मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय ३७

3
शतरुद्रसंहिता · 37

व्यासोपदेशवर्णनम्

नन्दीश्वर उवाच

शृणु प्राज्ञ किराताख्यमवतारम्पिनाकिनः ।

मूकं च हतवान्प्रीतो योऽर्जुनाय वरन्ददौ

॥१॥

सुयोधनजितास्ते वै पाण्डवाः प्रवराश्च ते ।

द्रौपद्या च तया साध्व्या द्वैताख्यं वनमाययुः

॥२॥

तत्रैव सूर्य्यदत्तां वै स्थालीं चाश्रित्य ते तदा ।

कालं च वाहयामासुस्सुखेन किल पाण्डवाः

॥३॥

छलार्थं प्रेरितस्तेन दुर्वासा मुनिपुङ्गवः ।

सुयोधनेन विप्रेन्द्र पाण्डवान्तिकमादरात्

॥४॥

छात्रैः स्वैर्वायुतैस्सार्द्धं ययाचे तत्र तान्मुदा ।

भोज्यं चित्तेप्सितं वै स तेभ्यश्चैव समागतः

॥५॥

स्वीकृत्य पाण्डवैस्तैस्तैः स्नानार्थं प्रेषितास्तदा ।

दुर्वासःप्रमुखाश्चैव मुनयश्च तपस्विनः

॥६॥

अथ ते पाण्डवाः सर्वे अन्नाभावान्मुनीश्वर ।

दुःखिताश्च तदा प्राणांस्त्यक्तुं चित्ते समादधुः

॥७॥

द्रौपद्या च स्मृतः कृष्ण आगतस्तत्क्षणादपि ।

शाकं च भक्षयित्वा तु तेषां तृप्तिं समादधत्

॥८॥

दुर्वासाश्च तदा शिष्यांस्तृप्ताञ्ज्ञात्वा ययौ पुनः ।

पाण्डवाः कृच्छ्रनिर्मुक्ताः कृष्णस्य कृपया तदा

॥९॥

अथ ते पाण्डवाः कृष्णं पप्रच्छुः किम्भविष्यति ।

बलवाञ्छत्रुरुत्पन्नः किं कार्य्यन्तद्वद प्रभो

॥१०॥

नन्दीश्वर उवाच

इति पृष्ठस्तदा तैस्तु श्रीकृष्णः पाण्डवैर्मुने ।

स्मृत्वा शिवपदाम्भोजौ पाण्डवानिदमब्रवीत्

॥११॥

श्रीकृष्ण उवाच

श्रूयतां पाण्डवाः श्रेष्ठाः श्रुत्वा कर्तव्यमेव हि ।

मद्वृत्तान्तं विशेषेण शिवसेवासमन्वितम्

॥१२॥

द्वारकां च मया गत्वा शत्रूणां विजिगीषया ।

विचार्य्य चोपदेशांश्च उपमन्योर्महात्मनः

॥१३॥

मया ह्याराधितः शम्भुः प्रसन्नः परमेश्वरः ।

बटुके पर्वतश्रेष्ठे सप्तमासं सुसेवितः

॥१४॥

इष्टान्कामानदान्मह्यं विश्वेशश्च स्वयं स्थितः ।

तत्प्रभावान्मया सर्वसामर्थ्यं लब्धमुत्तमम्

॥१५॥

इदानीं सेव्यते देवो भुक्तिमुक्ति फलप्रदः ।

यूयं सेवत तं शम्भुमपि सर्वसुखावहम्

॥१६॥

नन्दीश्वर उवाच

इत्युक्त्वान्तर्दधे कृष्ण आश्वास्याथ च पाण्डवान् ।

द्वारकामगमच्छीघ्रं स्मरच्छिवपदाम्बुजम्

॥१७॥

पाण्डवा अथ भिल्लं च प्रेषयामासुरोजसा ।

गुणानां च परीक्षार्थं तस्य दुर्योधनस्य च

॥१८॥

सोपि सर्वं च तत्रत्यन्दुर्योधनगुणोदयम् ।

समीचीनं च तज्ज्ञात्वापुनः प्राप प्रभून्प्रति

॥१९॥

तदुक्तन्ते निशम्यैवं दुखम्प्रापुर्मुनीश्वर ।

परस्परं समूचुस्ते पाण्डवा अतिदुःखिताः

॥२०॥

किङ्कर्तव्यं क्व गन्तव्यमस्माभिरधुना युधि ।

समर्था अपि वै सर्वे सत्यपाशेन यन्त्रिताः

॥२१॥

नन्दीश्वर उवाच

एतस्मिन्समये व्यासो भस्मभूषितमस्तकः ।

रुद्राक्षाभरणश्चायाज्जटाजूटविभूषितः

॥२२॥

