भैरवावतारलीलावर्णनम्
नन्दीश्वर उवाच
सनत्कुमार सर्वज्ञ भैरवीमपरां कथाम् ।
शृणु प्रीत्या महादोषसंहर्त्रीम्भक्तिवर्द्धिनीम्
॥१॥तत्सान्निध्यं भैरवोऽपि कालोऽभूत्कालकालनः ।
स देवदेववाक्येन बिभ्रत्कापालिकं व्रतम्
॥२॥कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ।
नात्याक्षीच्चापि तं देवं ब्रह्महत्यापि दारुणा
॥३॥प्रतितीर्थं भ्रमन्वापि विमुक्तो ब्रह्महत्यया ।
अतः कामारिमहिमा सर्वोपि ह्यवगम्यताम्
॥४॥प्रमथैः सेव्यमानोऽपि ह्येकदा विहरन्हरः ।
कापालिको ययौ स्वैरी नारायणनिकेतनम्
॥५॥अथायान्तं महाकालं त्रिनेत्रं सर्पकुण्डलम् ।
महादेवांशसम्भूतं पूर्णाकारं च भैरवम्
॥६॥पपात दण्डवद्भूमौ तं दृष्ट्वा गरुडध्वजः ।
देवाश्च मुनयश्चैव देवनार्य्यः समन्ततः
॥७॥अथ विष्णुः प्रणम्यैनं प्रयातः कमलापतिः ।
शिरस्यञ्जलिमाधाय तुष्टाव विविधैः स्तवः
॥८॥सानन्दोऽथ हरिः प्राह प्रसन्नात्मा महामुने ।
क्षीरोदमथनोद्भूतां पद्मां पद्मालयां मुदा
॥९॥विष्णुरुवाच
प्रिये पश्याब्जनयने धन्यासि सुभगेऽनघे ।
धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम्
॥१०॥अयन्धाता विधाता च लोकानां प्रभुरीश्वरः ।
अनादिः शरणः शान्तः पुरः षड्विंशसंमितः
॥११॥सर्वज्ञः सर्वयोगीशस्सर्वभूतैकनायकः ।
सर्वभूतान्तरात्मायं सर्वेषां सर्वदः सदा
॥१२॥ये विनिद्रा विनिश्वासाः शान्ता ध्यानपरायणाः ।
धिया पश्यंति हृदये सोयं पद्मे समीक्षताम्
॥१३॥यं विदुर्व्वेदतत्त्वज्ञा योगिनो यतमानसाः ।
अरूपो रूपवान्भूत्वा सोऽयमायाति सर्वगः
॥१४॥अहो विचित्रं देवस्य चेष्टितम्परमेष्ठिनः ।
यस्याख्यां ब्रुवतो नित्यं न देहः सोऽपि देहभृत्
॥१५॥तं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि ।
सोयमायाति भगवांस्त्र्यम्बकश्शशिभूषणः
॥१६॥पुण्डरीकदलायामे धन्ये मेऽद्य विलोचने ।
यद्दृश्यते महादेवो ह्याभ्यां लक्ष्मि महेश्वरः
॥१७॥धिग्धिक्पदन्तु देवानां परं दृष्ट्वा न शंकरम् ।
लभ्यते यत्र निर्वाणं सर्व दुःखान्तकृत्तु यत्
॥१८॥देवत्वादशुभं किञ्चिद्देवलोके न विद्यते ।
दृष्ट्वापि सर्वे देवेशं यन्मुक्तिन्न लभामहे
॥१९॥एवमुक्त्वा हृषीकेशस्संप्रहृष्टतनूरुहः ।
प्रणिपत्य महादेवमिदमाह वृषध्वजम्
॥२०॥विष्णुरुवाच
किमिदन्देवदेवेन सर्वज्ञेन त्वया विभो ।
क्रियते जगतां धात्रा सर्वपापहराव्यय
॥२१॥क्रीडेयन्तव देवेश त्रिलोचन महामते ।
किङ्कारणं विरूपाक्ष चेष्टितन्ते स्मरार्दन
॥२२॥किमर्थं भगवञ्छम्भो भिक्षाञ्चरसि शक्तिप ।
संशयो मे जगन्नाथ एष त्रैलोक्यराज्यद
॥२३॥नन्दीश्वर उवाच
एवमुक्तस्ततः शम्भुर्विष्णुना भैरवो हरः ।
प्रत्युवाचाद्भुतोतिस्स विष्णुं हि विहसन्प्रभुः
॥२४॥भैरव उवाच
