मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय १०

3
शतरुद्रसंहिता · 10

नृसिंहचरितवर्णनम्

नंदीश्वर उवाच

विध्वंसी दक्षयज्ञस्य वीरभद्राह्वयः प्रभो ।

अवतारश्च विज्ञेयः शिवस्य परमात्मनः

॥१॥

सतीचरित्रे कथितं चरितं तस्य कृत्स्नशः ।

श्रुतं त्वयापि बहुधा नातः प्रोक्तं सुविस्तरात्

॥२॥

अतः परं मुनिश्रेष्ठ भवत्स्नेहाद्ब्रवीमि तत् ।

शार्दूलाख्यावतारं च शङ्करस्य प्रभोः शृणु

॥३॥

सदाशिवेन देवानां हितार्थं रूपमद्भुतम् ।

शारभं च धृतन्दिव्यं ज्वलज्ज्वालासमप्रभम्

॥४॥

शिवावतारा अमिता सद्भक्तहितकारकाः ।

सङ्ख्या न शक्यते कर्तुं तेषां च मुनिसत्तमाः

॥५॥

आकाशस्य च ताराणां रेणुकानां क्षितेस्तथा ।

आसाराणां च वृद्धेन बहुकल्पैः कदापि हि

॥६॥

सङ्ख्या विशक्यते कर्तुं सुप्राज्ञैर्बहुजन्मभिः ।

शिवावताराणां नैव सत्यं जानीहि मद्वचः

॥७॥

तथापि च यथाबुद्ध्या कथयामि कथाश्रुतम् ।

चरित्रं शारभं दिव्यं परमैश्वर्य्यसूचकम्

॥८॥

जयश्च विजयश्चैव भवद्भिः शापितौ यदा ।

तदा दितिसुतौ द्वौ तावभूतां कश्यपान्मुने

॥९॥

हिरण्यकशिपुश्चाद्यो हिरण्याक्षोऽनुजो बली ।

देवर्षिपार्षदौ जातौ तौ द्वावपि दितेस्सुतौ

॥१०॥

पृथ्व्युद्धारे विधात्रा व प्रार्थितो हि पुरा प्रभुः ।

हिरण्याक्षं जघानासौ विष्णुर्वाराहरूपधृक् ।

तं श्रुत्वा भ्रातरं वीरं निहतं प्राणसन्निभम् ।

चुकोप हरयेऽतीव हिरण्यकशिपुर्मुने

॥१२॥

वर्षाणामयुतं तप्त्वा ब्रह्मणो वरमाप सः ।

न कश्चिन्मारयेन्मां वै त्वत्सृष्टाविति तुष्टतः

॥१३॥

शोणिताख्यपुरं गत्वा देवानाहूय सर्वतः ।

त्रिलोकीं स्ववशे कृत्वा चक्रे राज्यमकण्टकम्

॥१४॥

देवर्षिकदनं चक्रे सर्वधर्म विलोपकः ।

द्विजपीडाकरः पापी हिरण्यकशिपुर्मुने

॥१५॥

प्रह्लादेन स्वपुत्रेण हरिभक्तेन दैत्यराट् ।

यदा विद्वेषमकरोद्धरिर्वैरं विशेषतः

॥१६॥

सभास्तम्भात्तदा विष्णुरभूदाविर्द्रुतम्मुने ।

सन्ध्यायां क्रोधमापन्नो नृसिंहवपुषा ततः

॥१७॥

सर्वथा मुनिशार्दूल करालं नृहरेर्व्वपुः ।

प्रजज्वालातिभयदं त्रासयन्दैत्यसत्तमान्

॥१८॥

नृसिंहेन तदा दैत्या निहताश्चैव तत्क्षणम् ।

हिरण्यकशिपुश्चाथ युद्धञ्चक्रे सुदारुणम्

॥१९॥

महायुद्धं तयोरासीन्मुहूर्त्तम्मुनिसत्तमाः ।

विकरालं च भयदं सर्वेषां रोमहर्षणम्

॥२०॥

सायं चकर्ष देवेशो देहल्यां दैत्यपुङ्गवम् ।

व्योम्नि देवेषु पश्यत्सु नृसिंहश्च रमेश्वरः

॥२१॥

