मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय २

3
शतरुद्रसंहिता · 2

शिवाष्टमूर्त्तिवर्णनम्

नन्दीश्वर उवाच

शृणु तात महेशस्यावतारान्परमान्प्रभो ।

सर्वकार्यकराँल्लोके सर्वस्य सुखदान्मुने

॥१॥

तस्य शंभोः परेशस्य मूर्त्यष्टकमयं जगत् ।

तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव

॥२॥

शर्वो भवस्तथा रुद्र उग्रो भीमः पशो पतिः ।

ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः

॥३॥

भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ।

अधिष्ठिताश्च शर्वाद्यैरष्टरूपैः शिवस्य हि

॥४॥

धत्ते चराचरं विश्वं रूपं विश्वंभरात्मकम् ।

शंकरस्य महेशस्य शास्त्रस्यैवेति निश्चयः

॥५॥

संजीवनं समस्तस्य जगतः सलिलात्मकम् ।

भव इत्युच्यते रूपं भवस्य परमात्मनः

॥६॥

बहिरंतर्जगद्विश्वं बिभर्ति स्पन्दतेस्य यम् ।

उग्र इत्युच्यते सद्भी रूपमुग्रस्य सत्प्रभो

॥७॥

सर्वावकाशदं सर्वव्यापकं गगनात्मकम् ।

रूपं भीमस्य भीमाख्यं भूपवृन्दस्व भेदकम्

॥८॥

सर्वात्मनामधिष्ठानं सर्वक्षेत्रनिवासकम् ।

रूपं पशुपतेर्ज्ञेयं पशुपाशनिकृन्तनम्

॥९॥

सन्दीपयञ्जगत्सर्वं दिवाकरसमाह्वयम् ।

ईशानाख्यं महेशस्य रूपं दिवि विसर्पति

॥१०॥

आप्याययति यो विश्वममृतांशुर्निशाकरः ।

महादेवस्य तद्रूपं महादेवस्य चाह्वयम्

॥११॥

आत्मा तस्याष्टमं रूपं शिवस्य परमात्मनः ।

व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम्

॥१२॥

शाखाः पुष्यन्ति वृक्षस्य वृक्षमूलस्य सेचनात् ।

तद्वदस्य वपुर्विश्वं पुष्यते च शिवार्चनात

॥१३॥

यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ।

तथा विश्वस्य सम्प्रीत्या प्रीतो भवति शंकरः

॥१४॥

क्रियते यस्य कस्यापि देहिनो यदि निग्रहः ।

अष्टमूर्त्तेरनिष्टं तत्कृतमेव न संशयः

॥१५॥

अष्टमूर्त्यात्मना विश्वमधिष्ठायास्थितं शिवम् ।

भजस्व सर्वभावेन रुद्रं परमकारणम्

॥१६॥

इति प्रोक्ताः स्वरूपास्ते विधिपुत्राष्टविश्रुताः ।

सर्वोपकारनिरताः सेव्याः श्रेयोर्थिभिर्नरैः

॥१७॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