
राज्यार्थं न च मुक्त्यर्थ किमर्थं भाषसे त्विदम् ।
व्यासस्य वचनेनैव क्रियते तप ईदृशम्
॥४७॥इतो गच्छ ब्रह्मचारिन्मा पातयितुमिच्छसि ।
प्रयोजनं किमत्रास्ति तव वै ब्रह्मचारिणः
॥४८॥नन्दीश्वर उवाच
इत्युक्तः स प्रसन्नोभूत्सुन्दरं रूपमद्भुतम् ।
स्वोपस्करणसंयुक्तं दर्शयामास वै निजम्
॥४९॥शक्ररूपन्तदा दृष्ट्वा लज्जितश्चार्जुनस्तदा ।
स इन्द्रस्तं समाश्वास्य पुनरेव वचोब्रवीत्
॥५०॥इंद्र उवाच
वरं वृणीष्व हे तात धनंजय महामते ।
यदिच्छसि मनोभीष्टन्नादेयं विद्यते तव
॥५१॥तच्छ्रुत्वा शक्रवचनम्प्रत्युवाचार्जुनस्तदा ।
विजयन्देहि मे तात शत्रुक्लिष्टस्य सर्वथा
॥५२॥शक्र उवाच
बलिष्ठाश्शत्रवस्ते च दुर्योधनपुरःसराः ।
द्रोणो भीमश्च कर्णश्च सर्वे ते दुर्जया धुवम्
॥५३॥अश्वत्थामा द्रोणपुत्रो रौद्रोंशो दुर्जयोऽति सः ।
मया साध्या भवेयुस्ते सर्वथा स्वहितं शृणु
॥५४॥एतद्वीर जपं कर्तुं न शक्तः कश्चनाधुना ।
वर्तते हि शिवोवर्यस्तस्माच्छम्भोर्जयोऽ धुना
॥५५॥शंकरः सर्वलोकेशश्चराचरपतिः स्वराट् ।
सर्वं कर्तुं समर्थोस्ति भुक्तिमुक्तिफलप्रदः
॥५६॥अहं मन्ये च ब्रह्माद्या विष्णुः सर्ववरप्रदः ।
अन्ये जिगीषवो ये च ते सर्वे शिवपूजकाः
॥५७॥अद्यप्रभृति तन्मन्त्रं हित्वा भक्त्या शिवं भज ।
पार्थिवेन विधानेन ध्यानेनैव शिवस्य च
॥५८॥उपचारैरनेकैश्च सर्वभावेन भारत ।
सिद्धिः स्यादचला तेद्य नात्र कार्या विचारणा
॥५९॥नन्दीश्वर उवाच
इत्युक्त्वा च चरान्सर्वान्समाहूयाब्रवीदिदम् ।
सावधानेन वै स्थेयमेतत्संरक्षणे सदा
॥६०॥प्रबोध्य स्वचरानिन्द्रोऽर्जुनसंरक्षणादिकम् ।
वात्सल्यपूर्णहृदयः पुनरूचे कपिध्वजम्
॥६१॥इन्द्र उवाच
राज्यं त्वया प्रमादाद्वै न कर्तव्यं कदाचन ।
श्रेयसे भद्र विद्येयं भवेत्तव परन्तप
॥६२॥धैर्यं धार्य साधकेन सर्वथा रक्षकः शिवः ।
संपत्तीश्च फलन्तुल्यं दास्यते नात्र संशयः
॥६३॥नन्दीश्वर उवाच
इति दत्त्वा वरन्तस्य भारतस्य सुरेश्वरः ।
स्मरञ्छिवपदाम्भोजञ्जगाम भवनं स्वकम्
॥६४॥अर्जुनोपि महावीरस्सुप्रणम्य सुरेश्वरम् ।
तपस्तेपे संयतात्मा शिवमुद्दिश्य तद्विधम्
॥६५॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णनप्रसंगेऽर्जुनतपोवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