पञ्चाक्षरं जपन्मंत्रं शिवप्रेमसमाकुलः ।

तेजसां च स्वयंराशिस्साक्षाद्धर्म इवापरः

॥२३॥

तन्दृष्ट्वा ते तदा प्रीता उत्थाय पुरतः स्थिताः ।

दत्त्वासनं तदा तस्मै कुशाजिनसुशोभितम्

॥२४॥

तत्रोपविष्टं तं व्यासं पूजयन्ति स्म हर्षिताः ।

स्तुतिं च विविधां कृत्वा धन्याः स्म इति वादिनः

॥२५॥

तपश्चैव सुसन्तप्तं दानानि विविधानि च ।

तत्सर्वं सफलं जातं तृप्तास्ते दर्शनात्प्रभो

॥२६॥

दुःखं च दूरतो जातन्दर्शनात्ते पितामह ।

दुष्टैश्चैव महादुःखं दत्तं नः क्रूरकर्मभिः

॥२७॥

श्रीमतान्दर्शने जाते दुःखं चैव गमिष्यति ।

कदाचिन्न गतं तत्र निश्चयोयं विचारितः

॥२८॥

महतामाश्रमे प्राप्ते समर्थे सर्वकर्मणि ।

यदि दुःखं न गच्छेतु दैवमेवात्र कारणम्

॥२९॥

निश्चयेनैव गच्छेतु दारिद्यं दुःखकारणम् ।

महतां च स्वभावोयं कल्पवृक्षसमो मतः

॥३०॥

तद्गुणानेव गणयेन्महतो वस्तुमात्रतः ।

आश्रयस्य वशादेव पुंसो वै जायते प्रभो

॥३१॥

लघुत्वं च महत्त्वं च नात्र कार्य्या विचारणा ।

उत्तमानां स्वभावोयं यद्दीनप्रतिपालनम्

॥३२॥

रंकस्य लक्षणं लोके ह्यतिश्रेयस्करं मतम् ।

पुरोऽस्य परयत्नो वै सुजनानां च सेवनम्

॥३३॥

अतः परं च भाग्यं वै दोषश्चैव न दीयताम् ।

एतस्मात्कारणात्स्वामिंस्त्वयि दृष्टो शुभन्तदा

॥३४॥

त्वदागमनमात्रेण सन्तुष्टानि मनांसि नः ।

दिशोपदेशं येनाशु दुःखं नष्टम्भवेच्च नः

॥३५॥

नन्दीश्वर उवाच

इत्येतद्वचनं श्रुत्वा पाण्डवानां महामुनिः ।

प्रसन्नमानसो भूत्वा व्यासश्चैवाब्रवीदिदम्

॥३६॥

हे पाण्डवाश्च यूयं वै न कष्टं कर्तुमर्हथ ।

धन्याः स्थ कृतकृत्याः स्थ सत्यं नैव विलोपितम्

॥३७॥

सुजनानां स्वभावोयं प्राणान्तेऽपि सुशोभनः ।

धर्मं त्यजन्ति नैवात्र सत्यं सफलभाजनम्

॥३८॥

अस्माकं चैव यूयं च ते चापि समताङ्गताः ।

तथापि पक्षपातो वै धर्मिष्ठानां मतो बुधैः

॥३९॥

धृतराष्ट्रेन दुष्टेन प्रथमं च ह्यचक्षुषा ।

धर्मस्त्यक्तः स्वयं लोभाद्युष्माकं राज्यमाहृतम्

॥४०॥

तस्य यूयं च ते चापि पुत्रा एव न संशयः ।

पितर्य्युपरते बाला अनुकंप्या महात्मनः

॥४१॥

पश्चात्पुत्रश्च तेनैव वारितो न कदाचन ।

अनर्थो नैव जायेत यच्चैवं च कृतन्तदा

॥४२॥

अतः परं च यज्जातं तज्जातं नान्यथाभवेत् ।

अयन्दुष्टो भवन्तश्च धर्मिष्ठाः सत्यवादिनः

॥४३॥

तस्मादन्ते च तस्यैवाशुभं हि भविता धुवम् ।

यच्चैव वापितं बीजं तत्प्ररोहो भवेदिह

॥४४॥

तस्माद्दुःखं न कर्तव्यं भवद्भिः सर्वथा ध्रुवम् ।

भविष्यति शुभं वो हि नात्र कार्य्या विचारणा

॥४५॥

नन्दीश्वर उवाच

इत्युक्त्वा पाण्डवाः सर्वे तेन व्यासेन प्रीणिताः ।

युधिष्ठिरमुखास्ते च पुनरेवाब्रुवन्वचः

॥४६॥

पाण्डवा ऊचुः

सत्यमुक्तन्त्वया नाथ दुष्टैर्दुःखं निरंतरम् ।