अथोत्संगे च तं कृत्वा नखैस्तदुदरन्द्रुतम् ।

विदार्य मारयामास पश्यतां त्रिदिवौकसाम्

॥२२॥

हते हिरण्यकशिपौ नृसिंहे नैव विष्णुना ।

जगत्स्वास्थ्यन्तदा लेभे न वै देवाविशेषतः

॥२३॥

देवदुन्दुभयो नेदुः प्रह्लादो विस्मयं गतः ।

लक्ष्मीश्च विस्मयं प्राप्ता रूपं दृष्ट्वाऽद्भुतं हरेः

॥२४॥

हतो यद्यपि दैत्येन्द्रस्तथापि न पुरं सुखम् ।

ययुर्देवा नृसिंहस्य ज्वाला सा न निवर्तिता

॥२५॥

तया च व्याकुलं जातं सर्वं चैव जगत्पुनः ।

देवाश्च दुःखमापन्नाः किम्भविष्यति वा पुनः

॥२६॥

इत्येवं च वदन्तस्ते भयादूदूरमुपस्थि ताः ।

नृसिंहक्रोधजज्वालाव्याकुलाः पद्मभूमुखाः

॥२७॥

प्रह्रादं प्रेषयामासुस्तच्छान्त्यै निकटं हरेः ।

सर्वान्मिलित्वा प्रह्लादः प्रार्थितो गतवांस्तदा

॥२८॥

उरसाऽऽलिंगयामास तं नृसिंहः कृपानिधिः ।

हृदयं शीतलं जातं रुड्ज्वाला न निवर्त्तिता

॥२९॥

तथापि न निवृता रुड्ज्वाला नरहरेर्यदा ।

इष्टं प्राप्तास्ततो देवाश्शंकर शरणं ययुः

॥३०॥

तत्र गत्वा सुरास्सर्वे ब्रह्माद्या मुनय स्तथा ।

शंकरं स्तवयामासुर्लोकानां सुखहेतवे

॥३१॥

देवा ऊचुः

देवदेव महादेव शरणागतवत्सल ।

पाहि नः शरणापन्ना न्सर्वान्देवाञ्जगन्ति च

॥३२॥

नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु सदाशिव ।

पूर्वं दुःखं यदा जातं तदा ते रक्षिता वयम्

॥३३॥

समुद्रो मथितश्चैव रत्नानां च विभागशः ।

कृते देवैस्तदा शंभो गृहीतं गरलन्त्वया

॥३४॥

रक्षिताः स्म तदा नाथ नीलकण्ठ इति श्रुतः ।

विषं पास्यसि नो चेत्त्वं भस्मीभूतास्तदाखिलाः

॥३५॥

प्रसिद्धं च यदा यस्य दुःखं च जायते प्रभो ।

तदा त्वन्नाममात्रेण सर्वदुःखं विलीयते

॥३६॥

इदानीं नृहरिज्वालापीडितान्नस्सदाशिव ।

तां त्वं शमयितुं देव शक्तोऽसीति सुनिश्चितम्

॥३७॥

नन्दीश्वर उवाच

इति स्तुतस्तदा देवैश्शंकरो भक्तवत्सलः ।

प्रत्युवाच प्रसन्नात्माऽभयन्दत्त्वा परप्रभुः

॥३८॥

शंकर उवाच

स्वस्थानं गच्छत सुरास्सर्व्वे ब्रह्मादयोऽभयाः ।

शमयिष्यामि यद्दुःखं सर्वथा हि व्रतम्मम

॥३९॥

गतो मच्छरणं यस्तु तस्य दुःखं क्षयं गतम् ।

मत्प्रियः शरणापन्नः प्राणेभ्योऽपि न संशयः

॥४०॥

नन्दीश्वर उवाच

इति श्रुत्वा तदा देवा ह्यानन्दम्परमं गताः ।

यथागतं तथा जग्मुस्स्मरन्तश्शंकरं मुदा

॥४१॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शार्दूलावतारे नृसिंहचरितवर्णनं नाम दशमोऽध्यायः ॥ १० ॥