नन्दिकेशावतारवर्णनम्
अथ नन्दीश्वरावतारमाह ।
सनत्कुमार उवाच ।
भवान्कथमनुप्राप्तो महादेवांशजः शिवम् ।
श्रोतुमिच्छामि तत्सर्वं वक्तुमर्हसि मे प्रभो
॥१॥नन्दीश्वर उवाच
सनत्कुमार सर्वज्ञ सावधानतया शृणु ।
यथाहं च शिवं प्राप्तो महादेवांशजो मुने
॥२॥प्रजाकामः शिलादोऽभूदुक्तः पितृभिरादरात् ।
तदुद्धर्तुमना भक्त्या समुद्धारमभीप्सुभिः
॥३॥अधोदृष्टिः सुधर्मात्मा शिलादो नाम वीर्यवान् ।
तस्यासीन्मुनिकैर्वृत्तिः शिवलोके च सोगमत्
॥४॥शक्रमुद्दिश्य स मुनिस्तपस्तेपे सुदुः सहम् ।
निश्चलात्मा शिलादाख्यो बहुकालं दृढव्रतः
॥५॥तपतस्तस्य तपसा संतुष्टोऽभूच्छतक्रतुः ।
जगाम च वरं दातुं सर्वदेवप्रभुस्तदा
॥६॥शिलादमाह सुप्रीत्या शक्रस्तुष्टोऽस्मि तेऽनघ ।
तेन त्वं मुनिशार्दूल वरयस्व वरानिति
॥७॥ततः प्रणम्य देवेशं स्तुत्वा स्तुतिभिरादरात् ।
शिलादो मुनिशार्दूलस्तमाह सुकृताञ्जलिः
॥८॥शिलाद उवाच
शतक्रतो सुरेशान सन्तुष्टो यदि मे प्रभो ।
अयोनिजं मुत्युहीनं पुत्रमिच्छामि सुव्रतम्
॥९॥शक्र उवाच
पुत्रं दास्यामि पुत्रार्थिन्योनिजं मृत्युसंयुतम् ।
अन्यथा ते न दास्यामि मृत्युहीना न सन्ति वै
॥१०॥न दास्यामि सुतं तेऽहं मृत्युहीनमयोनिजम् ।
हरिर्विधिश्च भगवान्किमुतान्यो महामुने
॥११॥तावपि त्रिपुरार्यंगसम्भावौ मरणान्वितौ ।
तयोरप्यायुषा मानं कथितं निगमे पृथक्
॥१२॥तस्मादयोनिजे पुत्रे मृत्युहीने प्रयत्नतः ।
परित्यजाशां विप्रेन्द्र गृहाणात्मक्षमं सुतम्
॥१३॥किन्तु देवेश्वरो रुद्रः प्रसीदति महेश्वरः ।
सुदुर्लभो मृत्युहीनस्तव पुत्रो ह्ययोनिजः
॥१४॥अहं च विष्णुर्भगवान्द्रुहिणश्च महामुने ।
अयोनिजं मृत्युहीनं पुत्रं दातुं न शक्नुमः
॥१५॥आराधय महादेवं तत्पुत्रविनिकाम्यया ।
सर्वेश्वरो महाशक्तः स ते पुत्रं प्रदास्यति
॥१६॥नन्दीश्वर उवाच
एवं व्याहृत्य विप्रेन्द्रमनुगृह्य च तं घृणी ।
देवैर्वृतः सुरेशानस्स्वलोकं समगान्मुने
॥१७॥गते तस्मिंश्च वरदे सहस्राक्षे शिलाशनः ।
आराधयन्महादेवं तपसातोषयद्भवम्
॥१८॥अथ तस्यैवमनिशन्तत्परस्य द्विजस्त वै ।
दिव्यम्वर्षसहस्रं तु गतं क्षणमिवाद्भुतम्
॥१९॥वल्मीकेन वृतांगश्च लक्षकोटगणैर्मुनिः ।
सूचीमुखैश्चान्यै रक्तभुग्भिश्च सर्वतः
॥२०॥निर्मांसरुधिर त्वग्वै बिले तस्मिन्नवस्थितः ।
अस्थिशेषोभवत्पश्चाच्छिलादो मुनिसत्तमः
