मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय १६

3
शतरुद्रसंहिता · 16

यक्षेश्वरावतारं च शृणु शंभोर्मुनीश्वर

नन्दीश्वर उवाच

यक्षेश्वरावतारं च शृणु शंभोर्मुनीश्वर ।

गर्विणं गर्वहन्तारं सताम्भक्तिविवर्द्धनम्

॥१॥

पुरा देवाश्च दैत्याश्च पीयूषार्थम्महाबलाः ।

क्षीरोदधिं ममन्थुस्ते सुकृत स्वार्थ सन्धयः

॥२॥

मथ्यमानेऽमृते पूर्वं क्षीराब्धेस्सुरदानवैः ।

अग्नेः समुत्थितं तस्माद्विषं कालानलप्रभम्

॥३॥

तं दृष्ट्वा निखिला देवा दैत्याश्च भयविह्वलाः ।

विद्रुत्य तरसा तात शंभोस्ते शरणं ययुः

॥४॥

दृष्ट्वा तं शंकरं सर्वे सर्वदेवशिखामणिम् ।

प्रणम्य तुष्टुवुर्भक्त्या साच्युता नतमस्तकाः

॥५॥

ततः प्रसन्नो भगवाच्छङ्करो भक्तवत्सलः ।

पपौ विषं महाघोरं सुरासुरगणार्दनम्

॥६॥

पतिं तं विषमं कण्ठे निदधे विषमुल्बणम् ।

रेजेतेनाति स विभुर्नीलकण्ठो बभूव ह

॥७॥

ततः सुरा सुरगणा ममन्थुः पुनरेव तम् ।

विषदाहविनिर्मुक्ताः शिवानुग्रहतोऽखिलाः

॥८॥

तातो बहूनि रत्नानि निस्सृतानि ततो मुने ।

अमृतं च पदार्थं हि सुरदानवयोर्मुने

॥९॥

तत्पपुः केवलन्देवा नासुराः कृपया हरेः ।

ततो बभूव सुमहद्रत्नं तेषां मिथोऽकदम्

॥१०॥

द्वन्द्वयुद्धम्बभूवाथ देवदानवयोर्मुने ।

तत्र राहुभयाच्चन्द्रो विदुद्राव तदर्दितः

॥११॥

जगाम सदनं शंभोः शरणम्भय विह्वलः ।

सुप्रणम्य च तुष्टाव पाहिपाहीति संवदन्

॥१२॥

ततस्सतामभयदः शंकरो भक्तवत्सलः ।

दध्रे शिरसि चन्द्रं स विभुश्शरणमागतम्

॥१३॥

अथागतस्तदा राहुस्तुष्टाव सुप्रणम्य तम् ।

शंकरं सकलाधीशं वाग्भिरिष्टाभिरादरात्

॥१४॥

शंभुस्तन्मतमाज्ञाय तच्छिरांस्यच्युतेन ह ।

पुरा छिन्नानि वै केतुसंज्ञानि निदधे गले

॥१५॥

ततो युद्धेऽसुराः सर्वे देवैश्चैव पराजिताः ।

पीत्वाऽमृतं सुरास्सर्व्वे जयम्प्रापुर्महाबलाः

॥१६॥

विष्णुप्रभृतयः सर्व्वे बभूवुश्चातिगर्विताः ।

बलानि चांकुरंतोन्तश्शिवमायाविमोहिताः

॥१७॥

ततस्स शंकरो देवः सर्वाधीशोथ गर्वहा ।

यक्षो भूत्वा जगामाशु यत्र देवाः स्थिता मुने

॥१८॥

सर्वान्दृष्ट्वाच्युतमुखान्देवान्यक्षपतिस्स वै ।

महागर्वाढ्यमनसा महेशाः प्राह गर्वहा

॥१९॥

यक्षेश्वर उवाच

किमर्थं संस्थिता यूयमत्र सर्वे सुरा मिथः ।

किमु काष्ठाखिलम्ब्रूत कारणं मेनुपृच्छते

॥२०॥

देवा ऊचुः

अभूदत्र महान्देव रणः परमदारुणः ।

असुरा नाशितास्सर्वेऽवशिष्टा विद्रुता गताः

॥२१॥

वयं सर्वे महावीरा दैत्यघ्ना बलवत्तराः ।