दुष्टात्मभिर्वने चापि दीयते हि मुहुर्मुहुः

॥४७॥

तन्नाशयाशुभम्मेद्य किंचिद्देयं शुभं विभो ।

कृष्णेन कथितं पूर्वमाराध्यश्शङ्करस्सदा

॥४८॥

प्रमादश्च कृतोऽस्माभिस्तद्वचश्शिथिलीकृतम् ।

स देवमार्गस्तु पुनरिदानीमुपदिश्यताम्

॥४९॥

नन्दीश्वर उवाच

इत्येतद्वचनं श्रुत्वा व्यासो हर्षसमन्वितः ।

उवाच पाण्डवान्प्रीत्या स्मृत्वा शिवपदांबुजम्

॥५०॥

व्यास उवाच

श्रूयतां वचनं मेद्य पांडवा धर्मबुद्धयः ।

सत्यमुक्तं तु कृष्णेन मया संसेव्यते शिवः

॥५१॥

भवद्भिः सेव्यतां प्रीत्या सुखं स्यादतुलं सदा ।

सर्वदुःखं भवत्येव शिवाऽसेवात एव हि

॥५२॥

नंदीश्वर उवाच

अथ पंचसु तेष्वेव विचार्य्य शिवपूजने ।

अर्जुनं योग्यमुच्चार्य व्यासो मुनिवरस्तथा

॥५३॥

तपःस्थानं विचार्य्यैवं ततस्स मुनिसत्तमः ।

पाण्डवान्धर्मसन्निष्ठान्पुनरेवाब्रवीदिदम्

॥५४॥

व्यास उवाच

श्रूयताम्पाण्डवास्सर्वे कथयामि हितं सदा ।

शिवं सर्वं परं दृष्ट्वा परं ब्रह्म सताङ्गतिम्

॥५५॥

ब्रह्मादित्रिपरार्द्धान्तं यत्किंचिद्दृश्यते जगत् ।

तत्सर्वं शिवरूपं च पूज्यन्ध्येयं च तत्पुनः

॥५६॥

सर्वेषां चैव सेष्योसौ शङ्करस्सर्वदुःखहा ।

शिवः स्वल्पेन कालेन संप्रसीदति भक्तितः

॥५७॥

सुप्रसन्नो महेशो हि भक्तेभ्यः सकलप्रदः ।

भुक्तिं मुक्तिमिहामुत्र यच्छतीति सुनिश्चितम्

॥५८॥

तस्मात्सेव्यस्सदा शभ्भुर्भुक्तिमुक्तिफलेप्सुभिः ।

पुरुषश्शङ्करः साक्षाद्दुष्टहन्ता सतांगतिः

॥५९॥

परन्तु प्रथमं शक्रविद्यां दृढमना जपेत् ।

क्षत्रियस्य पराख्यस्य चेदमेव समाहितम्

॥६०॥

अतोर्जुनश्च प्रथमं शक्रविद्यां जपेद्दृढः ।

करिष्यति परीक्षाम्प्राक् संतुष्टस्तद्भविष्यति

॥६१॥

सुप्रसन्नश्च विघ्नानि संहरिष्यति सर्वदा ।

पुनश्चैवं शिवस्यैव वरं मन्त्रं प्रदास्यति

॥६२॥

नन्दीश्वर उवाच

इत्युक्त्वार्जुनमाहूयोपेन्द्रविद्यामुपादिशत् ।

स्नात्वा च प्राङ्मुखो भूत्वा जग्राहार्जुन उग्रधीः

॥६३॥

पार्थिवस्य विधानं च तस्मै मुनिवरो ददौ ।

प्रत्युवाच च तं व्यासो धनंजयमुदारधीः

॥६४॥

व्यास उवाच

इतो गच्छाधुना पार्थ इन्द्रकीले सुशोभने ।

जाह्नव्याश्च समीपे वै स्थित्वा सम्यक् तपः कुरु

॥६५॥

अदृश्या चैव विद्या स्यात्सदा ते हितकारिणी ।

इत्याशिषन्ददौ तस्मै ततः प्रोवाच तान्मुनिः

॥६६॥

धर्म्ममास्थाय सर्वं वै तिष्ठन्तु नृपसत्तमाः ।

सिद्धिः स्यात्सर्वथा श्रेष्ठा नात्र कार्या विचारणा

॥६७॥

नन्दीश्वर उवाच

इति दत्त्वाशिषन्तेभ्यः पाण्डवेभ्यो मुनीश्वरः ।

स्मृत्वा शिवपदाम्भोजं व्यासश्चान्तर्दधे क्षणात्

॥६८॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णनप्रसंगेऽर्जुनाय व्यासोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