ब्रह्मणस्तु शिरश्छिन्नमंगुल्याग्रनखेन ह ।
तदघम्प्रतिहन्तुं हि चराम्येतद्व्रतं शुभम्
॥२५॥नन्दीश्वर उवाच
एवमुक्तो महेशेन भैरवेण रमापतिः ।
स्मृत्वा किंचिन्नतशिराः पुनरेवमजिज्ञपत्
॥२६॥विष्णुरुवाच
यथेच्छसि तथा क्रीड सर्वविघ्नोपनोदक ।
मायया मां महादेव नाच्छादयितुमर्हसि
॥२७॥नाभीकमलकोशात्तु कोटिशः कमलासनाः ।
कल्पे कल्पे पुरा ह्यान्सत्यं योगबलाद्विभो
॥२८॥त्यज मायामिमान्देव दुस्तरामकृतात्मभिः ।
ब्रह्मादयो महादेव मायया तव मोहिताः
॥२९॥यथावदनुगच्छामि चेष्टितन्ते शिवापते ।
तवैवानुग्रहाच्छम्भो सर्वेश्वर सतांगते
॥३०॥संहारकाले संप्राप्ते सदेवान्निखिलान्मुनीन् ।
लोकान्वर्णाश्रमवतो हरिष्यसि यदा हर
॥३१॥तदा कृते महादेव पापं ब्रह्मवधादिकम् ।
पारतन्त्र्यं न ते शम्भो स्वैरं क्रीडत्यतो भवान्
॥३२॥अर्घीव ब्रह्मणो ह्यस्थ्नां स्रक्कण्ठे तव भासते ।
तथाद्यनुगता शम्भो ब्रह्महत्या तवानघ
॥३३॥कृत्वापि सुमहत्पापं यस्त्वां स्मरति मानवः ।
आधारं जगतामीश तस्य पापं विलीयते
॥३४॥यथा तमो न तिष्ठेत सन्निधावंशुमालिनः ।
तथैव तव यो भक्तः पापन्तस्य व्रजेत्क्षयम्
॥३५॥यश्चिन्तयति पुण्यात्मा तव पादाम्बुजद्वयम् ।
ब्रह्महत्याकृतमपि पापन्तस्य व्रजेत्क्षयम्
॥३६॥तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते ।
अप्यद्रिकूटतुलितं नैनस्तमनुबाधते
॥३७॥परमात्मन्परन्धाम स्वेच्छाभिधृतविग्रह ।
कुतूहलं तवेशेदं कृपणाधीनतेश्वर
॥३८॥अद्य धन्योऽस्मि देवेश यत्र पश्यंति योगिनः ।
पश्यामि तं जगन्मूर्त्ति परमेश्वरमव्ययम्
॥३९॥अद्य मे परमो लाभस्त्वद्य मे मंगलं परम् ।
तं दृष्ट्वामृत तृप्तस्य तृणं स्वर्गापवर्गकम्
॥४०॥इत्थं वदति गोविंदे विमला पद्मया तया ।
मनोरथवती नाम भिक्षा पात्रे समर्पिता
॥४१॥भिक्षाटनाय देवोऽपि निरगात्परया मुदा ।
अन्यत्रापि महादेवो भैरवश्चात्तविग्रहः
॥४२॥दृष्ट्वानुयायिनीं तान्तु समाहूय जनार्दनः ।
संप्रार्थयद्ब्रह्महत्यां विमुंच त्वं त्रिशूलिनम्
॥४३॥ब्रह्महत्योवाच
अनेनापि मिषेणाहं संसेव्यामुं वृषध्वजम् ।
आत्मानम्पावयिष्यामि त्वपुनर्भवदर्शनम्
॥४४॥नन्दीश्वर उवाच
सा तत्याज न तत्पार्श्वं व्याहृतापि मुरारिणा ।
तमूचेऽथ हरिं शंभुः स्मेरास्यो भैरवो वचः
॥४५॥भैरव उवाच
त्वद्वाक्पीयूषपानेन तृप्तोऽस्मि बहुमानद ।
स्वभावोऽयं हि साधूनां यत्त्वं वदसि मापते
॥४६॥वरं वृणीष्व गोविंद वरदोऽस्मि तवानघ ।
अग्रणीर्मम भक्तानां त्वं हरे निर्विकारवान्
॥४७॥नो माद्यन्ति तथा भैक्ष्यैर्भिक्षवोऽप्यतिसंस्कृतैः ।
यथा मानसुधापानैर्ननु भिक्षाटनज्वराः
॥४८॥नन्दीश्वर उवाच
इत्याकर्ण्य वचः शंभो भैरवस्य परात्मनः ।
सुप्रसन्नतरो भूत्वा समवोचन्महेश्वरम्
