शंकरस्यात्मभूपुत्र शृण्वतां सर्वकामदम्
नन्दीश्वर उवाच
अथ प्रीत्या शृणु मुनेऽवतारं परमं प्रभोः ।
शंकरस्यात्मभूपुत्र शृण्वतां सर्वकामदम्
॥१॥एकदा मुनिशार्दूल गिरिजाशंकरावुभौ ।
विहर्तुकामौ संजातौ स्वेच्छया परमेश्वरौ
॥२॥भैरवं द्वारपालं च कृत्वाभ्यन्तरमागतौ ।
नानासखिगणैः प्रीत्या सेवितौ नरशीलितौ
॥३॥चिरं विहृत्य तत्र द्वौ स्वतन्त्रौ परमेश्वरौ ।
बभूवतुः प्रसन्नौ तौ नानालीलाकरौ मुने
॥४॥अथोन्मत्ताकृतिर्देवी स्वतन्त्रा लीलया शिवा ।
आगता द्वारि तद्रूपा प्रभोराज्ञामवाप सा
॥५॥तां देवीं भैरवस्सोथ नारीदृष्ट्या विलोक्य च ।
निषिषेध बहिर्गन्तुं तद्रूपेण विमोहितः
॥६॥नारीदृष्ट्या सुदृष्टा सा भैरवेण यदा मुने ।
कुद्धाऽभवच्छिवा देवी तं शशाप तदांबिका
॥७॥शिवोवाच
नारीदृष्ट्या पश्यसि त्वं यतो मां पुरुषाधम ।
अतो भव धरायां हि मानुषस्त्वं च भैरव
॥८॥नन्दीश्वर उवाच
इत्थं यदाऽभवच्छप्तो भैरवश्शिवया मुने ।
हाहाकारो महानासीद्दुःखमाप स लीलया
॥९॥ततश्च शंकरः शीघ्रं तमागत्य मुनीश्वर ।
आश्वासयद्भैरवं हि नानाऽनुनयकोविदः
॥१०॥तच्छापाद्भैरवस्सोथ क्षिताववतरन्मुने ।
मनुष्ययोन्यां वैतालसंज्ञकश्शंकरेच्छया
॥११॥तत्स्नेहतः शिवः सोपि क्षिताववतरद्विभुः ।
शिवया सह सल्लीलो लौकिकीङ्गतिमाश्रितः
॥१२॥महेशाह्वः शिवश्चासीच्छारदा गिरिजा मुने ।
सुलीलां चक्रतुः प्रीत्या नाना लीला विशारदौ
॥१३॥इति ते कथितं तात महेशचरितं वरम् ।
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम्
॥१४॥य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।
स भुक्त्वेहाखिलान्भोगानन्ते मोक्षमवाप्नुयात्
॥१५॥इति श्रीशिव महापुराणे तृतीयायां शतरुद्रसंहितायां महेशावतारवर्णनं नामैकविंशोध्यायः ॥ २१ ॥