मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय १७

3
शतरुद्रसंहिता · 17

शिवदशावतारवर्णनम्

शृण्वथो गिरिशस्याद्यावतारान् दशसंख्यकान् ।

महाकलमुखान् भक्त्योपासनाकाण्डसेवितान्

॥१॥

तत्राद्यो हि महाकालो भुक्तिमुक्तिप्रदस्सताम् ।

शक्तिस्तत्र महाकाली भक्तेप्सितफलप्रदा

॥२॥

तारनामा द्वितीयश्च तारा शक्तिस्तथैव सा ।

भुक्तिमुक्तिप्रदौ चोभौ स्वसेवकसुखप्रदौ

॥३॥

भुवनेशो हि बालाह्वस्तृतीयः परिकीर्तितः ।

भुवनेशी शिवा तत्र बालाह्वा सुखदा सताम्

॥४॥

श्रीविद्येशः षोडशाह्वः श्रीर्विद्या षोडशी शिवा ।

चतुर्थो भक्त सुखदो भुक्तिमुक्तिफलप्रदः

॥५॥

पञ्चमो भैरवः ख्यातः सर्वदा भक्तकामदः ।

भैरवी गिरिजा तत्र सदुपासककामदा

॥६॥

छिन्नमस्तकनामासौ शिवः षष्ठः प्रकीर्तितः ।

भक्तकामप्रदा चैव गिरिजा छिन्नमस्तका

॥७॥

धूमवान् सप्तमः शम्भुस्सर्वकामफलप्रदः ।

धूमवती शिवा तत्र सदुपासककामदा

॥८॥

शिवावतारः सुखदो ह्यष्टमो बगलामुखः ।

शक्तिस्तत्र महानन्दा विख्याता बगलामुखी

॥९॥

शिवावतारो मातङ्गो नवमः परिकीर्तितः ।

मातंगी तत्र शर्वाणी सर्वकामफलप्रदा

॥१०॥

दशमः कमलः शम्भुर्भुक्तिमुक्तिफलप्रदः ।

कमला गिरिजा तत्र स्वभक्तपरिपालिनी

॥११॥

एते दशमिताः शैवा अवतारास्सुखप्रदाः ।

भुक्तिमुक्तिप्रदाश्चैव भक्तानां सर्वदास्सताम्

॥१२॥

एते दशावतारा हि शंकरस्य महात्मनः ।

नानासुखप्रदा नित्यं सेवतां निर्विकारतः ।

एतद्दशावताराणां माहात्म्यं वर्णितं मुने ।

सर्वकामप्रदं ज्ञेयं तंत्रशास्त्रादिगर्भितम्

॥१४॥

एतासामादिशक्तीनामद्भुतो महिमा मुने ।

सर्वकामप्रदो ज्ञेयस्तत्रंशास्त्रादिगर्भितः

॥१५॥

शत्रुमारणकार्य्यादौ तत्तच्छक्तिः परा मता ।

खल दण्डकरी नित्यम्ब्रह्मतेजोविवर्द्धिनी

॥१६॥

इत्युक्तास्ते मया ब्रह्मन्नवतारा महेशितुः ।

सशक्तिका दशमिता महाकालमुखाश्शुभाः

॥१७॥

शैवपर्वसु सर्वेषु योऽधीते भक्तितत्परः ।

एतदाख्यानममलं सोतिशम्भुप्रियो भवेत्

॥१८॥

ब्रह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत ।

धनाधिपो हि वैश्यः स्याच्छूद्रः सुखमवाप्नुयात्

॥१९॥

शांकरा निजधर्मस्थाः शृण्वन्तश्चरितन्त्विदम् ।

सुखिनः स्युर्विशेषेण शिवभक्ता भवन्तु च

॥२०॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवदशावतारवर्णनं नाम सप्तदशोऽध्यायः ॥१७।