॥४९॥विष्णुरुवाच
एष एव वरः श्लाघ्यो यदहं देक्ताधिपम् ।
पश्यामि त्वान्देवदेव मनोवाणी पथातिगम्
॥५०॥अदभ्रेयं सुधादृष्टिरनया मे महोत्सवः ।
अयत्त्ननिधिलाभोयं वीक्षणं हर ते सताम्
॥५१॥अवियोगोऽस्तु मे देव त्वदंघ्रियुगलेन वै ।
एष एव वरः शंभो नान्यं कश्चिद् वृणे वरम्
॥५२॥श्रीभैरवी उवाच
एवम्भवतु ते तात यत्त्वयोक्तं महामते ।
सर्वेषामपि देवानां वरदस्त्वं भविष्यसि
॥५३॥नन्दीश्वर उवाच
अनुगृह्येति दैत्यारि केंद्राद्रिभुवनेचरम् ।
भेजे विमुक्तनगरीं नाम्ना वाराणसीं पुरीम्
॥५४॥क्षेत्रे प्रविष्टमात्रेऽथ भैरवे भीषणाकृतौ ।
हाहेत्युक्त्वा ब्रह्महत्या पातालं चाविशत्तदा
॥५५॥कपालं ब्राह्मणः सद्यो भैरवस्य करांबुजात् ।
पपात भुवि तत्तीर्थमभूत्कापालमोचनम्
॥५६॥कपालं ब्रह्मणो रुद्रस्सर्वेषामेव पश्यताम् ।
हस्तात्पतन्तमालोक्य ननर्त परया मुदा
॥५७॥विधेः कपालं नामुंचत्करमत्यन्तदुस्सहम् ।
परस्य भ्रमतः क्वापि तत्काश्यां क्षणतोऽपतत्
॥५८॥शूलिनो ब्रह्मणो हत्या नापैति स्म च या क्वचित् ।
सा काश्यां क्षणतो नष्टा तस्मात्सेव्या हि काशिका
॥५९॥कपालमोचनं काश्यां यः स्मरेत्तीर्थमुत्तमम् ।
इहान्यत्रापि यत्पापं क्षिप्रं तस्य प्रणश्यति
॥६०॥आगत्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।
तर्पयित्वा पितॄन्देवान्मुच्यते ब्रह्महत्यया
॥६१॥कपालमोचनं तीर्थं पुरस्कृत्वा तु भैरवः ।
तत्रैव तस्थौ भक्तानां भक्षयन्नघसन्ततिम्
॥६२॥कृष्णाष्टम्यान्तु मार्गस्य मासस्य परमेश्वरः ।
आविर्बभूव सल्लीलो भैरवात्मा सताम्प्रियः
॥६३॥मार्गशीर्षासिताष्टम्यां कालभैरवसन्निधौ ।
उपोष्य जागरं कुर्वन्महापापैः प्रमुच्यते
॥६४॥अन्यत्रापि नरो भक्त्या तद्व्रतं यः करिष्यति ।
स जागरं महापापैर्मुक्तो यास्यति सद्गतिम्
॥६५॥अनेकजन्मनियुतैर्यत्कृतं जन्तुभिस्त्वघम् ।
तत्सर्वं विलयं याति कालभैरवदर्शनात्
॥६६॥कालभैरवभक्तानां पातकानि करोति यः ।
स मूढो दुःखितो भूत्वा पुनर्दुर्गतिमाप्नुयात्
॥६७॥विश्वेश्वरेऽपि ये भक्ता नो भक्ताः कालभैरवे ।
ते लभन्ते महादुःखं काश्यां चैव विशेषतः
॥६८॥वाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ।
तस्य पापानि वर्द्धन्ते शुक्लपक्षे यथा शशी
॥६९॥कालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ।
भजेत्तस्य क्षयं पुण्यं कृष्णपक्षे यथा शशी
॥७०॥श्रुत्वाख्यानमिदम्पुण्यम्ब्रह्महत्यापनोदकम् ।
भैरवोत्पत्तिसंज्ञं च सर्वपापैः प्रमुच्यते
॥७१॥बन्धनागारसंस्थोऽपि प्राप्तोऽपि विपदम्पराम् ।
प्रादुर्भावं भैरवस्य श्रुत्वा मुच्येत सङ्कटात्
॥७२॥इति श्रीशिवमहापुराणे तृतीयायांशत रुद्रसंहितायां भैरवावतारलीलावर्णनं नाम नवमोऽध्यायः ॥ ९ ॥