अग्रेस्माकं कियन्तस्ते दैत्य क्षुद्रबलास्सदा

॥२२॥

नन्दीश्वर उवाच

इति श्रुत्वा वचस्तेषां सुराणां गर्वगर्भितम् ।

गर्वहासौ महादेवो यक्षरूपो वचोऽब्रवीत्

॥२३॥

यक्षेश्वर उवाच

हे सुरा निखिला यूयं मद्वचश्शृणुतादरात् ।

यथार्थं वच्मि नासत्यं सर्वगर्वापहारकम्

॥२४॥

गर्व्वमेनं न कुरुत कर्त्ता हर्त्ताऽपरः प्रभुः ।

विस्मृताश्च महेशानं कथयध्वम्वृथाबलाः

॥२५॥

युष्माकञ्चेत्स हि मदो जानतां स्वबलम्महत् ।

मत्स्थापितं तृणमिदं छिन्त स्वास्त्रैश्च तैस्सुराः

॥२६॥

नन्दीश्वर उवाच

इत्युक्त्वैकतृणन्तेषां निचिक्षेप पुरस्ततः ।

जह्रे सर्वमदं यक्षरूप ईशस्सतांगतिः

॥२७॥

अथ सर्वे सुरा विष्णुप्रमुखा वीरमानिनः ।

कृत्वा स्वपौरुषन्तत्र स्वायुधानि विचिक्षिपुः

॥२८॥

तत्रासन् विफलान्याशु तान्यस्त्राणि दिवौकसाम् ।

शिवप्रभावतस्तेषां मूढगर्वापहारिणः

॥२९॥

अथासीत्तु नभोवाणी देवविस्मयहारिणी ।

यक्षोऽयं शंकरो देवाः सर्वगर्वापहारकः

॥३०॥

कर्ता हर्त्ता तथा भर्त्ताऽयमेव परमेश्वरः ।

एतद्बलेन वलिनो जीवाः सर्वेऽन्यथा न हि

॥३१॥

अस्य मायाप्रभावाद्वै मोहिताः स्वप्रभुं शिवम् ।

मदतो बुबुधु नैवाद्यापि बोधतनुम्प्रभुम्

॥३२॥

नन्दीश्वर उवाच

इति श्रुत्वा नभोवाणीं बुबुधुस्ते गतस्मयाः ।

यक्षेश्वरम्प्रणेमुश्च तुष्टुवुश्च तमीश्वरम्

॥३३॥

देवा ऊचुः

देवदेव महादेव सर्वगर्वापहारक ।

यक्षेश्वरमहालील माया तेत्यद्भुता प्रभो

॥३४॥

मोहिता माययाद्यापि तव यक्षस्वरूपिणः ।

सगर्वमभिभाषन्तस्त्वत्पुरो हि पृथङ्मयाः

॥३५॥

इदानीं ज्ञानमायातन्तवैव कृपया प्रभो ।

कर्ता हर्ता च भर्ता च त्वमेवान्यो न शंकर

॥३६॥

त्वमेव सर्वशक्तीनां सर्वेषां हि प्रवर्तकः ।

निवर्तकश्च सर्वेशः परमात्माव्ययोऽद्वयः

॥३७॥

यक्षेश्वरस्वरूपेण सर्वेषां नो मदो हृतः ।

इतो मन्यामहे तत्तेनुग्रहो हि कृपालुना

॥३८॥

अथो स यक्षनाथोऽनुगृह्य वै सकलान् सुरान् ।

विबोध्य विविधैर्वाक्यैस्तत्रैवान्तरधीयत

॥३९॥

इत्थं स वर्णितः शम्भोरवतारः सुखावहः ।

यक्षेश्वराख्यस्सुखदस्सतान्तुष्टोऽभयंकरः

॥४०॥

इदमाख्यानममलं सर्वगर्वापहारकम् ।

सतां सुशान्तिदन्नित्यं भुक्तिमुक्तिप्रदं नृणाम्

॥४१॥

य इदं शृणुयाद्भक्त्या श्रावयेद्वा सुधीः पुमान् ।

सर्वकामानवाप्नोति ततश्च लभते गतिम्

॥४२॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां यक्षेश्वरावतारवर्णनं नाम षोडशोध्यायः ॥ १६ ॥