॥२१॥तुष्टः प्रभुस्तदा तस्मै दर्शयामास स्वां तनुम् ।
दिव्यां दिव्यगुणैर्युक्तामलभ्यां वामबुद्धिभिः
॥२२॥दिव्यवर्षसहस्रेण तप्यमानाय शूलधृक् ।
सर्वदेवाधिपस्तस्मै वरदोस्मीत्यभाषत
॥२३॥महासमाधिसंलीनस्स शिलादो महामुनिः ।
नाशृणोत्तद्गिरं शम्भोर्भक्त्यधीनरतस्य वै
॥२४॥यदा स्पृष्टो मुनिस्तेन करेण त्रिपुरारिणा ।
तदैव मुनिशार्दूल उत्ससर्ज? तपःक्रमम्
॥२५॥अथोन्मील्य मुनिर्नेत्रे सोमं शंभुं विलोकयन् ।
द्रुतं प्रणम्य स मुदा पादयोर्न्यपतन्मुने
॥२६॥हर्षगद्गदया वाचा नतस्कंधः कृताञ्जलिः ।
प्रसन्नात्मा शिलादस्स तुष्टाव परमेश्वरम्
॥२७॥ततः प्रसन्नो भगवान्देवदेवस्त्रिलोचनः ।
वरदोऽस्मीति तम्प्राह शिलादं मुनिपुंगवम्
॥२८॥तपसानेन किं कार्यं भवते हि महा मते ।
ददामि पुत्रं सर्वज्ञं सर्वशास्त्रार्थपारगम्
॥२९॥ततः प्रणम्य देवेशं तच्छ्रुत्वा च शिलाशनः ।
हर्षगद्गदया वाचोवाच सोमविभूषणम्
॥३०॥शिलाद उवाच
महेश यदि तुष्टोऽसि यदि वा वरदश्च मे ।
इच्छामि त्वत्समं पुत्रं मृत्युहीनमयोनिजम्
॥३१॥नंदीश्वर उवाच
एवमुक्तस्ततो देवस्त्र्यम्बकस्तेन शङ्करः ।
प्रत्युवाच प्रसन्नात्मा शिलादं मुनिसत्तमम्
॥३२॥शिव उवाच
पूर्वमाराधितो विप्र ब्रह्मणाहं तपोधन ।
तपसा चावतारार्थं मुनिभिश्च सुरोत्तमैः
॥३३॥तव पुत्रो भविष्यामि नन्दी नाम्ना त्वयोनिजः ।
पिता भविष्यसि मम पितुर्वै जगतां मुने
॥३४॥नन्दीश्वर उवाच
एवमुक्त्वा मुनिं प्रेक्ष्य प्रणिपत्यास्थितं घृणी ।
सोमस्तूर्णं तमादिश्य तत्रैवान्तर्दधे हरः
॥३५॥गते तस्मिन्महादेवे स शिलादो महामुनिः ।
स्वमाश्रयमुपागम्य ऋषिभ्योऽकथयत्ततः
॥३६॥कियता चैव कालेन तदासौ जनकः स मे ।
यज्ञांगणं चकर्षाशु यज्ञार्थं यज्ञवित्तमः
॥३७॥ततः क्षणादहं शंभोस्तनुजस्तस्य चाज्ञया ।
स जातः पूर्व्वमेवाहं युगान्ताग्निसमप्रभः
॥३८॥अवर्षंस्तदा पुष्करावर्तकाद्या जगुः खेचराः किन्नराः सिद्धसाध्या ।
शिलादात्मजत्वं गते मय्यृषीन्द्रास्समन्ताच्च वृष्टिं व्यधुः कौसुमीं ते
॥३९॥अथ ब्रह्मादयो देवा देवपल्यश्च सर्वशः ।
तत्राजग्मुश्च सुप्रीत्या हरिश्चैव शिवोऽम्बिका
॥४०॥तदोत्सवो महानासीन्ननृतुश्चाप्सरोगणाः ।
आदृत्य मां तथा लिंगं तुष्टुवुर्हर्षिताश्च ते
॥४१॥सुप्रशस्य शिलादं तं स्तुत्वा च सुस्तवैः शिवौ ।
सर्वे जग्मुश्च धामानि शिवावप्यखिलेश्वरौ
॥४२॥शिलादोऽपि च मां दृष्ट्वा कालसूर्य्यानलप्रभम् ।
त्र्यक्षं चतुर्भुजं बालं जटामुकुटधारिणम्
॥४३॥त्रिशूलाद्यायुधं दीप्तं सर्वथा रुद्ररूपिणम् ।
महानन्दभरः प्रीत्या प्रणम्यं प्रणनाम च
॥४४॥शिलाद उवाच
त्वयाहं नन्दितो यस्मान्नन्दी नाम्ना सुरेश्वर ।
तस्मात्त्वां देवमानन्दं नमामि जगदीश्वरम्
॥४५॥नन्दीश्वर उवाच
मया सह पिता हृष्टः सुप्रणम्य महेश्वरम् ।
उटजं स्वं जगामाशु निधिं लब्ध्वेव निर्धनः
॥४६॥यदा गतोहमुटजं शिलादस्य महामुने ।
तदाहं तादृशं रूपं त्यक्त्वा मानुष्यमास्थितः
॥४७॥मानुष्यमास्थितं दृष्ट्वा पिता मे लोकपूजितः ।
विललापातिदुःखार्त्तः स्वजनैश्च समावृतः
॥४८॥जातकर्मादिकान्येव सर्वाण्यपि चकार मे ।
शालंकायनपुत्रो वै शिलादः पुत्रवत्सलः
॥४९॥वेदानध्यापयामास सांगोपांगानशेषतः ।
शास्त्राण्यन्यान्यपि तथा पञ्चवर्षे पिता च माम्
॥५०॥सम्पूर्णे सप्तमे वर्षे मित्रावरुणसंज्ञकौ ।
मुनी तस्याश्रमं प्राप्तौ द्रष्टुं मां चाज्ञया विभोः
॥५१॥सत्कृतौ मुनिना तेन सूपविष्टो महामुनी ।
ऊचतुश्च महात्मानौ मां निरीक्ष्य मुहुर्मुहुः
॥५२॥मित्रावरुणावूचतुः
तात नंदीस्तवाल्पायुः सर्वशास्त्रार्थपारगः ।
न दृष्टमेव चापश्यं ह्यायुर्वर्षादतः परम्
॥५३॥विप्रयोरित्युक्तवतोः शिलादः पुत्रवत्सलः ।
तमालिङ्ग्य च दुःखार्त्तो रुरोदातीव विस्वरम्
॥५४॥मृतवत्पतितं दृष्ट्वा पितरं च पितामहम् ।
प्रत्यवोचत्प्रसन्नात्मा स्मृत्वा शिवपदाम्बुजम्
॥५५॥केन त्वं तात दुःखेन वेपमानश्च रोदिषि ।
दुःखं ते कुत उत्पन्नं ज्ञातुमिच्छामि तत्त्वतः
॥५६॥पितोवाच
तवाल्पमृत्युदुःखेन दुःखितोऽतीव पुत्रक ।
को मे दुःखं हरतु वै शरणं प्रयामि हि
॥५७॥पुत्र उवाच
देवो वा दानवो वापि यमः कालोथ वापि हि ।
ऋध्येयुर्यद्यपि ह्येते मामन्येपि जनास्तथा
॥५८॥अथापि चाल्पमृत्युर्मे न भविष्यति मां तुदः ।
सत्यं ब्रवीमि जनकं शपथन्ते करोम्यहम्
॥५९॥पितोवाच
किं तपः किं परिज्ञानं को योगश्च प्रभुश्च ते ।
येन त्वं दारुणं दुःखं वञ्चयिष्यसि पुत्र मे
॥६०॥पुत्र उवाच
न तात तपसा मृत्युं वंचयिष्ये न विद्यया ।
महादेवस्य भजनान्मृत्युं जेष्यामि नान्यथा
॥६१॥नन्दीश्वर उवाच
इत्युक्त्वाहं पितुः पादौ प्रणम्य शिरसा मुने ।
प्रदक्षिणीकृत्य च तमगच्छं वनमुत्तमम्
॥६२॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दिकेशावतारवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